________________
पञ्चमोऽध्यायः। किं पुनस्तत्कार्यमित्यारेकायां गतिस्थित्युपग्रहावित्युच्यते गतिस्थिती इति तयोस्तदनिर्वय॑त्वात् धर्माधर्मों हि न जीवपुद्गलानां गतिस्थिती निर्वर्तयतः । किं तर्हि ? तदनुग्रहावेव । कुत इत्येवं
सकृत्सर्वपदार्थानां गच्छतां गत्युपग्रहः । धर्मस्य चोपकारः स्यात्तिष्ठतां स्थित्युपग्रहः ॥१॥ तथैव स्यादधर्मस्थानुमेयाविति तो ततः । तादृक्कार्य विशेषस्य कारणाव्यभिचारतः ॥२॥
क्रमेण सर्वपदार्थानां गतिपरिणामिनां गत्युपग्रहस्य स्थितिपरिणामिनां स्थित्युपग्रहस्य च क्षित्यादिहेतुकस्य दर्शनस्य धर्माधर्मनिबंधनमिति चेन्न सकृद्रहणात् । सकृदपि केषांचित्पदार्थानां तस्य क्षित्यादिकृतत्वसिद्धेश्च तन्निमित्तत्वमित्यपि न मंतव्यं, सर्वग्रहात् । ततः सकृत्सर्वपदार्थगतिस्थित्युपग्रहौ सर्वलो. कव्यापिद्रव्योपकृतौ सकृत्सर्वपदार्थगतिस्थित्युपग्रहत्वान्यथानुपपत्तेरिति कार्यविशेषानुमेयौ धर्माधौं । न हि धर्माधर्माभ्यां विना सकृत्सर्वार्थानां गतिस्थित्युपग्रहौ संभाव्येते, यतो न तदव्यभिचारिणौ स्यातां । ताभ्यां विनैव परस्परतः संभाव्येते ताविति चेत्, किमिदानीं युगपद्गच्छता सर्वेषां तिष्ठंतो हेतवः सर्वे, तिष्ठतां च सकृत्सर्वेषां गच्छंतः सर्वेषां आहोखित् केचिदेव केषांचित् ? । न तावत्प्रथमः पक्षः परस्पराश्रयप्रसंगात् । नापि द्वितीयः श्रेयान् सर्वार्थगतिस्थित्युपग्रहयोः सर्वलोकव्यापिद्रव्योपकृतत्वेन साध्यत्वात् । प्रतिनियतार्थगतिस्थित्यनुग्रह्योः कादाचित्कयोः प्रतिविशिष्टयोः क्षित्यादिद्रव्योपकृतत्वाभ्युपगमात् । गगनोपकृतत्वात् सिद्धसाधनमिति चेन्न, लोकालोकविभागाभावसंगताल्लोकस्य सावधित्वसाधनात् । निरवधित्वे संस्थानत्वविरोधात् प्रमाणाभावाच्च । यदि पुनर्लोकैकदेशवर्तिद्रव्योपकृतौ सकलाथगतिस्थित्युपग्रहौ स्यातां तदापि लोकालोकविभागासिद्धिः, क्वचिद्वर्तमानयोर्धर्माधर्मास्तिकाययोः सर्वलोकाकाशे इवालोकाकाशेपि सर्वार्थगतिस्थित्युपग्रहोपकारित्वप्रसक्तेस्तस्य लोकत्वापत्तेः । ततः सर्वगताभ्यामेव द्रव्याभ्यां सकलार्थगतिस्थित्यनुग्रहोपकारिभ्यां भवितव्यं । तौ नो धर्माधर्मों ॥
आकाशस्यावगाहः ॥ १८ ॥ उपकार इत्यनुवर्तते । कः पुनरवगाहः ? अवगाहनमवगाहः स च न कर्मस्थस्तस्यासिद्धत्वालिंगत्वायोगात् । किं तर्हि ? कर्तृस्थ इत्याह
उपकारोवगाहः स्यात् सर्वेषामवगाहिनां । आकाशस्य सकृन्नान्यस्येत्येतदनुमीयते ॥१॥ जीवादयो ह्यवगाहकास्तत्र प्रतीतिसिद्धत्वालिंगमवगाह्यस्य कस्यचित् यत्तदवगाह्यं सकृत्सर्वार्थानां तदाकाशमिति कर्तृस्थादवगाहादनुमीयते । गगनादन्यस्य तथाभावानुपपत्तेः । आलोकतमसोरवगाहः सर्वेषामवगाहकानां जलादेर्भस्मादिवदिति चेन्न, तयोरप्यवगाहकत्वादवगाह्यांतरसिद्धेः । नन्वेवमाकाशस्याप्यवगाहकत्वादन्यदवगाचं कल्प्यतां तस्याप्यवगाहकत्वे अपरमवगाह्यमित्यनवस्था स्यादिति चेन्न, आकाशस्यानंतस्यामूर्तस्य व्यापिनः खावगाहित्वसिद्धेश्वगायांतरासंभवात् । न चैवमालोकतमसोः सर्वार्थानां वा खावगाहित्वप्रसक्तिरसर्वगतत्वात् । न च किंचिदसर्वगतं खावगाहि दृष्टं, मत्स्यादेर्जलाधवगाहित्वदर्शनात् । सर्वार्थानां क्षणिकपरमाणुस्वभावत्वात् अवगाह्यावगाहकभावाभाव इति चेन्न, स्थूलस्थिरसाधारणार्थप्रतीतेः । न चेयं भ्रांतिर्बाधकाभावात् एकस्यानेकदेशकालव्यापिनोर्थस्याभावे सर्वशून्यता. पत्तेः । भावे पुनरवगाह्यावगाहकभावाविरोध एवाधाराधेयभावादिवत् शीतवातातपादीनामभिन्नदेशकाल. तया प्रतीतेः खावगाडावगाहकभावसिद्धिः परस्परमवगाहानुपपत्तौ भिन्नदेशत्वप्रसंगाल्लोष्ठद्वयवत् । ततो यथाप्रतीतिनियतानामवगाहकानां प्रतिनियतमवगाह्यमसिद्धं तया सकृत्सर्वावगाहिनामवगाह्यमाकाशमनुमंतव्यम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org