________________
पञ्चमोऽध्यायः।
४०९ हि प्रदीपस्य निरावरणनभोदेशावधृतप्रकाशपरिमाणस्यापि प्रभापवरकाद्यावरणवशात् प्रकाशप्रदेशसंहारविसौ कस्यचिदसिद्धौ यतो न दृष्टांतता स्यात् । स्यादाकूतं, नात्मा प्रदेशसंहारविसर्पवान् अमूर्तद्रव्यत्वादाकाशवदिति । तदयुक्तं, पक्षस्य बाधितप्रमाणत्वात् । तथाहि-आत्मा प्रदेशसंहारविसर्पवानस्ति महापरिमाणदेशव्यापित्वात् प्रदीपप्रकाशवदित्यनुमानेन तावत्पक्षो बाध्यते । न चात्र हेतुरसिद्धः शिशु. शरीरव्यापिनः पुनः कुमाश्शरीरष्यापित्यप्रतीतेः । स्थूलशरीरव्यापिनश्च सतो जीवस्य कृशशरीरव्यापित्वसंवेदनात् । न च पूर्वापरशरीरविशेषव्यापिनो जीवस्य भेद एव प्रत्यभिज्ञानाभावप्रसंगात् । न वेह तदेकत्वप्रत्यभिज्ञानं भ्रांतं बाधकाभावादियुक्तत्वात् । तथागमबाधितश्च पक्षः स्याद्वादागमे जीवस्य संसारिणः प्रदेशसंहारविसर्पवत्कथनात् । न च तदप्रमाणत्वं सुनिर्णीतासंभवबाधकत्वात् प्रत्यक्षार्थप्रतिपादकागमवत् । सर्वगतत्वादात्मनो न प्रदेशे संहारविसर्पवत्त्वमाकाशवदिति चेन्न, तस्यासर्वगतत्वसाधनात् । येषां पुनर्घटकणिकामात्रः सहस्रधा भिन्नो वा केशाग्रमात्रोंगुष्ठपर्वप्रमाणो वात्मा तेषां सर्वशरीरे खसंवेदनविरोधः, तस्याशु संचारित्वात्तथा संवेदने सकलशरीरेषु तथा संवेदनापत्तेरेकात्मवादावतरणात् । शक्यं हि वक्तुं सकलशरीरेष्वेक एवात्माणुप्रमाणोप्याशु संचारित्वात् संवेद्यत इति तत्राश्वेवाचेतनत्वप्रसंगोऽन्यत्र संचारणादिति चेत् , शरीरावयवेष्वपि तन्मुक्तेष्वचेतनत्वमुपसज्येत तद्युक्तस्यैव चोपशरीरैकदेशस्य सचेतनत्वोपपत्तेरिति यत्किचिदेतत् यथाप्रतीतेः शरीरपरमाणानुविधायिनो जीवस्याभ्युपगमनीयत्वात् । तथासति तस्यानित्यत्वप्रसंगः प्रदीपवदिति चेन्न किंचिदनिष्टं, पर्यायार्थादेशादात्मनोऽनित्यत्वसाधनात् । द्रव्यार्थादेशात्तन्नित्यत्ववचनात् प्रदीपवदेव । सोपि हि पुद्गलद्रव्यार्थादेशानित्य एवान्यथा वस्तुत्वविरोधात् । जीवस्य सावयवत्वे भंगुरत्वे वावयवविशरणप्रसंगो घटवदिति चेन्न, आकाशादिनानेकांतात् । न ह्याकाशादि कथंचिदनित्योपि सावयवोपि प्रमाणसिद्धो न भवति । न चावयवविशरणं तस्येति प्रतीतं किंचिदात्मनोवयवा विशीर्यते कारणपूर्वकत्वादाकाशादिप्रदेशवत् परमाण्वेकप्रदेशवद्वा । कारणपूर्वका एव हि पटादिस्कंधावयवा विशीर्यमाणा दृष्टास्तथाश्रयत्वेनावयवव्यपदेशात् । अवयूयंते विश्लिष्यंते इत्यवयवा इति व्युत्पत्तेः । नचैवमात्मनः प्रदेशाः, परमाणुपरिमाणेन प्रदिश्यमानतया तेषां प्रदेशव्यपदेशादाकाशादिप्रदेशवत् । ततो न विशरणं जीवस्याविभागद्रव्यत्वादाकाशादिवत् नावयवविशरणमविभागद्रव्यमात्मा अमूर्तत्वानुभवात् । प्रसाधितं चास्यामूर्तद्रव्यत्वमिति न पुनरत्रोच्यते । तदेवं लोकाकाशमाधारः कास्येनैकदेशेन वा धर्मादीनां यथासंभवं । धर्मादयः पुनराधेयास्तथाप्रतीते व्यवहारनयाश्रयादिति विज्ञेयार्थानामाकाशधर्मादीनामाधाराधेयता घटोदकादीनामिव वाधकाभावात् । न तेषामाधाराधेयता सहभावित्वात् सव्येतरगोविषाणवदित्येतद्वाधकमिति चेन्न, नित्यगुणिगुणाभ्यां व्यभिचारात् । न लोकाकाशद्रव्ये धर्मादीनि द्रव्याण्याधेयानि युतसिद्धत्वादनेककालद्रव्यवदिति चेन्न, कुंडबदरादिभिरनेकांतात् । साधारणशरीराणामात्मनामपि परस्परमाधाराधेयत्वोपगमादश्वमनुष्यादीनां च दर्शनात् साध्यशून्यमुदाहरणं । न तानि तत्राधेयानि शश्वदसमवेतत्वे सति सहभावादिति चेन्न , हेतोरन्यथानुपपन्ननियमासिद्धेः । न हि यत्र यदाधेयं तत्र शश्वत्समवेतं तदसहभावि च सर्व दृष्टं व्योमादौ नित्यमहत्त्वादिगुणस्याधेयस्य शश्वत्समवेतस्य सिद्धावपि तदसहभावाप्रतीतेः, कुंडादौ बदरादेराधेयस्य सहभावसिद्धावपि शश्वत्समवेतत्वाप्रसिद्धिरिति समुदितस्य हेतोः साध्यव्यावृत्तौ व्यावृत्त्यभावादप्रयोजको हेतुः । नभःपुद्गलद्रव्याभ्यां व्यभिचाराच्च । न हि नभसि पुद्गलद्रव्यमाधेयं न भवति तस्य तदवगाहित्वेन प्रतीतेस्तदाधेयत्वसिद्धेः पयसि मकरादिवत् , तत्र तस्य शश्वदसमवेतत्वे सति सहभावश्च हेतुः प्रसिद्धः । खपुद्गलद्रव्यस्य सदा समवायासंभवान्नित्यत्वेन सहभावत्वेपि विपक्षेपि भावात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org