________________
तत्त्वार्थश्लोकवार्तिके
[ सू० २२ अत एवाह;कालस्योपग्रहाः प्रोक्ता ये पुनर्वर्तनादयः । स्यात्त एवोपकारोतस्तस्थानुमितिरिष्यते ॥ २८॥
वर्तना हि जीवपुद्गलधर्माधर्माकाशानां तत्सत्तायाश्च साधारण्याः सूर्यगत्यादीनां च खकार्यविशेषानुमितखभावानां बहिरंगकारणापेक्षाकार्यत्वातंदुलपाकवत् । यत्तावबहिरंगकारणं स कालः । ननु कालवर्तनया व्यभिचारः खयं वर्तमानेषु कालाणुषु तदभावात् । न हि कालाणवः स्वसत्तानुभूतौ प्रयोजक- ' मपरमपेक्षते सर्वप्रयोजकस्वभावत्वात्स्वसर्वप्रयोजकस्वभावत्वविरोधात् । खस्य खावगाहहेतुत्वाभावे सर्वावगाहहेतुत्ववभावत्वविरोधात् । सर्वज्ञविज्ञानस्य खरूपपरिच्छेदकत्वाभावत्वविरोधवद्वा दिशः खस्मिन् पूर्वापररादिप्रत्ययहेतुत्वाभावे सर्वत्र पूर्वापरादिप्रत्ययहेतुत्वविरोधवद्वेति केचित् । कालवर्तनाया अनुपचरितरूपेणासद्भावात् यस्यासावन्येन वर्तते तस्य सा मुख्यवर्तना कर्मसाधनत्वात्तस्याः । कालस्य तु नान्येन वर्तते तस्य स्वयं खसत्तावृत्तिहेतुत्वादन्यथानवस्थाप्रसंगात् । ततः कालमा स्वतो वृत्तिरेवोपचारतो वर्तना । वृत्तिवर्तकयोर्विभागाभावान्मुख्यवर्तनानुपपत्तेः । शक्तिभेदात्तयोविभागे तु सा कालस्य यथा मुख्या तथा च बहिरंगनिमित्तापेक्षात्वं वर्तकशक्तेर्बहिरंगकारणत्वात् । ततो न तया व्यभिचारः। अकालवृत्तित्वे सति कार्यत्वादिति सविशेषणो वा हेतुः सामर्थ्यादवसीयते । यथा पृथिव्यादयः खतो. थीतरभूतज्ञानवेद्याः प्रमेयत्वादित्युक्तेप्यज्ञानत्वे सतीति गम्यते, अन्यथा ज्ञानेन स्वयं वेद्यमानेन व्यभिचारप्रसंगात् । नन्वत्र प्रमेयत्वादेवेत्यवधारणात्तदप्रमाणत्वे सतीति विशेषणमनुक्तमपि शक्यमवगंतुमन्यत्र तु कथमिति चेत्, कार्यत्वादेवेत्यवधारणाश्रयणादन्यत्राप्यकारणत्वे सतीति विशेषणं लभ्यत एव सामर्थ्यात् ततो न प्रकृतौ हेतुविशेषमिच्छंतौ हेत्वंतरं । नन्वेवं कालवृत्तेः कार्यत्वे तया व्यभिचाराभावादनर्थकं विशेषणोपादानमिति चेन्न, पर्यायार्थादेशात्कार्यत्वस्य तत्र भावात्तया व्यभिचारप्रसंगात् । तत्परिहारार्थ विशेषणोपादानस्यानर्थकत्वायोगात् । ततो वर्तनोपकारः कालसत्तां साधयत्येव ॥ कः पुनः परिणामः? द्रव्यस्य स्वजात्यपरित्यागेन प्रयोगविस्रसालक्षणो विकारः परिणामः । तत्र विस्रसापरिणामोनादिरादिमांश्च । चेतनद्रव्यस्य तावत्खजातेश्चेतनद्रव्यत्वाख्याया अपरित्यागेन जीवत्वभव्यत्वाभव्य - स्वादिरनादिरौपशमिकादिः पूर्वाकारपरित्यागाजहद्वृत्तिरादिमान् स तु कर्मोपशमाद्यपेक्षत्वादपौरुषेयत्वाद्वैस्रसिकः । अचेतनद्रव्यस्य तु लोकसंस्थानमंदराकारादिरनादिरिति । द्रव्यतयादिमानपुरुषप्रयत्नानपेक्षत्वादेव वैससिकः । प्रयोगजः पुनर्दानशीलभावनादिश्चेतनस्याचार्योपदेशलक्षणपुरुषप्रयत्नापेक्षत्वात् , घटसंस्थानादिरचेतनस्य कुलालादिपुरुषप्रयोगापेक्षत्वात् । धर्मास्तिकायादिद्रव्यस्य तु वैस्रसिकोऽसंख्येयप्रदेशित्वादिरनादिः परिणामः प्रतिनियतगत्युपग्रहहेतुत्वादिः । आदिमान् प्रयोगजो यंत्रादिगत्युपग्रहहेतुत्वादिः पुरुषप्रयोगापेक्षत्वात् । समर्थो हि बहिरंगकारणापेक्षो कालपरिणामत्वे सति कार्यत्वात् ब्रीह्यादिवदिति । यत्तत्कारणं बाह्यं स कालः । परिणामोऽसिद्ध इति चेन्न, बाधकाभावात् । परिणामस्याभावः सत्त्वासत्त्वयोर्दोषोपपत्तेरिति चेन्न, पक्षांतरत्वात् । न हि सन्नेव बीजादावंकुरादिः परिणामस्तत्परिणामत्वविरोधाद्वीजखात्मवत् । नाप्यसन्नेव तत एव खरविषाणवत् । किं तर्हि ? द्रव्यार्थादेशात् सन् पर्यायार्थादेशादसन् । न चोभयपक्षभावी दोषोत्रावतरति सदसदेकांतपक्षाभ्यामनेकांतपक्षस्यान्यस्वात् हिंसकत्वपारदारिकत्वाभ्यामहिंसकापारदारिकत्ववत् वियुक्तगुडशुंठीभ्यां तत्संयोगवद्वा जात्यंतरत्वाच्च रसांतरसंभवात् । एतेन विरोधादयः परिद्रुता द्रष्टव्याः । किं च परिणामस्य प्रतिषेधो न तावत्सतः सत्त्वादेव परिणामप्रतिषेधवत् सतोपि प्रतिषेधस्यापि प्रतिषेधप्रसंगात् प्रतिषेधाभावः अप्रतिषेधः सत्त्वान्न प्रतिषिध्यते । तत एव परिणामोपि न प्रतिषेद्धव्य इति स एव प्रतिषेधाभावः । नाप्यसत;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org