________________
तत्त्वार्थश्लोकवार्तिके
[सू० १७ तस्य व्यभिचारत एव तयोः पक्षीकरणेत्र पक्षस्य प्रमाणबाधः कालात्ययापदिष्टश्च हेतुः खपुद्गलद्रव्ययोराधाराधेयताप्रतीतेः । पुद्गलपर्याया एव घटादयः खस्याधेयाः प्रतीयंते न च द्रव्यमिति चेन्न, पर्यायेभ्यो द्रव्यस्य कथंचिदव्यतिरेकात् तदाधेयत्वे तस्याप्याधेयत्वसिद्धेः । ततः सूक्तं लोकाकाशधर्मादिद्रव्याणामाधाराधेयता व्यवहारनयाश्रया प्रतिपत्तव्या बाधकामावादिति निश्चयनयान्न तेषामाधाराधेयता युक्ता । व्योमवद्धर्मादीनामपि स्वरूपेवस्थानादन्यस्यान्यत्र स्थितौ खरूपसंकरप्रसंगात् । वयं स्थानोरन्येन । स्थितिकरणमनर्थकं खयमस्थास्त्रोः स्थितिकरणमसंभाव्यं शशविषाणवत् । शक्तिरूपेण स्वयं स्थानशीलस्यान्येन व्यक्तिरूपतया स्थितिः क्रियत इति चेत्तस्यापि व्यक्तिरूपा स्थितिस्तत्वभावस्य वा क्रियेत । न च तावत्तत्स्वभावस्य वैयर्थ्यात् करणव्यापारस्य, नाप्यतत्स्वभावस्य खपुष्पवत्करणानुपपत्तेः । कथमेवमुत्पत्तिविनाशयोः कारणं कस्यचित्तत्खभावस्यातत्स्वभावस्य वा केनचित्तत्कारणे स्थितिपक्षोक्तदोषानुषंगादिति चेन्न कथमपि तन्निश्चयनयात्सर्वस्य विलसोत्पादव्ययध्रौव्यव्यवस्थितेः । व्यवहारनयादेवोत्पादादीनां सहेतुकत्वप्रतीतेः । क्षणक्षयकांते तु सर्वथा तदभावः शाश्वतैकांतवत् । संवृत्त्या तु जन्मैव सहेतुकं न पुनर्विनाशः स्थितिश्चेति स्वरुचिविरचितदशनोपदर्शनमात्रं नियमहेत्वभावात् । ततो नास्ति निश्चयनयाद्भावानामाधाराधेयभावः सर्वथा विचार्यमाणस्यायोगात्कार्यकारणभावादिति स्याल्लोकाकाशे धर्मादीनामवगाहः स्यादनवगाह इति स्याद्वादप्रसिद्धिः ॥
गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥ १७ ॥ द्रव्यस्य देशांतरप्राप्तिहेतुः परिणामो गतिः, तद्विपरीता स्थितिः । उपग्रहोऽनुग्रहः गतिस्थिती एवोपग्रहो खपदार्था वृत्तिर्न पुनरन्यपदार्था धर्माधर्मावित्यवचनात् । नाप्यन्यतरपदार्था गतिस्थित्युपग्रहाविति द्विवचननिर्देशात् । तस्यां हि सत्यामुपग्रहस्यैकत्वादेकवचनमेव स्यात् । गतिस्थित्योरुपग्रहो गतिस्थि. त्युपग्रह इति भावसाधनस्योपग्रहशब्दस्य षष्ठीवृत्तेघटनात् । तस्य कर्मसाधनत्वे स्वपदार्थवृत्तरेवोपपत्तेः गतिस्थिती एवोपगृह्येते इत्युपग्रहौ । न च कर्मसाधनत्वेप्युपग्रहशब्दस्योपकारशब्देन सह सामानाधिकरण्यानुपपत्तिः गतिस्थित्युपग्रहौ उपकार इति उपकारशब्दस्यापि कर्मसाधनत्वात् । न चैवमुपकारशब्दस्य द्विवचनप्रस्था सामान्योपक्रमादेकवचनोपपत्तेः । पुनर्विशेषोपक्रमेपि तदपरित्यागात् साधोः कार्य तपःश्रुतिरित्यादिवत् । ननु खपदार्थायां वृत्तावुपग्रहवचनमनर्थक गतिस्थिती धर्माधर्मयोरुपकार इतीयता पर्याप्तत्वात् । धर्माधर्मयोरनुग्रहमात्रवृत्तित्वख्यापनार्थ गतिस्थित्योर्निर्वर्तककारणत्वप्रतिपत्त्यर्थ चोपग्रहग्रहणमित्यप्ययुक्तं, गतिस्थिती धर्माधर्मकृते इत्यवचनादेव तसिद्धेः । उपकारवचनाजीवपुद्लानां गतिस्थिती खयमारभमाणानां धर्माधर्मों तदनुग्रहमात्रवृत्तित्वादुपकारकाविति प्रतिपत्तेः । यथासंख्यनिवृत्त्यर्थमुपग्रहवचनमित्यप्यसारं, तद्भावे तदनिवृत्तेः । शक्यं हि वक्तुं जीवस्य गत्युपग्रहो धर्मस्योपकारः पुद्गलस्य स्थित्युपग्रहोऽधर्मस्योपकार इति यथासंख्यमुपग्रहवचनसद्भावेपि जीवपुद्गलानां बहुत्वाच द्वाभ्यां समत्वाभावादेव यथासंख्यनिवृत्तिसिद्धिर्न तदर्थ तद्वचनं युक्तं । धर्माधर्माभ्यां यथासंख्यप्रतिपत्त्यर्थ गतिस्थित्युपग्रहाविति वचनं व्यवतिष्ठते न गत्युपग्रहो धर्मस्य स्थित्युपग्रहः पुनरधर्मस्येति प्रतीयते । ननु गतिस्थित्युपग्रहौ धर्मस्याधर्मस्य च प्रत्येकमिति कश्चित् ; सोपि न स्थितवादी, उपकाराविति वचनादपि तसिद्धिः गतिरुपकारो धर्मस्य स्थितिरधर्मस्येत्यभिसंबंधत्वात् । तत्किमिदानीमुपग्रहवचनं? न कर्तव्यं । कर्तव्यमेवोपकारशब्देन कार्यसामान्यस्याभिधानात् गतिस्थित्युपग्रहाविति कार्यविशेषकथनात् । तेन धर्माधर्मयोर्न किंचित्कार्यमस्तीति वदन्निवार्यते धर्माधर्मयोरुपकारोस्तीति वचनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org