________________
तत्त्वार्थश्लोकवार्तिके
[सू० १६
धर्मात कृत्स्रलोकाकाशावगाहिनौ । गच्छत्तिष्ठत्पदार्थानां सर्वेषामुपकारतः ॥ १ ॥ न हि लोकत्रयवर्तिनां पदार्थानां सर्वेषां गतिपरिणामिनां स्थितिपरिणामिनां च गतिस्थित्युपग्रह युगपदुपकारो धर्माधर्मयोरेकदेशवर्तिनोः संभवत्यलोकाकाशेपि तद्गतिस्थितिप्रसंगात् । ततो लोकाकाशे गच्छत्तिष्ठत्पदार्थानां सर्वेषां गतिस्थित्युपकारमिच्छता धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भ्युपगंतव्यः ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥
अवगाह इत्यनुवर्तते लोकाकाशस्येत्यर्थवशाद्विभक्तिपरिणामः । तेन लोकाकाशस्यैक प्रदेशेष्वसंख्येयेषु च पुद्गलानामवगाह इति वाक्यार्थः सिद्धः || कथमित्याह ;
४०८
तस्यैवैकप्रदेशेस्ति यथैकस्यावगाहनं । परमाणोस्तथानेकाणुस्कंधानां च सौक्ष्म्यतः ॥ १ ॥ तथा चैकप्रदेशादिस्तेषां प्रतिविभिद्यतां । सोवगाहो यथायोग्यं पुद्गलानामशेषतः ॥ २ ॥ तस्यैव लोकाकाशस्यैकस्य प्रदेशे यथैकस्य परमाणोरवगाहनमस्ति निर्बाधं तथा व्यादिसंख्येयानां स्कंधानामपि परमसौक्ष्म्यपरिणामानां तद्रव्यादिप्रदेशेषु च । यथैकत्वपरिणाम निरुत्सुकानां व्यादिपरमाणूनामवगाहस्तथा त्र्यादिसंख्येयासंख्येयानंतपरमाणुमय स्कंधानामपि तादृशात् सौक्ष्म्यपरिणामादित्यशेषतो यथायोगं प्रविभज्यतां न च पुद्गलस्कंधानां तादृशसौक्ष्म्यपरिणामोऽसिद्धः स्थूलानामपि शिथिलावयव कर्पासपिंडादीनां निबिडावयवदशायां सौक्ष्म्यदर्शनात्, कूष्मांडमातुलिंगबिल्वामलकबदर सौक्ष्म्यात्तारतम्यदर्शनाच्च क्वचित्कार्मणस्कंधादिषु परमसौक्ष्म्यानुमानात् महत्त्व तारतम्यदर्शनात् कचित्परममहत्त्वानुमानवत् ॥ असंख्येयभागादिषु जीवानाम् ॥ १५ ॥
लोकाकाशस्येति संबंधनीयं अवगाहो भाज्य इति चानुवर्तते । तेनासंख्येयभागे असंख्येयप्रदेशे कस्यचिज्जीवस्य सर्वजघन्यशरीरस्य नित्यनिगोतस्यावगाहः, कस्यचिद्वयोस्तदसंख्येयभागयोः कस्यचित्र्यादिषु सर्वस्मिंश्च लोके स्यादित्युक्तं भवति । नाना जीवानां केषांचित्साधारणशरीराणामेकस्मिन्न संख्येयभागेवगाहः, केषांचिद्वयोरसंख्येयभागयोख्यादिषु चासंख्येयभागेष्विति भाज्योवगाहो न चैकस्य तदसंख्येयभागस्य द्व्याद्यसंख्येयभागानां चासंख्येयप्रदेशत्वाविशेषात् सर्वजीवानां समानोवगाहः शंकनीयः असंख्येयस्यासंख्येयविकल्पत्वात् च सिद्धं लोकाकाशैका संख्येयप्रदेश परिणमनत्वाद्ब्राद्यसंख्येयभागानामिति नानारूपावगाहसिद्धिः । धर्मादीनां सकललोकाकाशादिव्यवहारवचनात्सामर्थ्याल्लोकाकाशस्यैकस्मिन्नेकस्मिन् प्रदेशे चैकस्य कालपरमाणोरवगाहः प्रतीयते । तथा च सूत्रकारस्य नासंग्रहदोषः ।।
ननु च लोकाकाशप्रमाणत्वे जीवस्य व्यवस्थापिते कथं तदसंख्येयभागावगाहनं न विरुध्यत इत्याशंक्याह ;
प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥
असंख्येयभागादिषु जीवानामवगाहो भाज्य इति साध्यत इत्याह ;
न जीवानामसंख्येयभागादिष्ववगाहनं । विरुद्धं तत्प्रदेशानां संहारात्प्रविसर्पतः ॥ १ ॥ प्रदीपवदिति ज्ञेया व्यवहारनयाश्रया । आधाराधेयतार्थानां निश्चयात्तदयोगतः ॥ २ ॥ अमूर्तस्वभावस्याप्यात्मनोऽनादिसंबंधं प्रत्येकत्वात् कथंचिन्मूर्ततां बिभ्रतो लोकाकाशतुल्यप्रदेश स्थापि कार्मणशरीरवशादुपात्तं सूक्ष्मशरीरमधितिष्ठतः शुष्कचर्मवत्संकोचनं प्रदेशानां संहारस्तस्यैव बादरशरीरमधितिष्ठतो जले तैलवद्विसर्पणं विसर्पः प्रसर्पस्ततोऽसंख्येयभागादिषु वृत्तिः प्रदीपवन्न विरुध्यते । न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org