________________
तत्त्वार्थश्लोकवार्तिके
[सू० ९
सावधित्वात् पंचाणुकाकाशवत् । असंहरणधर्मत्वादित्युच्यमाने लोकाकाशेन व्यभिचार इति सावधित्ववचनं, सावधित्वादित्युक्तेपि पुद्गलस्कंधेनानंतपरमाणुकेनानेकांतो मा भूदिति शश्वदसंहरणधर्मकत्वे सतीति विशेषणं । न चैतदसिद्धं साधनसद्भावात् । शश्वदसंहरणधर्मकं लोकाकाशमजीवत्वे सत्यमूर्तद्रव्यत्वादलोकाकाशवत् । न ह्यलोकाकाशं कदाचित्संहरणधर्म सर्वदा परममहत्त्वाभावप्रसंगात् । तथा न संख्यातप्रदेशं लोकाकाशं गणनया प्रसंख्यातुमशक्यत्वादलो का का शव देवेति नानंतसंख्यातप्रदेशत्वं तस्य विभावयितुं शक्यं । परिशेषादसंख्येयप्रदेशं लोकाकाशं सिद्धं । ततो धर्माधर्मैकजीवास्त्वसंख्येयप्रदेशाः प्रतिप्रदेशं तावदसंख्येयप्रदेशलो का काश व्याप्तियोग्यत्वात् यन्न तथा तन्न तथा यथैकपरमाणुरिति निरवद्यो हेतुः, अन्यथानुपपत्तिसद्भावात् ॥ नन्वत्र जीवस्यैकविशेषणं किमर्थमित्यारे कायामिदमाह; -
४०२
एकजीववचःशक्तेर्नासंख्येयप्रदेशता । नानात्मनामनंतादिप्रदेशत्वस्य संभवात् ॥ ४ ॥
एकजीववचनसामर्थ्यान्न नानाजीवानामसंख्येयप्रदेशत्वं तेषां अनंतप्रदेशत्वस्यानंतानंत प्रदेशत्वस्य च संभवात् ॥ कुतः पुनर्धर्मादीनां सप्रदेशत्वं सिद्धं यतोऽसंख्येयप्रदेशता साध्यत इत्याशंकां निराचिकीर्षुराह ;
प्रदेशा इमे सर्वे मूर्तिमद्रव्य संगमात् । सकृदेवान्यथा तस्यायोगादेकाणुवत्ततः ॥ ५ ॥ ॥ न हि सकृत्सर्वमूर्तिमद्रव्य संगमः सप्रदेशत्वमंतरेण घटते धर्मादीनामेकपरमाणुवत् । ततोमी धर्माधर्मेकजीवास्ते सप्रदेशा एव । मुख्यप्रदेशाभावादुपचरिताः प्रदेशास्तेषामिति चेत्, कुतस्तत्र तदुपचारः ? सकृन्नानादेशद्रव्यसंबंधादेव तस्य सप्रदेशे कांडपटादौ दर्शनादिति चेत् तद्वन्मुख्य प्रदेशसद्भावे को दोषो ? अनित्यत्वप्रसंगः सावयवस्यानित्यत्वप्रसिद्धेर्घटादिवदिति चेत्, कथंचिदनित्यत्वस्येष्टत्वाददोषोयं । सर्वथानित्यत्वेर्थक्रियाविरोधात् । सर्वस्य कथंचिदनित्यत्वस्य व्यवस्थापनात् ॥
जीवस्य सर्वतद्रव्यसंगमो न विरुध्यते । लोकपूरणसंसिद्धेः सदा तद्योग्यतास्थितेः ॥ ६॥ जीवो हि लोकपूरणावस्थायां सकृत्सर्वमूर्तिमद्द्रव्यैः संबध्यते इति सिद्धांतसद्भावान्न स्याद्वादिनां तस्य सकृत्सर्वमूर्तिमद्रव्य संगमो विरुध्यते, शेषावस्थाखपि तद्योग्यताव्यवस्थापनात् । एतेन धर्माधर्मयोः सर्वथा प्रतिदेशं लोकाकाशव्याप्तिवदेकजीवस्यापि तद्व्याप्तियोग्यत्वस्थितेरसंख्येयप्रदेशत्वसाधने हेतोर - सिद्धिः परिहृता वेदितव्या । तथा योग्यतामंतरेण धर्मादीनां शश्वत्तद्व्याप्तिविरोधात् । परमाणुवत् कालानुवद्वा तद्व्याप्तिः साधयिष्यते चाग्रतः ॥
अथाकाशस्य कियंतः प्रदेशा इत्याह;
आकाशस्यानंताः ॥९॥
प्रदेशा इत्यनुवर्तते । पूर्वसूत्रे वृत्त्यकरणं तत एवासंख्येयप्रदेशा इति वृत्तिनिर्देशे लाघवेपि वाक्यनिर्देशोऽसंख्येयाः इति कृत इहोत्तरसूत्रेषु च प्रदेशग्रहणं मा भूद्योगैरेवमिति । अतोऽवसानमिह गृह्यते, अविद्यमानोंतो येषां त इमेऽनंताः प्रदेशा इत्यन्यपदार्थनिर्देशोयं । ते चाकाशस्येति भेदनिर्देशः कथंचित्प्रदेश प्रदेशिनोर्भेदोपपत्तेः । सर्वथा तयोरभेदे प्रदेशिनः खप्रदेशादेकस्मादर्थांतरत्वाभावात् प्रदेशमात्रत्वप्रसंग इति प्रदेशिनोऽसत्त्वं । तदसत्त्वे प्रदेशस्याप्यसत्त्वमित्युभयासत्त्वप्रसक्तिः । सर्वथा तद्भेदे पुनराकाशस्य च द्रव्यप्रदेशा द्रव्याणि वा स्युर्गुणादयो वा ? यदि द्रव्याणि तदाकाशस्यानेकद्रव्यत्वप्रसंगो घटादिवत् । तथा च सादिपर्यवसानत्वं तद्वदेव । न ह्यनेकद्रव्यारब्धं द्रव्यं किंचिदनाद्यनंतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org