________________
पञ्चमोऽध्यायः ।
३९९
·
"
क्रियाहेतुगुणत्वस्य हेतोः क्रियावत्त्वे साध्ये गगनेनानेकांत इत्ययुक्तं, तस्य क्रियाहेतुगुणायोगात् । वायुसंयोगः क्रियाहेतुरिति चेन्न, तस्य क्रियावति तृणादौ क्रियाहेतुत्वेन दर्शनात् । निष्क्रिये व्योमाद तथात्वेनाप्रतीतेः । न च य एवं तृणादौ वायुसंयोगः स एवाकाशेस्ति, प्रतियोगिसंयोगस्य भेदात् । वायुसंयोगसामान्यं तु न क्वचिदपि क्रियाकारणं, मंदतमवेगवायुसंयोगे सत्यपि पादपादौ क्रियानुप• लब्धेः । स्यान्मतं, क्रियावानात्मा सर्वगतत्वादाकाशवदित्यनुमानबाधितः क्रियावान् पुरुष इति पक्षः कालात्ययापदिष्टश्च हेतुरिति । तदसत् पुरुषस्य सर्वगतत्वासिद्धेः । सर्वगतः पुरुषो द्रव्यत्वे सत्यमूर्तत्वाद्गगनवदिति चेन्न, परेषां कालद्रव्येण व्यभिचारात् साधनस्य । कालस्य पक्षीकरणाददोष इति चेन्न, पक्षस्यानुमानागमबाधानुषंगात् । तथाहि - कालोऽसर्वगतो नानाद्रव्यत्वात् पुद्गलवदित्यनुमानं पक्षस्य बाधकं । न चात्रासिद्धो हेतुः तस्य नानाद्रव्यत्वेन स्याद्वादिनां सिद्धत्वात् । नानाद्रव्यं कालः प्रत्याकाशप्रदेशं युगपद्व्यवहार कालभेदान्यथानुपपत्तेः । प्रत्याकाशप्रदेशभिन्नो व्यवहारकालः सकृत्कुरुक्षेत्राकाशलंकाकाशदेशयोदिवसादिभेदान्यथानुपपत्तेः । तत्र दिवसादिभेदतः पुनः क्रियाविशेषभेदात् नैमित्तिकानां लौकिकानां च सुप्रसिद्ध एव । स च व्यवहारकालभेदो गौणः परैरभ्युपगम्यमानो मुख्यकालद्रव्यमंतरेण नोपपद्यते । यथा मुख्यसत्त्वमंतरेण क्वचिदुपचरितं सत्त्वमिति प्रतिलोकाकाशप्रदेशं कालद्रव्यभेदसिद्धिस्तत्साधनस्यानवद्यत्वात् अन्यथानुपपन्नत्वसिद्धेः ॥ कालस्या सर्वगतत्वेऽनिष्टानुषंगपरिजिही
या प्राहः
कालोऽसर्वगतत्वेन क्रियावन्नानुषज्यते । सर्वदा जगदेकैकदेशस्थत्वात् पृथक पृथक् ॥ ६ ॥ क्रियावान् कालोऽसर्वगतद्रव्यत्वात् पुद्गलवदित्यनिष्टानुषंजनमयुक्तं, सर्वदा लोकाकाशैकैकप्रदेशस्थ - त्वेन पृथक् पृथक् कालाणूनां प्रसाधनात् । ते हि प्रत्याकाशप्रदेशं प्रतिनियतस्वभावस्थितयोभ्युपगंतव्याः परीक्षकैरन्यथा व्यवहार कालभेदप्रतिनियतखभावस्थित्यनुपपत्तेः कदाचित्तत्परावृत्तिप्रसंगात् । अणुपरिमाणानि च तानि कालद्रव्याणि स्कंधाकारत्वेन कार्यानुमितिप्रतीयमानस्य कार्यस्य प्रत्याकाशप्रदेशं सकृद्व्यवहारकालभेदलक्षणस्याणुनापि कालद्रव्येण कर्तुं शक्यत्वात् । एतेन सर्वगतः काल इति पक्षस्यागमबाधोपदर्शिता । कथं ? " लोयायासपए से एक्केके जे ठिया हु एक्केका । रयणाणं रासी इव ते काला मुणेया ||" इत्यागमस्याबाधितस्य सिद्धेः । अत एव द्रव्यत्वे सत्यमूर्तत्वादिति हेतुः कालात्ययापदिष्टः । कालोऽसर्वगत एव व्यवतिष्ठते । तथा चात्मनः परममहत्त्वे साध्येस्यैव हेतोः कालेन व्यभिचारः सिद्ध्यतीति नातस्तत्सिद्धिर्येन क्रियावानात्मा क्रियाहेतुगुणत्वाल्लोष्ठवदित्यनुमानमनवद्यं न भवेत् । पक्षस्यानुमानबाधनानवताराद्धेतोश्च कालात्ययापदिष्टत्वाभावादिति सूक्तमाकाशांतानां निष्क्रियत्वं तद्वचनेन सामर्थ्याज्जीवपुद्गलानां सक्रियत्वप्रतिपादनं च कालस्य वक्ष्यमाणस्य निष्क्रियत्वात् ॥
नन्वेवं न क्रियत्वेपि धर्मादीनां व्यवस्थितेः । न स्युः स्वयमभिप्रेता जन्मस्थानव्ययक्रियाः ॥७ तथोत्पादव्ययधौव्ययुक्तं सदिति लक्षणं । तत्र न स्यात्ततो नैषां द्रव्यत्वं वस्तुतापि च ॥ ८ ॥ इत्यपास्तं परिस्पंदक्रियायाः प्रतिषेधनात् । उत्पादादिक्रियासिद्धेरन्यथा सत्त्वहानितः ॥ ९ ॥ परिस्पंदक्रियामूला नचोत्पादादयः क्रियाः । सर्वत्र गुणभेदानामुत्पादादिविरोधतः ॥ १० ॥ स्वपरप्रत्ययौ जन्मन्ययौ यदि गुणादिषु । स्थितिश्च किं न धर्मादिद्रव्येष्वेवमुपेयते ॥ ११ ॥ गतिस्थित्यवगाहानां परत्र न निबंधनं । धर्मादीनि क्रियाशून्य स्वभावत्वात्खपुष्पवत् ॥ १२ ॥ क्रियावत्त्वप्रसंगो वा तेषां वायुधरांबुवत् । इत्यचोद्यं बलाधानमात्रत्वाद्गमनादिषु ॥ १३ ॥ धर्मादीनां स्वशक्त्यैव गत्यादिपरिणामिनां । यथेंद्रियं बलाधानमात्रं विषयसंनिधौ ॥ १४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org