________________
•
पञ्चमोऽध्यायः ।
४०१
कथंचिद्भिन्नयोस्तेन तयोर्ग्रहणतः स्फुटं । विभिन्नप्रत्ययत्वं च सर्वथा यदि गद्यते ॥ ५० ॥ तत एव तदा तस्य सिद्धत्वं प्रतिवादिनः । कथंचित्तु न तत्सिद्धं वादिनामित्यसाधनं ॥ ५१ ॥ विरुद्धं वा भवेदिष्टविपरीतप्रसाधनात् । साध्यसाधनवैकल्यं दृष्टांतस्थापि दृश्यताम् ॥ ५२ ॥ सत्त्वेनाभिन्नयोरेव प्रतीतेः सह्यविध्ययोः । विरुद्धधर्मताध्यासादित्यादेरप्यहेतुता ॥ ५३ ॥ प्रोक्तेन प्रपत्तव्या सर्वथाप्यविशेषतः । क्रियाक्रियावतोनन्यानन्यदेशत्वतः क्रिया ॥ ५४ ॥ तत्स्वरूपवदित्येके तदप्यज्ञानचेष्टितं । लौकिकानन्यदेशत्वं हेतुभिचारता ॥ ५५ ॥ वातातपादिभिस्तस्यानन्य देशैर्विभेदिभिः । शास्त्रीयानन्यदेशत्वं मन्यते साधनं यदि ॥ ५६ ॥ न सिद्धमन्यदेशत्वप्रतीते रूपयोस्तयोः । तद्वद्देशा क्रिया तद्वत्स्वकीयाश्रयदेशकः ॥ ५७ ॥ प्रतीयते यदानन्यदेशत्वं कथमेतयोः । सर्वथानन्यदेशत्वमसिद्धं प्रतिवादिनः ॥ ५८ ॥ कथंचिद्वादिनस्तत्स्याद्विरुद्धं चेष्टहानिकृत् । धर्मिग्राहिप्रमाणेन बाधा पक्षस्य पूर्ववत् ॥ ५९ ॥ साधनस्य च विज्ञेया तैरेवातीतकालता । निष्क्रियाः सर्वथा सर्वे भावाः स्युः क्षणिकत्वतः ६० पर्यायार्थतया लब्धि प्रतिक्षणविवर्तवत् । इत्याहुर्ये न ते स्वस्थाः साधनस्याप्रसिद्धितः ॥ ६१ ॥ न हि प्रत्यक्षतः सिद्धं क्षणिकत्वं निरन्वयं । साधर्म्यस्य ततः सिद्धेर्बहिरंतश्च वस्तुनः ॥ ६२ ॥ इदानींतनता दृष्टिर्न क्षणक्षयिणः कचित् । कालांतरस्थितेरेव तथात्वप्रतिपत्तितः ॥ ६३ ॥ नानुमानाच्च तत्सिद्धं तद्धेतोरन भीक्षणात् । सच्चादि सत्त्वहेतुश्चेन्न तत्रागमकत्वतः ॥ ६४ ॥ विरुद्धादितया तस्य पुरस्तादुपवर्णनात् । प्रपंचेन पुनर्नेह तद्विचारः प्रतन्यते ॥ ६५ ॥ कथंचिनिष्क्रियत्वेन साध्ये स्यात्सिद्धसाधनं । तनिश्चयनयादेशात्प्रसिद्धं सर्ववस्तुषु ॥ ६६ ॥ व्यवहारनयात्तेषां सक्रियत्वप्रसिद्धितः । भूतिर्येषां क्रिया सैवेप्ययुक्तं सान्वयत्वतः ॥ ६७ ॥ नित्यत्वात्सर्वभावानां निष्क्रियत्वं तु सर्वथा । यैरुक्तं तेप्यनेनैव हेतुना दूषिता हृताः ||६८ || सर्वथा तन्मतध्वंसात्प्रमाणाभावतः क्वचित् । कथंचिन्नित्यताहेतुर्यदि तस्य विरुद्धता ।। ६९ ।। कथंचिन्निष्क्रियत्वस्य साधनात् क्षणिकादिवत् । ततः स्युर्निष्क्रियाः सर्वे भावाः स्यात्सक्रियासह विरोधादिप्रसंगचेन्न दृष्टे तदयोगतः । चैत्रैकज्ञानवत्स्वेष्टतत्त्ववद्वा प्रवादिनाम् ॥ ७१ ॥ स्वेष्टं तत्त्वमनिष्टात्मशून्यं सदिति ये विदुः । सदसद्रूपमेकं ते निराकुर्युः कथं पुनः ॥ ७२ ॥ निष्क्रियेतरताभावे बहिरंतः कथंचन । प्रतीतेर्बाधशून्यायाः सर्वथाप्यविशेषतः ॥ ७३ ॥
1
असंख्येयाः प्रदेशा धर्माधर्मैकजीवानाम् ॥ ८ ॥
प्रदेशेयत्तावधारणार्थमिदं । धर्माधर्मयोरेकजीवस्य च । कुतः पुनरसंख्येयप्रदेशता धर्मादीनां प्रसियतीत्यावेदयति ;
--
प्रतिदेशं जगद्व्योमव्याप्तयोग्यत्वसिद्धितः । धर्माधर्मैकजीवानामसंख्येयप्रदेशता ॥ १॥ लोकाकाशवदेव स्याच्चासंख्येयप्रदेशभृत् । तदाध्येयस्य लोकस्य सावधित्वप्रसाधनात् || २ || अनंतदेशतापायात् प्रसंख्यातुमशक्तितः । न तत्रानंतसं ख्यातप्रदेशत्वविभावना ॥ ३॥
न ह्ययं लोको निरवधिः प्रतीतिविरोधात् । पृथिव्या उपरि सावधित्वदर्शनात् पार्श्वतोधस्ताच्च सावधित्वसंभवनात् तद्वदुपरि लोकस्य सावधित्वसिद्धेः । सर्वतः अपर्यंता मेदिनीति साधने सर्वस्य हेतोरप्रयोजकत्वापत्तेः । प्रसिद्धे च सावधौ लोके तदधिकरणस्याकाशस्य लोकाकाशसंज्ञकस्य सावधित्वसिद्धेः परिशेषादसंख्येयप्रदेशत्वसिद्धिः । तथाहि न तावल्लोकाकाशमनंतप्रदेशं शश्वदसंहरणधर्मत्वे सति
५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org