________________
पञ्चमोऽध्यायः ।
४१३ वर्तनाशीला वर्तनेति । का पुनरियं? प्रतिद्रव्यपर्यायमंतनीतैकसमया खसत्तानुभूतिर्वर्तना । द्रव्यं वक्ष्यमाणं तस्य पर्यायो द्रव्यपर्यायः द्रव्यपर्यायं द्रव्यपर्यायं प्रति प्रतिद्रव्यपर्यायं अंतर्भात एकः समयोनयेत्यंत तैकसमया । का पुनरसौ ? खसत्तानुभूतिः खस्यैव सत्ता स्वसत्ता अन्यासाधारणी जन्मव्यय
ध्रौव्यैक्यवृत्तिरित्यर्थः । 'उत्पादव्ययध्रौव्ययुक्तं सत्' इति वचनात् । न हि सत्तात्यं भिन्ना खाश्रयादु• पपद्यते । द्रव्याभिधानानुप्रवृत्तिलिंगेनानुमीयमाना सैकैवेत्ययुक्तं, सादृश्योपचारात्तदेकत्वप्रत्ययप्रवृत्तिः ।
जीवाजीवतद्भेदप्रभेदैः संबध्यमाना विशिष्टा शक्तिरनेकत्वमास्कंदतीति खसत्ताया अनुभूतिः सा वर्तना वर्त्यमानत्वात् वर्तमानमात्रत्वाद्वा तदुच्यते
अंत तकसमयः स्वसत्तानुभवो भिदा । यः प्रतिद्रव्यपर्यायं वर्तना सेह कीर्त्यते ॥ १॥ यस्मात्कर्मणि भावे च ण्यताद्वर्तेः स्त्रियां युचि । वर्तनेत्यनुदात्ते ताच्छील्यादौ वा युचीष्यते॥२॥ धर्मादीनां हि वस्तूनामेकसिन्नविभागिनि । समये वर्तमानानां स्वपर्यायैः कथंचन ॥३॥ उत्पादव्ययध्रौव्यविकल्पैर्बहुधा स्वयं । प्रयुज्यमानतान्येन वर्तना कर्म भाव्यते ॥४॥ प्रयोजनं तु भावः स्यात्स चासौ तत्प्रयोजकः । काल इत्येष निर्णीतो वर्तनालक्षणोंजसा ॥५॥ प्रत्यक्षतोऽप्रसिद्धापि वर्तनास्मादृशां तथा । व्यावहारिककार्यस्य दर्शनादनुमीयते ॥६॥ तथा तंदुलविक्लेदलक्षणस्य प्रसिद्धितः । पाकस्योदनपर्यायनामभाजः प्रतिक्षणं ॥ ७ ॥ सूक्ष्मतंदुलपाकोस्तीत्यनुमानं प्रवर्तते । पाकस्यैवान्यथेष्टस्य सर्वथानुपपत्तितः ॥ ८ ॥ तथैव स्वात्मसद्भावानुभूतौ सर्ववस्तुनः । प्रतिक्षणं बहिर्हेतुः साधारण इति ध्रुवम् ॥९॥ प्रसिद्धद्रव्यपर्यायवृत्तौ बाह्यस्य दर्शनात् । निमित्तस्यान्यथाभावाभावान्निश्चीयते बुधैः ॥१०॥ आदित्यादिगतिस्तावन्न तद्धेतुर्विभाव्यते । तस्यापि स्वात्मसत्तानुभूतौ हेतुव्यपेक्षणात् ॥ ११ ॥ नचैवमनवस्था स्यात्कालस्यान्याव्यपेक्षणात् । स्ववृत्तौ तत्स्वभावत्वात्स्वयं वृत्तेः प्रसिद्धितः ॥१२ तथैव सर्वभावानां स्वयं वृत्तिने युज्यते । दृष्टेष्टबाधनात्सर्वादीनामिति विचिंतितं ॥ १३ ॥ न दृश्यमानतैवात्र युज्यते वर्तमानता । वर्तमानस्य कालस्याभावे तस्याः स्वतः स्थितेः ॥१४॥ प्रत्यक्षासंभवाशक्तेरनुमानाद्ययोगतः । सर्वप्रमाणनिन्हुत्या सर्वशून्यत्वशक्तितः ॥ १५ ॥ खसंविदद्वयं तत्त्वमिच्छतः सांप्रतं कथं । सिद्धयेन वर्तमानोस्य कालः सूक्ष्मः स्वयंप्रभुः ॥१६॥ ततो न भाविता द्रक्ष्यमाणता नाप्यतीतता । दृष्टता भाव्यतीतस्य कालस्यान्यप्रसिद्धितः॥१७।। गतं न गम्यते तावदागतं नैव गम्यते । गतागतविनिर्मुक्तं गम्यमानं न गम्यते ॥ १८ ॥ इत्येवं वर्तमानस्य कालस्याभावभाषणं । स्ववाग्विरुद्धमाभाति तनिषेधे समत्वतः ।। १९ ॥ निषिद्धमनिषिद्धं वा तद्वयोन्मुक्तमेव वा । निषिध्यते न हि कैवं निषेधो विधिरेव वा ॥२०॥ क वाभ्युपगमः सिद्धयेत् प्रतिज्ञाहानिसंगतः । तस्य स्वयं प्रतिज्ञानाद्वर्तमानस्य तत्त्वतः ॥२१॥ तथैव च स्वयं किंचित्परैरभ्युपगम्यते । तथैव गम्यते किं न क्रियते वेद्यतेपि च ॥ २२ ॥ संवेदनाद्वयं तावद्विदितं नैव वेद्यते । न चाविदितमात्मादितत्त्वं वा नापि तद्वयं ॥ २३ ॥ इति स्वसंविदादीनामभावः केन वार्यते । वर्तमानस्य कालस्यापन्हवे स्वात्मविद्विषां ॥ २४ ॥ न संवित्संविदेवेति स्वतः समवतिष्ठते । ब्रह्म ब्रह्मैव वेत्यादि यथा भेदाप्रसिद्धितः ॥ २५ ॥ तत्स्वसंवेदनस्यापि संतानमनुगच्छतः । परेण हेतुना भाव्यं स्वयं वृत्त्यात्मनां न सः ॥२६॥ वर्तनवं प्रसिद्धा स्यात्परिणामादिवत् स्वयं । ततः सिद्धांतसूत्रोक्ताः सर्वेमी वर्तनादयः॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org