________________
s
पञ्चमोऽध्यायः ।
४१७
सति परिणामाधिक्यं वृद्धिः । सदृशेतरपरिणामो यथा बालकस्य कुमारादिभावः । सदृश एवायमित्ययुक्तं, विसदृशप्रत्ययोत्पत्तेः । सर्वथा सादृश्ये बालकुमाराद्यवस्थयोः कुमाराद्यवस्थायामपि बालप्रत्ययोत्पत्तिप्रसंगात्, बालकावस्थायां वा कुमारादिप्रत्ययोत्पत्तिप्रसक्तेः । सर्वथा विसदृश एव बालकपरिणामात्कुमारादिपरिणाम इत्यपि न प्रातीतिकं, स एवायमिति प्रत्ययस्वभावात् । भ्रांतोसौ प्रत्यय इति चेन्न, बाधकाभावादात्मनि स एवाहं प्रत्ययवत् । सर्वत्र तस्य भ्रांतत्वोपगमे नैरात्म्यवादावलंबन प्रसंग: । न चासौ श्रेयान् वश्च सदृशेतर परिणामात्मनो वस्तुनः साधनात् प्रतीतिज्ञानस्याभेदप्रत्ययस्य वा प्रामाण्यव्यवस्थापनात् । ततो युक्तः सदृशेतरपरिणामात्मको वृद्धिपरिणामः । एतेनापक्षयपरिणामो व्याख्यातः । यथा स्थूलस्य कायादेः सदृशेतरप्रत्ययसद्भावात् सदृशेतरात्मक इति विसदृशपरिणामो जन्म तस्यापूर्वप्रादुर्भावलक्षणत्वात्, तथा विनाशः पूर्वविनाशस्यापूर्वप्रादुर्भावरूपत्वात् । तद्व्यतिरिक्तस्य विनाशस्याप्रतीतेः । नाभावोस्तीति प्रत्ययविषयत्वादिति चेत्, ततश्च भावखभावत्वे नीरूपत्वप्रसंगात् नास्तीति प्रत्ययविषयरूपसद्भावान्न नीरूपत्वमिति चेत्, तर्हि भावस्वभाव विनाशः स्वभावत्वादुत्पादवत् । प्रागभावेतरेतराभावात्यंताभावानामप्यनेनैव भावखभावता व्याख्याता । ननु च यथा स्वभाववत्त्वाविशेषेपि घटपटयोर्नानात्वं विशिष्टप्रत्ययविषयत्वात्तथा भावाभावयोरपि स्यादिति चेन्न घटत्वेन वा खभाववत्त्वस्यावाप्तत्वाद् घटस्य पटात्मकत्वासिद्धेः, पटस्य वा घटात्मकत्वानुपपत्तेः कथंचिन्नानात्वव्यवस्थितेः । भावात्मकत्वेन तु खभावत्वस्य व्याप्तिसिद्धेः सर्वत्र भावात्ममंतरेण खभावत्वाप्रसिद्धेरभावस्य । ततो भावात्मकत्वसिद्धेरप्रतिबंधनात् । तत्र विशिष्टप्रत्ययस्तु पर्यायविशेषादुपपद्यते एव घटे नवपुराणादिप्रत्ययवत् । यथैव घटो नवः पुराण इति विशिष्टप्रत्ययतामात्मसात्कुर्वन्नपि घटात्मतां जहाति तथा भावोस्ति नास्तीति विशिष्टप्रत्ययं विषयतां स्वीकुर्वन्नपि न भावत्वमविशेषात् । न चाभावो भावपर्याय एव न भवति सर्वदा भावपरतंत्रत्वादभावप्रसंगात् । न च सर्वदाभावपरतंत्रो नीलत्वादिर्भावधर्मो नाप्रसिद्धो येनाभावोपि तद्वद्भावधर्मो न स्यात् । न च सर्वदा भावपरतंत्रत्वमभावस्यासिद्धं, घटस्याभावः पटस्य चेत्येवं प्रतीतेः खतंत्रस्याभावस्य जातुचिदप्रतीतेः । अत एव भाववैलक्षण्यमभावस्येति चेन्न, नीलादिना व्यभिचारात् । नीलमिदमित्येवं नीलादेः स्वतंत्रस्य संप्रत्ययात्सर्वदा भावपरतंत्रे नीलत्वासिद्धेर्न तेन व्यभिचार इति चेत्, तर्हि तवाप्यसदिदमित्येवमभावस्य स्वतंत्रस्य निश्चयात् सर्वदा भावपारतंत्र्यं न सिद्ध्येत् इदमिति प्रतीयमानभाव विशेषणतयात्रासतः प्रतीतेरस्वतंत्रत्वे नीलादेरपि स्वतंत्रत्वं मा भूत्तत एव व्यवस्थापितप्रायं वा भावस्य भावस्वभावत्वमिति न प्रपंच्यते । यत्पुनरस्तित्वं विपरिणमनं च जातस्य सतस्तत्सदृशपरिणामात्मकं तत्र वैसादृश्यप्रत्ययानुत्पत्तेः । ननु च सर्वस्य वस्तुनः सदृशेतरपरिणामात्मकत्वे स्याद्वादिनां कथं कश्चित्सदृश परिणामात्मक एव कश्चिद्विसदृश परिणामात्मकः पर्यायो युज्यते इति चेत्, तथा पर्यायार्थिकप्राधान्यात् सादृश्यार्थप्राधान्याद्वैसादृश्यगुणभावात् सादृश्यात्मकोयं परिणाम इति मन्यामहे न पुनर्वैसादृश्यनिराकरणात् । तथा वैसादृश्यार्थप्राधान्यात्सादृश्यस्य सतोपि गुणभावाद्विसदृशात्मकोयं परिणाम इति व्यवहरामहे । तदुभयार्थ प्राधान्यात्तु सदृशेतर परिणामात्मक इति संगिराम तथा प्रतीतेः । ततोपि न कश्चिदुपालंभः, संकरव्यतिकरव्यतिरेकेणाविरुद्धखभावानां निःसंशयं तदतत्परिणामानां विनियतात्मनां जीवादिपदार्थेषु प्रसिद्धेः । सुखादिपर्यायेषु सत्त्वाद्यन्वय विवर्तसंदर्भोपलक्षितजन्मादिविकारविशेषवत् जीवादयो द्रव्यपदार्थाः सुखादयः पर्याया विनियततदतत्परिणामायत्तत्वविवर्तयितृविकारा' इत्यकलंकदेवैरप्यभिधानात् । ततो नावस्थितस्यैव द्रव्यस्य परिणामः, पूर्वापरखभावत्यागोपादानविरोधात् । तदप्यनवस्थितस्यैव सर्वथान्वयरहितस्य परिणमनाघटनादिति स्याद
५३
Jain Education International
"
For Private & Personal Use Only
www.jainelibrary.org