________________
पञ्चमोऽध्यायः।
४०३ दृष्टमिष्टं वा परस्य । गुणाः प्रदेशा इति चेन्न, गुणांतराश्रयत्वविरोधात् । साधारणगुणा हि संयोगविभागसंख्यादयस्तत्रेष्यते घटसंयोगोन्यस्याकाशप्रदेशस्य कुड्यसंयोगोन्यस्य द्वार्विभागोऽन्यस्य दंडविभागोन्यस्येति संयोगविभागयोः प्रतीतेः । एकः खस्य प्रदेशो द्वौ चेति संख्यायाः संप्रत्ययात् परो गगनप्रदेशोऽपरो वेति परत्वापरत्वयोरवबोधात् पृथगेतस्मात् पाटलिपुत्राकाशप्रदेशाच्चित्रकूटाद्याकाशप्रदेश इति पृथक्त्वस्योपलंभात् । तथा घटाकाशप्रदेशान्महान् मंदराकाशप्रदेश इति परिमाणस्य सन्निर्णयात् । प्रदेशिन्येवाकाशे संयोगादयो गुणा न प्रदेशेष्विति चेन्न, अवयवसंयोगपूर्वकावयविसंयोगोपगमाद्धि तंतुकवीरणसंयोगवत् । पटादीनामाकाशप्रदेशसंयोगमंतरेणाकाशप्रदेशे संयोगोपरः एकवीरणस्य सिद्धिः । सिद्धे तंतुकसंयोगे द्वितंतुकसंयोगप्रसंगात् संयोगजसंयोगाभावः । एतेन विभागजविभागाभावः प्रतिपादितः । संख्या पुनर्द्वित्वादिकाकाशे प्रदेशिन्यनुपपन्नैव तस्यैकत्वात् । एतेन परत्वापरत्वपृथक्त्वपरिमाणभेदाभावः प्रतिनिवेदितः तत्रैकत्र तदनुपपत्तेः । ततः खप्रदेशेप्वेवैते गुणाः सिद्धा इति न गुणाः प्रदेशा गुणित्वात् पृथिव्यादिवत् । नापि कर्माणि तत एव परिस्पंदात्मकत्वाभावाच्च । नापि सामान्यादयोनुवृत्तिप्रत्ययादिहेतुत्वाभावात् । पदार्थातराणि खप्रदेशा इत्ययुक्तं । षट्पदार्थनियमविरोधात् । अत एव न मुख्याः खस्य प्रदेशा इति चेन्न, मुख्यकार्यकारणदर्शनात् । तेषामुपचरितत्वे तदयोगात् । न ह्युपचरितोग्निः पाकादावुपयुज्यमानो दृष्टस्तस्य मुख्यत्वप्रसंगात् । प्रतीयते च मुख्य कार्यमनेकपुद्गलद्रव्याद्यवगाहकलक्षणं । निरंशस्यापि विभुत्वात्तद्युक्तमिति चेत् , कथं विभुर्निरंशो वेति न विरुध्यते । ननु प्रमाणसिद्धत्वाद्वादिप्रतिवादिनोराकाशे विभुत्वभावं न विप्रतिषिद्धं । तत एव निरंशत्वसिद्धिः । तथाहि-निरंशमाकाशादि सर्वजगद्व्यापित्वात् यन्न निरंशं न तत्तथा दृष्टं यथा घटादि सर्वजगद्व्यापि चाकाशादि तस्मान्निरंशमिति कश्चित् । तदसमीचीनं, हेतोः पक्षाव्यापकत्वात् परमाणौ निरंशे तदभावात् । तस्या विवादगोचरत्वादपक्षीकरणाददोष इति चेन्न, सांशपरमाणुवादिनस्तत्रापि विप्रतिपत्तेः पक्षीकरणोपपत्तेः । साधनांतरात्तत्र निरंशत्वसिद्धेरिहापक्षीकरणमिति चेत् , एवं तर्हि न कश्चित्पक्षाव्यापको हेतुः स्यात् चेतनास्तरवः खापात् मनुष्यवदित्यत्रापि तथा परिहारस्य संभवात् । शक्यं हि वक्तुं येषु तरुषु खापादयोऽसिद्धास्त एव पक्षीक्रियते, तेनेतरे तत्र हेत्वंतराच्चेतनत्वप्रसाधनात् । ततो न पक्षाव्यापको हेतुरिति किल कालात्ययापदिष्टो हेतुर्निरंशत्वसाधने; सर्वजगद्व्यापित्वादिति पक्षस्यानुमानागमबाधितत्वात् अत्र हेतोः सामान्यादिभिर्व्यभिचारासंभवात् , तेषां सकृद्भिन्नदेशद्रव्यसंबंधस्य प्रमाणसिद्धस्याभावात् । तथा धर्माधर्मेकजीवलोकाकाशानां तुल्यासंख्येयप्रदेशत्वात् प्रदेशसमवाय इत्याद्यागमस्यापि तत्सांशत्वप्रतिपादकस्य सुनिश्चितासंभवबाधकस्य सद्भावाच्च । यदप्युच्यते निरंशमाकाशादि सदावयवानारभ्यत्वात् परमाणुवदिति तदप्यनेन निरस्तं, हेतोः कालात्ययापदिष्टत्वविशेषात् । किं च यदि सर्वथा सदावयवानारभ्यत्वं हेतुस्तदा प्रतिवाद्यसिद्धः पर्यायार्थादेशात् पूर्वपूर्वाकाशादिप्रदेशोत्पत्तेरारभ्यारंभकभावोपपत्तेः । अथ कथंचित्सदावयवानारभ्यत्वं हेतुस्तदा विरुद्धः, कथंचिन्निरंशत्वस्य सर्वथा निरंशत्वविरुद्धस्य साधनात् । कथंचिन्निरंशत्वस्य साधने सिद्धसाधनमेव पुद्गलस्कंधवत्सर्वदावयवविभागाभावात् सावयवत्वाभावोपगमात् । स्यान्मतं, नाकाशादीनां प्रदेशा मुख्याः संति खतोऽप्रदिश्यमानत्वात् परमाणुवत् । परमाण्वादीनां हि मुख्याः प्रदेशाः खतोवधार्यमाणाः सिद्धा इति । तदयुक्तं, परमाणोरेकप्रदेशाभावप्रसंगात् छद्मस्थैः खतोऽप्रदिश्यमानत्वा विशेषात् । परमागुरेकप्रदेशोत्यन्तपरोक्षत्वादस्मदादीनां स्वतोप्रदिश्यमान इति चेत् , त एवाकाशादिप्रदेशाः खतोपदिश्यमानाः संत्वस्मदादिभिः । अतींद्रियार्थदर्शिनां तु यथा परमाणुरेकप्रदेशः खतः प्रदेश्यस्तथाकाशादिप्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org