________________
तत्त्वार्थश्लोकवार्तिके
शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् ॥ १९ ॥
उपकार इत्यनुवर्तनीयं, तत्र शरीर मौदारिकं व्याख्यातं । वाक् द्विधा - द्रव्यवाक् भाववाक् च । तत्रेह द्रव्यवाक् पौगलिकी गृह्यते । मनोपि द्विविधं द्रव्यभावविकल्पात् । तत्रेह द्रव्यमन: पौगलिकं ग्राह्यं, प्राणापानौ श्वासोच्छ्रासौ । त एते पुद्गलानां शरीरवर्गणादीनामतींद्रियाणामुपकारः कार्यमनुमापकमि - त्यावेदयति ;
४१२
शरीरवर्गणादीनां पुद्गलानां स संमतः । शरीरावयव इत्येतैस्तेषामनुमितिर्भवेत् ॥ १ ॥
संति शरीरवाङ्मनोवर्गणाः प्राणापानारंभकाश्च सूक्ष्माः पुद्गलाः शरीरादिकार्यान्यथानुपपत्तेः । न प्रधानं कारणं शरीरादीनां मूर्तिमत्त्वाभावादात्मवत् । न ह्यमूर्तिमतः परिणामः कारणं दृष्टं । पृथिव्यादिपरमाणवः कारणमिति केचित् तेषां सर्वेप्यविशेषेण पृथिव्यादिपरमाणवः शरीराद्यारंभकाः स्युः प्रतिनियतखभावाः ? न तावदादिविकल्पोऽनिष्टप्रसंगात् । द्वितीयकल्पनायां तु शरीरादिवर्गणा एव नामांतरेणोक्ता भवेयुरिति सिद्धोऽस्मत्सिद्धांतः ॥
"
सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥
1
पुद्गलानामुपकार इत्यभिसंबंध: । केषां पुनः पुद्गलानामिमे कार्यमित्याह ; -- सुखाद्युपग्रहाश्चोपकारो जीवविपाकिनाम् | सातवेद्यादिकर्मात्मपुद्गलानामितोनुमा ॥ १ ॥ सुखं तच्चेत्सद्यस्य कर्मणः कार्यं दुःखमसद्वेद्यस्य, जीवितमायुषः, मरणमसद्वेद्यस्यैवायुः क्षये तदुदयात्परमदुःखात्मना तस्यानुभवात् । ततः सातवेद्यादि कर्मात्मानः पुद्गलाः सुखाद्युपग्रहेभ्योऽनुमीयंते । अत्रोपग्रहवचनं सद्वेद्यादिकर्मणां सुखाद्युत्पत्तौ निमित्तमात्रत्वेनानुग्राहकत्वप्रतिपत्त्यर्थं परिणाम - कारणं जीवः सुखादीनां तस्यैव तथ्यपरिणामात् । अत एव जीवविपाकित्वं सद्वेद्यादिकर्मणां जीवे तद्विपाकोपलब्धेः । नन्वायुः भवविपाकि श्रूयते तत्कथं जीवविपाकि स्यात् ? भवस्य जीवपरिणामत्वविवक्षायां तथा विधानाददोषः । तस्य कथंचिदजीव परिणामविशेषत्वे वा जीवपरिणाममात्राद्भेदविवक्षायामायुर्भवविपाकि प्रोक्तमिति न विरोधः । नन्वाभरणादिपुद्गलानां सुखाद्युपग्रहे वृत्तिदर्शनात्तेषां सुखाद्युपग्रह उपकारोस्त्विति चेन्न, तेषामनुमेयत्वात् नियमाभावाच्च कस्यचित्कदाचित्सुखोपग्रहे वर्तमानस्यापि बंधनादेरपरस्य दुःखाद्युपग्रहेपि वृत्त्यविरोधान्न नियमः । सद्वेद्यादिकर्माणि सुखाद्युपग्रहे प्रतिनियतखभावान्येवान्यथा तत्संभावनानुपपत्तेरिति तेभ्यस्तदनुमानम् ॥
[ सू० २२
परस्परोपग्रहो जीवानाम् ॥ २१ ॥
Jain Education International
उपकार इत्यनुवर्तते, ततः परस्परं जीवानामनुमानमित्याह ;
जीवानामुपकारः स्यात्परस्परमुपग्रहः । संतानांतरवद्भाजां व्यापारादिरतोनुमा ॥ १ ॥ संतानांतरभाजो हि जीवाः परस्परमसंविदात्मानः कार्यतोनुमेयाः स्युर्न पुनरैक्यभाजः । तच्च कार्यं परस्परमुपग्रहः । स च व्यापारादिरालिंगनादिवाहनादिभिर्व्यापारः । अनुनयनं हितप्रतिपादनादिर्व्याहारः । स च परस्परमुपलभ्यमानः संतानांतरत्वं साधयतीति तदनुमेयाः संतानांतरभाजो जीवाः परस्परं संवृत्त्या संतानांतरव्यवहार इत्ययुक्तं, पुरुषाद्वैतवादस्य पूर्वमेव निरस्तत्वात्संवेदनाद्वैतवादवत् ॥ वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ २२ ॥ वर्तते वर्तनमात्रं वा वर्तना, वृत्तेर्ण्यन्तात्कर्मणि भावे वा युक् तस्यानुदात्तत्वाद्वा ताच्छीलिको वायुच्
For Private & Personal Use Only
www.jainelibrary.org