________________
४०० तत्त्वार्थश्लोकवार्तिके
[सू० ७ पुंसः स्वयं समर्थस्य तत्र सिद्धेर्न चान्यथा। तत्रैव द्रव्यसामर्थ्यानिष्क्रियाणामपि स्वयं ॥१५॥ धमोदीनां परत्रास्तु क्रियाकारणमाप्तता । नचैवमात्मनः कायक्रियाहेतुत्वमापतेत ॥ १६ ॥ सर्वथा निष्क्रियस्यापि स्वयं मानविरोधतः । आत्मा हि प्रेरको हेतुरिष्टः कायादिकर्मणि॥१७॥ तृणादिकर्मणीवास्तु पवनादिश्च सक्रियः । वीर्यातरायविज्ञानावरणच्छेदभेदतः ॥ १८ ॥ सक्रियस्यैव जीवस्य ततोंगे कर्महेतुता । हस्ते कर्मात्मसंयोगप्रपन्नाभ्यामुपेयते ॥ १९ ॥ यैस्तेपि च प्रतिक्षिप्तास्तयोस्तच्छक्त्ययोगतः। निष्क्रियो हि यथात्मैषां क्रियावद्वसदृश्यतः॥२० कालादिवत्तथैवात्मसंयोगः सप्रयत्नकः । गुणः स्यात्तस्य तद्वच्च निष्क्रियत्वादिदेशतः ॥ २१ ॥ गुणाः कर्माणि चैतेन व्याख्यातानीति सूचनात् । न तावदात्मसंयोगः केवलः कर्मकारणं॥२२ निःप्रयत्नस्य हस्तादौ क्रियाहेतुत्वहानितः । नैकस्य तत्प्रयत्नस्य क्रियाहेतुत्वमीक्ष्यते ॥ २३ ॥ शरीरायोगिनोन्यस्य ततः कर्मप्रसंगतः । सहितावात्मसंयोगप्रपन्नौ कुरुतः क्रियाः ॥२४॥ हस्तादावित्यसंभाव्यमनयोः सहदृष्टिवत् । अदृष्टापेक्षिणौ तौ चेदकुर्वाणौ क्रियां नरि ॥ २५॥ हस्तादौ कुरुतः कर्म नैवं कचिददृष्टतः । उष्णापेक्षो यथा वन्हिसंयोगः कलशादिषु ॥ २६ ॥ रूपादीन् पाकजान वर्तते वह्नौ स्वाश्रये तथा । नृसंयोगादिरन्यत्र क्रियामारभते न तु ॥२७॥ खाधारे नरि तस्येत्थं सामर्थ्यादितिचेन वै । वैषम्यादसदिष्टस्य सिद्धेः साध्यसमत्वतः ॥२८ प्रतीतिबाधनाच्चैतद्विपरीतप्रसिद्धितः । साध्ये क्रियानिमित्तत्वे दृष्टांतो ह्यक्रियाश्रयः ॥ २९ ॥ स्यादेष विषमस्तावदग्निसंयोग उष्णभृत् । यथा च स्वाश्रये कुर्वन् विकारं कलशादिषु ॥३०॥ करोति वन्हिसंयोगः पुंसो योगस्तथा तनौ । इत्यस्मदिष्टसंसिद्धिः क्रियापरिणतस्य नुः ॥३१ काये क्रियानिमित्तत्वसिद्धेः संयोगिनि स्फुटं । संयोगार्थातरं वन्हेंः कुटादेश्च तदाश्रितः ॥ ३२ समवायात्ततो भिन्नप्रतीत्या बाध्यते न किं । घटादिष्वामरूपादीन् विनाशयति स स्वयं ॥३३ पाकजान् जनयत्येतत्प्रतिपद्येत कः सुधीः । न चैषा पाकजोत्पत्तिप्रक्रिया व्यवतिष्ठते ॥३४॥ वन्हेः पाकजरूपादिपरिणामाः कुटादिषु । खहेतुभेदतः सर्वः परिणामः प्रतीयते ॥ ३५ ॥ पूर्वाकारपरित्यागादुत्तराकारलब्धितः । कुटे पाकजरूपादिपरित्यागेन जायते ॥ ३६॥ वन्हेः पाकजरूपादिस्तथा दृष्टेरबाधनात् । नौष्ण्यापेक्षस्ततो वन्हिसंयोगोत्र निदर्शनं ॥ ३७॥ नुः क्रियाहेतुतासिद्धौ विपरीतप्रसिद्धितः । अनुष्णाशीतरूपश्चाप्रेरकोनुपघातकः ॥ ३८ ॥ कुटेः प्राप्तः कथं रूपाद्युच्छेदोत्पादकारणं । गुरुत्वं निष्क्रिय लोष्ठे वर्तमानं तृणादिषु ॥ ३९ ॥ क्रियाहेतुर्यथा तद्वत्प्रयत्नादिस्तथेक्षणात् । ये त्वाहुस्तेपि विध्वस्ताः प्रत्येतव्या दिशानया ॥४० स्वाश्रये विक्रियाहेतौ ततोन्यत्र हि विक्रिया । द्रव्यस्यैव क्रियाहेतुपरिणामात्पुनः पुनः॥४१ क्रियाकारित्वमन्यत्र प्रतीत्या नैव बाध्यते । पुरुषस्तद्गुणो वापि न क्रियाकारणं तनौ ॥४२॥ निष्क्रियत्वाद्यथा व्योमेत्युक्तिर्यात्मनि बाधकं । नानैकांतिकता धर्मद्रव्येणास्य कथंचन ॥४३ तस्याः प्रेरकतासिद्धेः क्रियाया विग्रहादिषु । एवं सक्रियतासिद्धावात्मनो निर्वतावपि ॥४४॥ सक्रियत्वं प्रसक्तं चेदिष्टमूर्ध्वगतित्वतः । यादृशी सशरीरस्य क्रिया मुक्तस्य तादृशी॥ ४५ ॥ न युक्ता तस्य मुक्तत्वविरोधात् कर्मसंगतः। क्रियानेकप्रकारा हि पुद्गलानामिवात्मनां ॥४६॥ स्वपरप्रत्ययायत्तभेदा न व्यतिकीर्यते । सान्यैव तद्वतो येषां तेषां तद्वयशून्यता ॥४७॥ क्रियाक्रियावतोभैदेनाप्रतीतेः कदाचन । क्रियाक्रियाश्रयौ भिन्नौ विभिन्नप्रत्ययत्वतः ॥ ४८ सह्यविंध्यवदित्येतद्विभेदैकांतसाधनं । धर्मिग्राहिप्रमाणेन हेतोधिननिर्णयात् ॥ ४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org