________________
पञ्चमोऽध्यायः ।
४०७ अष्टप्रदेशोपि हि रूपाणुः पूर्वादिदिग्गतरूपाण्वंतरप्रदेशैरेकशः संबंधमधितिष्ठन्नेकदेशेन कालान वाधितिष्ठेत् ? एकदेशेन चेदवयवी प्रदेशः स्यात्परमाणुवत् तथा चानवस्था परापरप्रदेशपरिकल्पनात् पिंडमात्रः स्यात् रूपाणुप्रदेशेष्वष्टासु रूपाण्वंतरप्रदेशानां प्रवेशात्तेषां च परस्परानुप्रवेशात् । तथा च परमस्कंधत्वप्रतीत्यभावः । अथ महतः स्कंधस्य प्रतीत्यन्यथानुपपत्त्या प्रकारांतरेण रूपाणुप्रदेशानामन्यरूपदेशैः संबंधसिद्धेः कास्यैकदेशपक्षोपात्तदोषाभावो विभाव्यते परमाणूनामपि प्रकारांतरेण संबंधस्तत एवेति समानस्तत्पक्षोपात्तदोषाभावः । वक्ष्यते च परमाणूनां बंधपरिणामहेतुः स्निग्धरूक्षत्वादिति परिणामविशेषः प्रकारांतरमिति नेहोच्यतेविद्यादजीवकायानां द्रव्यत्वादिस्वभावतां । एवं प्राधान्यतःप्रोक्तां समासात् सुनयान्विताम् ॥५
धर्मादीनामजीवकायानामादिसूत्रोक्तानां द्रव्यत्वस्वभावो जीवानां च प्राधान्येन वेदितव्यो गुणभावेन पर्यायत्वस्य भावस्यापि भावात् । शुद्धद्रव्यस्य हि सन्मानदेहस्य पर्याया एवाजीवकाया जीवाश्च तस्यैकस्यानंतपर्यायस्यातिसंक्षेपतोभिमतत्वात् । एकं द्रव्यमनंतपर्यायमिति वचनात् । तथा नित्यत्वावस्थितारूपत्वैकद्रव्यत्वनिष्क्रियत्वखभावोऽपि प्राधान्येनैव तेषां गुणभावेनानित्यत्वानवस्थितत्वसरूपत्वानेकद्रव्यत्वस्वभावानामपि भावात् तेषामनुक्तानामपि गम्यमानत्वात् समासतोभिधानात् । तथैव सुनयान्वितत्वोपपत्तेरन्यथा दुर्नयान्वितत्वप्रसंगात् । द्रव्यान्नित्यत्वेपि पर्यायार्थादेशादनित्यत्वोपगमादन्यथार्थक्रियाविरोधाद्वस्तुत्वायोगात् । तथा द्रव्यतोवस्थितत्वेपि पर्यायतोनवस्थितत्वसिद्धेरित्यवयवावस्थानाभावात् । तथा खरूपतो अरूपत्वेपि मूर्तिमद्रव्यसंबंधात्तेषां खरूपत्वव्यवहारात् । तथैकद्रव्यत्वेपि विभागापेक्षया तद्विभागविवक्षायामनेकद्रव्यत्वोपपत्तेः । परिस्पंदक्रियया निष्क्रियत्वेपि तेषामवस्थितत्वादिक्रियया सक्रियत्वात् । एवमसंख्येयप्रदेशत्वादयोपि प्रधानभावेनैव धर्मादीनां गुणभावेन संख्येयप्रदेशत्वादिखभावानामप्यविरोधात् परिमिततद्भावापेक्षया संख्योपपत्तेरिति सर्वत्र स्यात्कारः सत्यलांछनो द्रष्टव्यस्तस्यानुक्तस्यापि सामर्थ्यात् सर्वत्र प्रतीयमानत्वादिति प्रकरणार्थोपसंहृतिः ॥
लोकाकाशेऽवगाहः ॥ १२ ॥ धर्मादीनामित्यभिसंबंधः प्रकृतत्वादर्थवशाद्विभक्तिपरिणामात् । लोको न युक्तमाकाशं तत्रावगाहः । कुत इत्याह;लोकाकाशेवगाहः स्यात्सर्वेषामवगाहिनां । बाह्यतोसंभवात्तसाल्लोकत्वस्यानुषंगतः॥१॥
न हि लोकाकाशाबाह्यतो धर्मादयोऽवगाहिनः संभवत्यलोकाकाशस्यापि लोकाकाशत्वप्रसंगात् ॥ ननु च यथा धर्मादीनां लोकाकाशेवगाहस्तथा लोकाकाशस्यान्यस्मिन्नधिकरणावगाहेन भवितव्यं तस्याप्यन्यस्मिन्नित्यनवस्था स्यात् , तस्य स्वरूपेवगाहे सर्वेषां खात्मन्येवावगाहोस्त्वित्याशंकायामिदमुच्यते;___ लोकाकाशस्य नान्यस्मिन्नवगाहः कचिन्मतः। आकाशस्य विभुत्वेन स्वप्रतिष्टत्वसिद्धितः ॥२॥
ततो नानवस्था नापि सर्वेषां खात्मन्येवावगाहस्तेषामविभुत्वात् , परस्मिन्नधिकरणेवगाहोपपत्तेरन्यथाधाराधेयव्यवहाराभावात् ॥
धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ लोकाकाशेवगाह इत्यनुवर्तनीयं । कृत्स्न इति वचनात्तदेकदेश एव धर्माधर्मयोरवगाहो व्युदस्तः । कुतस्तौ कृत्वलोकाकाशावगाहिनौ सिद्धावित्याह;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org