________________
•
पञ्चमोऽध्यायः ।
४१५
प्रतिषेधमियान्निर्विषयत्वप्रसंगात् । खरविषाणप्रतिषेधः कथमिति चेत्, न कथमपि सत्त्वाद्येकांतवाद - नामिति ब्रूमः । तदनेकांतवादिनां तु क्वचित्कदाचित्कथंचित् सत एवान्यत्रान्यदान्यथा प्रतिषेध इति सर्वमनवद्यम् । सर्वथैकांतस्य प्रतिषेधः कथमिति चेत्, कोऽयं सर्वथैकांतः । इदमेवेत्थमेवेति वा धर्मिणो धर्मस्य वाभिमननमिति चेत्, तर्हि तस्य सत एव निर्विषयसाधनमेव प्रतिषेधः । स्वरूपप्रतिषेधे तु सर्वथा प्रतीतिविरोधः स्यात् । दर्शन मोहोदये सति सदाद्येकांताभिनिवेशस्य मिथ्यादर्शनविशेषस्य प्रत्यात्मवेद्यत्वात् । निर्विषयत्वसाधने तु तस्य न प्रतीतिबाधा प्रतीयमानस्य वस्तुनि सत्त्वाद्यंशस्य धर्मित्वात् । नायं सर्वथा सत्त्वाद्येकांताभिनिवेशस्य विषयो वस्त्वंशः सर्वथा विरोधात् । एतेन प्रधानादिप्रतिषेधो व्याख्यातः प्रधानाद्यभिनिवेशस्य निर्विषयत्वसाधनात् । ततो नैकांतेनासतः प्रतिषेध इति सत एव परिणामस्य कथंचित्प्रतिषेधोपपत्तेः । सर्वथा नाभावः । स्यान्मतं, नास्ति परिणामोन्यानन्यत्वयोर्दोषादिति नोक्तत्वात् । उक्तमत्रोत्तरं, न वयं बीजादं कुरमन्यमेव मन्यामहे तदपरिणामत्वप्रसंगात् पदार्थतरवत् । नाप्यनन्यमेवांकुरभावानुषंगात् । किं तर्हि ? पर्यायार्थादेशाद्वीजा दंकुरमन्यमनुमन्यामहे द्रव्यार्थादेशादनन्यमिति पक्षांतरानुसरणाद्दोषाभावान्न परिणामाभावः । व्यवस्थिताव्यवस्थितदोषात्परिणामाभाव इति चेन्नानेकांतात् । न हि वयमंकुरे बीजं व्यवस्थितमेव ब्रूमहे विरोधादंकुर भावप्रसंगात् । नाप्यव्यवस्थितमेवांकुरस्य बीजपरिणामत्वाभावप्रसंगात् पदार्थांतर परिणामत्वाभाववत् । किं तर्हि ? स्याद्वीजं व्यवस्थितं स्यादवस्थितमंकुरे व्याकुर्महे । न चैकांतपक्षभावी दोषोऽनेकांतेष्वस्तीत्युक्तप्रायं । स्याद्वादिनां हि बीजशरीरादेरेव वनस्पतिकायिको बीजोंकुरादिः खशरीरपरिणाम भागभिमतो यथा कललशरीरे मनुष्यजीवोर्बुदादिखशरीरपरिणामभृदिति न पुनरन्यथा सः । तथा सति —
मनुष्यनामकर्मायुषोरुदयात्प्रतिपद्यते । कललादिशरीरांगोपांगपर्यायरूपताम् ।। २९ । स जीवत्वमनुष्यत्वप्रमुखैरन्वयैर्यथा । व्यवस्थितः खकीयेषु परिणामेष्वशेषतः ॥ ३० ॥ कललादिभिः पुनः पूर्वैर्भावैः क्रमविवर्तिभिः । व्यतिरिक्तैः परत्रासौ न व्यवस्थित ईक्ष्यते ॥ तथा वनस्पतिर्जीवः स्वनामायुर्विशेषतः । वनस्पतित्वजीवत्वप्रमुखैरन्वयैः स्थितः ॥ ३२ ॥ स्वशरीरविवर्तेषु वीजादिषु परं न तु । पूर्वपूर्वेण भावेन तु स्थितः क्रमभाविनः ॥ ३३ ॥
।
स्यान्मतं, न बीजमंकुरादित्वेन परिणमते वृद्ध्यभावप्रसंगात् यो हि यत्परिणामः स न ततो वृद्धि - मान् दृष्टो यथा पयःपरिणामो दध्यादिः बीजपरिणामश्चांकुरादिस्तस्मान्न ततो वृद्धिमान् इति बीजमात्रमंकुरादिः स्यादतत्परिणामो वेति । उक्तं च- " किं वान्यद्यदि तद्वीजं गच्छेदंकुरतामिह । विवृद्धिरंकुरस्य स्यात्कथं बीजादपुष्कलात् ॥” “यथेष्टं तै रसैः सोमैरौदकैश्च विवर्धते । तस्यैव सति बीजस्य परिणामो न युज्यते ॥” “आलिप्तं जतुना काष्ठं यथा स्थूलत्वमृच्छति । न तु काष्ठं तथैवास्ते जना विवर्धते ||” “तथैव यत्र तद्वीजमास्ते येनात्मना स्थितं । रसाश्च वृद्धिं कुर्वेति बीजं तत्र करोति किम् ॥” इति । तदेतदनालोचिततत्त्ववचनं, तद्वृद्धेरहेतुकत्वात् ॥
1
यथा मनुष्यनामायुः कर्मोदय विशेषतः । जातो बालो मनुष्यात्मा स्तन्याद्याहारमाहरन् ॥ ३४ ॥ सूर्यातपादिसापेक्षः कायाग्निबलमादधन् । वीर्यंतराय विच्छेद विशेषविहितोद्भवं ।। ३५ ।। विवर्धते निजाहाररसादिपरिणामतः । निर्माणनामकर्मोपष्टंभादभ्यंतरादपि ॥ ३६ ॥ तथा वनस्पतिर्जीवः स्वायुर्नामोदये सति । जीवाश्रयोंकुरो जातो भौमादिरसमाहरन् ॥३७॥ तप्ताय स्पिडवत्तोयं स्वीकुर्वन्नेव वर्धते । आत्मानुरूपनिर्माणनामकर्मोदयाद्भुवम् ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org