________________
४१६ तत्त्वार्थश्लोकवार्तिके
[ सू० २२ ततो न वृद्ध्यभावोंकुरादेः । यदप्युक्तं, यो यत्परिणामश्च ततो न वृद्धिमान् दृष्टो यथा क्षीरपरिणामो दध्यादिर्न क्षीरादिति । तत्र हेतुः कालात्ययापदिष्टो धर्मिदृष्टांतग्राहकप्रमाणबाधितत्वात् । धर्मी तावद्वीजपरिणामोंकुरादिस्ततो वृद्धिमानेव प्रतिभासमानः कथं वावृद्धिमाननुमातुं शक्यः । दृष्टांतश्च शीतक्षीरस्य तप्यमानोन्यो न क्षीरपरिणामो धर्मोद्वर्तितदधिपरिणामो वा क्षीरावृद्धिमनुपलभ्यमानः कथं तद्वृद्ध्यभावसाध्ये निदर्शनं तत्परिणामत्वादित्यसिद्धं च साधनं च परिणामाभाववादिनः पराभ्युपगमात् । ' तत्सिद्धौ वृद्धिसिद्धिरपि तत एव स्यात् सर्वथा विशेषाभावात् । तन्न वृद्ध्यभावात् परिणामाभावः स्याद्वादिनां प्रति साधयितुं शक्यः परिणामाभावात् वृद्ध्यभावः सर्वथैकांतवादिनः प्रसिद्ध्यत्येव जन्माद्यभाववदिति निवेदितप्रायं । न हि नित्यकांते परिणामोस्ति, पूर्वाकारविनाशाजहद्वत्तोत्तराकारोत्पादानभ्युपगमात् स्थितिमात्रावस्थानात् । न च स्थितिमात्रं परिणामः तस्य पूर्वोत्तराकारपरित्यागोपादानभावस्थितिलक्षणत्वात् सदा स्थास्लोरात्मादेरर्थीतरभूतोतिशयः कुतश्चिदुपजायमानः परिणाम इति चेत् , स तस्येति कुतः ? तदाश्रयत्वादिति चेत्, कथमेकखभावमात्मादि वस्तु कदाचित्कस्यचिदतिशयस्याश्रयः कदाचित्त्वे सति संभाव्यते ? स्वभावविशेषादिति चेत्, तर्हि येन स्वभावविशेषेणाश्रयः कस्यचिद्भावो येन वानाश्रयः स ततोनांतरभूतश्चेत्तन्नित्यत्वैकांतविरोधः । स ततोर्थांतरभूतश्चेत्तस्येति कुतः? तदाश्रयत्वादिति चेत् , स एव पर्यनुयोगोनवस्था च । सुदूरमपि गत्वा तस्य कथंचिदन तरभूतखभावविशेषाभ्युपगमे कथं ततो तरभूतोतिशयः परिणामस्तदाश्रयः स्यात् । यो यथा यत्र यदा यातोतिशयस्तस्य तथा तत्र तदाश्रयो भाव इत्येवंरूपैकखभावत्वादात्मादिभावस्यादोष एवेति चेन्नानात्मादिभावपरिकल्पनात् विरोधः पृथिव्याद्यतिशयानामेकात्मातिशयत्वप्रसंगात् । शक्यं हि वक्तुमेक एवात्मैवंभूतं खभावं बिभात येन यथा यत्र यदा पृथिव्याद्यतिशयाः प्रभवंति तेषां तथा तत्र तदाश्रयो न भवतीति । तदतिशया एव ते पुनरन्यद्रव्यातिशय इति । द्रव्यांतराभावे कुतोतिशयाः स्युरात्मनीति चेत् , अति. शयांतरेभ्यः । एते चान्येपि परेभ्योतिशयेभ्य इत्यनाद्यतिशयपरंपराभ्युपगमादनुपालंभः । अस्त्येक एवात्मा पुरुषाद्वैताभ्युपगमादित्यपरः तस्यापि नात्मातिशयः परिणामो द्वैतप्रसंगात् । अनाद्यविद्योपदशिनः पुरुषस्यातिशयः परिणाम इति चेत्, तर्हि न वास्तवः परिणामः पुरुषाद्वैतवादिनोस्ति । योप्याह, प्रधानादर्थीतरभूत एव महदादेः परिणाम इति, सोप्ययुक्तवादी; सर्वथा प्रधानादभिन्नस्य महदादेः परिणामत्वविरोधात्वात्मप्रधानवत् तस्य वा परिणामित्वप्रसंगात् महदादिवत् । ततो न प्रधानं परिणामि घटते नित्यैकखभावत्वादात्मवत् । यदि पुनः प्रधानस्य महदादिरूपेणाविर्भावतिरोभावाभ्युपगमात् परिणामित्वमभिधीयते तदा स एव स्याद्वादिभिरभिधीयमानः परिणामो नान्यथेति नित्यत्वैकांतपक्षे परिणामाभावः । क्षणिकैकांतेपि क्षणादूर्ध्वस्थितेरभावात् परिणामाभावः । पूर्वक्षणे निरन्वयविनाशादुत्तरक्षणोत्पादः परिणाम इति चेत्, कस्य परिणामिन इति वक्तव्यं ? पूर्वक्षणस्यैवेति चेन्न, तस्यात्यंतविनाशात्तदपरिणामित्वाच्चिरंतनविशिष्टक्षणवत् । कार्यकारणभाव एव परिणामिभाव इति चेन्न, क्षणिकैकांते कार्यकारणभावस्य निरस्तत्वात् । क्रमयोगपद्यविरोधान्नित्यत्वैकांतवत् । संवृत्या कार्यकारणभावे तु न वास्तवः परिणामिभावः कयोश्चिदिति क्षणिकैकांतपक्षे परिणामाभावः सिद्धः । संवेदनाद्यद्वैते तु दूरो. त्सारित एव परिणाम इति सकलसर्वथैकांतवादिनां परिणामाभावाद्वद्ध्यभावो अपक्षयाद्यभाववदवतिष्ठते । स्याद्वादिनां पुनः परिणामप्रसिद्धेर्युक्ता कस्यचिद्वद्धिः । खकारणसन्निपातादपक्षयादिवत्तथा प्रतीतेर्वा बाधकाभावात् । परिणामो हि कश्चित् पूर्वपरिणामेन सदृशो यथा प्रदीपादेर्वालादिः, कश्चिद्विसदृशो यथा तस्यैव कजलादिः, कश्चित्सदृशासदृशो यथा सुवर्णस्य कटकादिः । तत्र पूर्वसंस्थानाद्यपरित्यागे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org