________________
पञ्चमोऽध्यायः।
४०५ मःपरमाणुभिरपि सांतरैभवितव्यं । तन्नरंतर्ये प्रतिपादितदोषानुषंगात् । तदंतराण्याकाशप्रदेशा एवेत्यवश्यभावि नमोऽनंतप्रदेशं ॥
आगमज्ञानसंवेद्यमनुमानं विनिश्चितं । सर्वज्ञैर्वा परिच्छेद्यमप्यनंतप्रमाणभाव ॥४॥
यद्विज्ञानपरिच्छेद्यं तत्सांतमिति योब्रवीत् । तस्य वेदो भवादिर्वा नानंत्यं प्रतिपद्यते ॥६॥ __ स्वयं वेदस्येश्वरस्य पुरुषादेर्वा अनाद्यनंतत्वं कुतश्चित्प्रमाणात् परिच्छिदन्नपि तत्सादिपर्यंतत्वमिति छिन्नाकाशस्यानुमानागमयोगिप्रत्यक्षैः परिच्छिद्यमानस्यानंतत्वं प्रतिक्षिपतीति कथं खस्थः? प्रमाणस्य यथावस्थितवस्तुपरिच्छेदनखभावत्वादनंतस्यानंतत्वेनैवपरिच्छेदने को विरोधः स्यादसंख्यातादसंख्यातादेस्तथा परिच्छेदनवत् । ततः सूक्तमाकाशस्यानंताः प्रदेशा इति ॥
संख्येयासंख्येयाश्च पुद्गलानाम् ॥ १०॥ प्रदेशा इत्यनुवर्तते । चशब्दादनंताश्च समुच्चीयंते । कुतस्ते पुद्गलानां तथेत्याह;संख्येयाः स्युरसंख्येयास्तथानंताश्च तत्त्वतः। प्रदेशाः स्कंधसंसिद्धेः पुद्गलानामनेकधा ॥१॥
संख्येयपरमाण्वारब्धानामनेकधा स्कंधानामसंख्यातानंतानंतपरमाण्वारब्धानां च संसिद्धेः पुद्गलानां स्युरेवं संख्येयाश्चासंख्येयाश्चानंताश्च प्रदेशास्तत्त्वतः सकलबाधवैधुर्यात् । ननु च स्कंधस्य ग्रहणं तदारंभकावयवग्रहणपूर्वकं तदग्रहणपूर्वकं वा ? प्रथमपक्षेऽनंतशः परमाणूनां तदवयवानामतींद्रियत्वादग्रहणे स्कंधाग्रहणमिति सर्वाग्रहणमवयव्यसिद्धेः, द्वितीयपक्षेत्र सकलावयवशून्येपि देशेऽवयविग्रहणप्रसंगः । कतिपयावयविग्रहणपूर्वकेपि स्कंधग्रहणे सर्वाग्रहणमेव कतिपयावयवानामप्यनंतशः परमाणूनां व्यवस्थानात्तेषां च ग्रहणसंभवात् । ततो न परमार्थतः स्कंधसंसिद्धिः । अनाद्यविद्यावशादत्यासन्नेष्वसंसृष्टेषु बहिरंतश्च परमाणुषु तदाकारप्रतीतेः तादृशकेशादिष्वप्यनाकारप्रतीतिवदिति कश्चित् , तस्यापि सर्वाग्रहणमवयव्यसिद्धेः । परमाणवो हि बहिरंतर्वाबुद्धिगोचरा एवातींद्रियत्वात् न चावयवी तदारब्धोभ्युपगतः इति सर्वस्य बहिरंगस्यांतरंगस्य चार्थस्याग्रहणं कथं विनिवार्यते? । अथ केचित्संचिताः परमाणव एव स्वप्रत्ययविशेषादिंद्रियज्ञानपरिच्छेद्यखभावा जायंते तेषां ग्रहणसिद्धेर्न सर्वाग्रहणमिति मतं; तदपि न समीचीनं, कदाचित्वचित्कस्यचित्परमाणुप्रतीत्यभावात् । एको हि ज्ञानसन्निवेशी खधियानाकारः परिस्फुटमवभासते । परमाणव एव चेतनात्मन्यविद्यमानमप्याकारं स्थवीयांसं कुतश्चिद्विभ्रमादर्शयंतीति चेत् , कथंचित्प्रतिभातास्ते तमुपदर्शयेयुरप्रतिभाता ? न तावदप्रतिभाताः सर्वत्र सर्वदा, सर्वथा सर्वस्य तदुपदर्शनप्रसंगात् ; प्रतिभाता एव ते तमुपदर्शयंति सत्त्वादिनातिकेशादिवदिति चेन्न । परमाणुत्वादिनापि तेषां प्रतिभातत्वप्रसंगात् । सत्यं, तेनाप्रतिभाता एव परमाणवः “एकस्यार्थखभावस्य प्रत्यक्षस्य खतः खयं । कोन्यो न दृष्टो भागः स्याद्वा प्रमाणैः परीक्षते॥” इति वचनात् केवलं तथा निश्चयात्तथानुत्पत्तेस्तेषामप्रतिभातत्वमुच्यते । “तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भ्रांतेनिश्चीयते नेति साधनं संप्रवर्तते ॥” इति वचनात् सत्त्वादिनैव खभावेन तत्र निश्चयोत्पत्तेरभ्यासप्रवरबुद्धिपाटवार्थित्वलक्षणस्य तत्कारणस्य भावाद्वस्तुखभावात् । वस्तुखभावो ह्येष परं प्रतीतिकानुभवपटीयान् कचिदेव स्मृतिबीजमाधत्ते प्रबोधयति चांतरं संसारमिति चेत् , कथमेवं सत्त्वादेरणुत्वादिखभावः परमाणुषु भिन्नो न भवेद्विरुद्धधर्माध्यासात् सह्यविंध्यवत् । यदि पुनर्निश्चयस्यावस्तुविषयत्वान्न तद्भावाभावानां वस्तुखभावभेद इति मतं, तदा कथं दर्शनस्य प्रमाणेतरभावव्यवस्था निश्चयोत्पत्त्यनुत्पत्तिभ्यां विपर्ययोपजननानुपजननाभ्यामिति तद्व्यवस्थानुषंगात् । दर्शनप्रामाण्यहेतुर्यथार्थनिश्चय एव दृष्टार्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org