________________
४०४
तत्त्वार्थश्लोकवार्तिके
[सू० ९
देशोपीति खतोऽप्रदिश्यमानत्वादित्यसिद्धो हेतुः । पटादिद्यणुकाद्यवयवैरनेकांतिकश्च तेषामस्मदादिभिः खतोऽप्रदिश्यमानानामपि भावात् । किं च कथंचित्सांशमाकाशादि परमाणुभिरेकदेशेन युज्यमानत्वात् स्कंधवत् । तस्य तैः सर्वात्मना संयुज्यमानत्वे परमाणुमात्रत्वप्रसंगात् । तथा चाकाशादिबहुत्वापत्तिः । स्यान्मतं, नैकदेशेन सर्वात्मना वा परमाणुभिराकाशादिर्युज्यते । किं तर्हि ? युज्यते एव यथावयवी स्वावयवैः सामान्यं वा स्वाश्रयैरिति । तदसत् साध्यसमत्वान्निदर्शनस्य । तस्याप्यवयव्यादेः सर्वथा निरंशत्वे स्वावयवादिभिरेकांततो भिन्नैः संबंधो यथोक्तदोषानुषंगात् कात्स्यैकदेशव्यतिरिक्तस्य प्रकारांतरस्य तत्संबंधनिबंधनस्यासिद्धेः । कथंचित्तादात्म्यस्य तत्संबंधत्वे स्याद्वादिमतसिद्धिः, सामान्यतद्वतोरवयवावयविनोश्च कथंचित्तादात्म्योपगमात् । न चैवमाकाशादेः परमाणुभिः कथंचित्तादात्म्यमित्येकदेशेन संयोगोभ्युपगंतव्यः । तथा च सांशत्वसिद्धिः । किं च सांशमाकाशादि श्येनमेषाद्यन्यतोभयकर्मजसंयोगविभागान्यथानुपपत्तेः । श्येनेन हि स्थाणोः संयोगो विभागश्चान्यतर कर्मजस्तत्रोत्पन्नं कर्म स्वाश्रयं श्येनं तदाकाशप्रदेशाद्वियोज्य स्थाण्वाकाशदेशेन संयोजयति ततो वा विभिद्याकाशदेशांतरेण संयोजयतीति प्रतीयते न चाकाशस्यैकदेशाभावे तद्धटनात् कर्मणः स्वाश्रयान्याश्रययोरेकदेशत्वात् । एतेन शेषयोरुभयकर्मजः संयोगो विभागश्चाकाशस्याप्रदेशत्वेन घटत इति निवेदितं क्रियानुपपत्तिश्च तस्याः देशांतरप्राप्तिहेतुत्वेन व्यवस्थितत्वात् देशांतरस्य वा संभवात् । तत एव परत्वापरत्वपृथक्त्वाद्यनुपपत्तिः पदार्थानां विज्ञेया । तत्सकलमभ्युपगच्छतांजसा सांशमाकाशादि प्रमाणयितव्यं ॥ कुतः पुनराकाशस्याताः प्रदेशा इत्यावेदयति ;
अनंतास्तु प्रदेशाः स्युराकाशस्य समंततः । लोकत्रयाद्बहिः प्रांताभावात्तस्यान्यथागतेः ॥ १ ॥
अनंतप्रदेशमाकाशं लोकत्रयाद्वहिः समंततः प्रांताभावात् यन्नानतप्रदेशं न तस्य ततो बहिः समंततः प्रांताभावो यथा परमाण्वादेः । इत्यन्यथानुपपत्तिलक्षणो हेतुः खसाध्यं साधयत्येव । ततो बहिः समं - ततः प्रांताभावस्याभावे पुनराकाशस्य गत्यभावप्रसंगात् । भावेपि कथमाकाशस्य गतिरित्याह ;
जगतः सावधेस्तावद्भावो बहिरवस्थितिः । संतानात्मा न युज्येत सर्वथार्थक्रियाक्षमः ॥ २ ॥ न गुणः कस्यचित्तत्र द्रव्यस्यानभ्युपायतः । तदाश्रयस्य कर्मादेरपि नैवं विभाव्यते ॥ ३ ॥ द्रव्यं तु परिशेषात्स्यात्तन्नभो नः प्रतिष्ठितं । प्रसक्तप्रतिषेधे हि परिशिष्टव्यवस्थितिः ॥ ४ ॥ अनंता लोकधातवः इत्याकाशत्ववादिनां दर्शनमयुक्तं प्रमाणाभावात् । स्वभावविप्रकृष्टानां भावाभावनिश्चयासंभवात् संभवे वा खतः क्षतिप्रसंगात् तदागमस्य प्रमाणभूतस्यानभ्युपगमात् । ततः सावधिरे - व लोको व्यवतिष्ठते । तस्य च खतो बहिः समंतादभावस्तावत्सिद्धः स च नीरूपो न युज्यते प्रमाणाभावात् । भावधर्मखभावो न गुणः कर्मसामान्यं विशेषो वा कस्यचिद्रव्यस्य तदाश्रयस्यानभ्युपगमात् परिशेषाद्द्रव्यमिति विभाव्यते । प्रसक्तप्रतिषेधे परिशिष्टव्यवस्थितेः तदस्माकमाकाशं सर्वतोऽवधिरहितI मित्यनंत प्रदेशसिद्धिः । परेषां पुनरनंता लोकधातवः संतोपि यदि निरंतरास्तदा अंतरालप्रतीतिर्न स्यात् सर्वथा तेषां निरन्वये चैकं लोकधातुमात्रं स्यात् । परेषां लोकधातूनां तत्रानुप्रवेशात् । एकदेशेन नैरंतर्ये सावयवत्वं तदवयवेनापि तदवयवांतरैः सर्वात्मना नैरंतर्ये तदेकावयवमात्रं स्यात्, तदेकदेशेन नैरंतर्ये तदेव सावयवत्वमेवं अनंतपरमाणूनां । सर्वात्मना नैरंतर्ये परमाणुमात्रं जगद्भवेत् तदेकदेशेन नैरंतर्ये सावयवत्वं परमाणूनां । तन्नानिष्टं, इति सांतरा एव लोकधातवः प्रतिपरमाणु वक्तव्याः । तदंतर एवाकाशमेवोक्त व्यापादनादनंतप्रदेशमायातं । आलोकतमः परमाणुमात्रमंतरमिति चेन्न, आलोकत
Jain Education International
For Private & Personal Use Only
L
www.jainelibrary.org