________________
४०६ तत्त्वार्थश्लोकवार्तिके
[सू० ११ व्यवसायित्वान्न विपर्ययः संशयो वा तद्विपरीतत्वादितिचेयाहतमेतत् । स्खलक्षणानालंबनश्च निश्चयो दृष्टार्थाव्यवसायी चेति, ततः स्खलक्षणाव्यवसायी स्वलक्षणालंबन एवेति वस्तुविषयो निश्चयोन्यथानुपपत्तेः सिद्धः । एवं च तद्भावाभावाभ्यां वस्तुखभावभेदोवश्यंभावीति सत्त्वे द्रव्यत्वादिस्वभावेन निश्चीयमानाः परमाणवो अणुत्वादिखभावेन वा निश्चीयमाना नानास्वभावाः सिद्धा एव । केशादित्वेन निश्चीयमानाः प्रविरलत्वादिना वा निश्चीयमानाः प्रतिपत्तव्याः सर्वथा तदनिश्चये तत्र विभ्रमाभावप्र- . संगात् तद्भावे अतिशक्तेः । सत्त्वादिना च निश्चीयमानोवयवी बहिर्न परमाणव इत्ययुक्तं, सर्वानिश्चयेऽवयवसिद्धेः । तीमूलदानक्रियिणः परमाणवः प्रत्यक्षबुद्धावात्मानं च न समर्पयंति प्रत्यक्षतां च खीकुवैतीति ततः परमार्थसंतः पुद्गलानां स्कंधा व्यणुकादयोऽनेकविधा इति तेषां संख्येयादिप्रदेशाः प्रातीतिका एव ॥
नाणोः ॥ ११ ॥ संख्येयासंख्येयाश्च प्रदेशा इत्यनुवर्तनात्त एवाणोः प्रतिषिध्यते । तथा चनाणोरितिनिषेधस्य वचनान्नाप्रदेशता । प्रसिद्धैवैकदेशत्वात्तस्याणुत्वं नचान्यथा ॥१॥
न टेकप्रदेशोप्यणुन भवतीति युक्तं तस्यावस्तुत्वप्रसंगात् । ननु चाणोः प्रदेशत्वे प्रदेशी कः स्यात् ? स एव स्पर्शादिगुणाश्रयत्वाद्गुणीति ब्रूमः । कथं स एव प्रदेशः प्रदेशी च ? विरोधादिति चेत् , तदुभयखभावत्वोपपत्तेः । प्रदेशत्वस्वभावत्वस्यास्ति स्कंधावस्थायां तद्भावान्यथानुपपत्तेः प्रदेशित्वखभावः पुद्गलद्रव्यत्वात् । एकेन प्रदेशेन पुद्गलद्रव्यस्याप्रदेशित्वे यादिप्रदेशैरप्यप्रदेशित्वप्रसंगात् विरुद्धं चेदं परमागुरेकप्रदेशोऽप्रदेशी चेति प्रदेशप्रदेशिनोरन्योन्याविनाभावात् प्रदेशिनमंतरेण प्रदेशस्यासंभवात् खपुप्पवत् प्रदेशमंतरेण च प्रदेशिनोनुपपत्तेस्तद्वदेव । तत एव न प्रदेशो नापि प्रदेशी परमाणुरिति चेन्न, द्रव्यत्वविरोधात् गुणादिवत् । न चाद्रव्यं परमाणुर्गुणवत्त्वात् स्कंधवत् । न चाप्रदेशि प्रदेशिखभावं किंचिद्रव्यं सिद्धं गगनाद्यसिद्धमिति चेन्न, तस्यानंतादिप्रदेशत्वसाधनेन प्रदेशित्वव्यवस्थापनात् । स्यादाकूतं ते अनेकप्रदेशः परमाणुव्यत्वाद् घटाकाशादिवदिति । तदसत्, धर्भिग्राहकप्रमाणबाधितत्वात् पक्षस्य कालात्ययापदिष्टत्वात् हेतोः कालेन व्यभिचाराच्च । स्याद्वादिनां मीमांसकानां च शब्दद्रव्येणानेकांतात् । तथाहि-घटादिर्भिद्यमानपर्यंतो भेद्यत्वान्यथानुपपत्तेः योसौ तस्य पर्यंतः स परमाणुरिति परमाणुग्राहिणा प्रमाणेनानेकप्रदेशित्वं बाध्यते तस्यानेकप्रदेशत्वे परमाणुत्वविरोधात् ॥
अष्टप्रदेशरूपाणुवादोऽनेन निवारितः । तत्रापि परमस्कंधविदभावप्रसंगतः ॥२॥ परमाणूनामनेकप्रदेशत्वाभावे सर्वात्मनैकदेशेन च संयोगेणुमात्रेपि अणुप्रसक्तेः । सावयवत्वेनवस्थाप्रसंगाच्च परमस्कंधस्य प्रतीतिविरोधादष्टप्रदेशरूपाणुभिद्यमानपर्यंतः सर्वदा स्वयमवेद्यः सिद्ध्यति न पुनरनंशः परमाणुस्तस्य बुद्ध्या परिकल्पनादिति केषांचिदष्टप्रदेशरूपाणुवादः सोप्यनेनैव प्रदेशपरमागुस्कंधस्य वचनेन विचारितो द्रष्टव्यः, रूपाणोरप्रदेशस्य सर्वदाप्यस्य भेद्यत्वायोगात् । तथाहि-भेद्यो रूपाणुः मूर्तत्वे सत्यनेकावयवत्वात् घटवत् । नात्र हेतोराकाशादिभिरनेकांतो मूर्तिमत्त्वे सतीति विशेषणात्तेषाममूर्तत्वात् । ततः परमाणुरेकप्रदेश एव भिद्यमानपर्यंतः सिद्धः । नन्वेवं परमस्कंधप्रतीत्यभावप्रसंग इति चेन्न, तस्याष्टप्रदेशाणुवादेपि समानत्वात् । तथाहि;
यथाणुरणुभिर्नानादिक्कैः संबंधमादधत् । देशतोवयवी तद्वत्प्रदेशोन्यैः प्रदेशतः ॥३॥ सर्वात्मना च तैस्तस्यापि संबंधेणुमात्रकः। पिंडः स्यादन्यथोपात्तदोषाभावः समो न किम्॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org