________________
४१८
तत्त्वार्थश्लोकवार्तिके
[सू० २२ वस्थितस्य द्रव्यार्थादेशात् , स्यादनवस्थितस्य पर्यायार्थादेशादित्यादि सप्तभंगीभाक् परिणामो वेदितव्यः । सोयं परिणामः कालस्योपकारः, सकृत्सर्वपदार्थगस्य परिणामस्य बाह्य कारणमंतरेणानुपपत्तेर्वर्तनात् यत्तद्वाह्यं निमित्तं स कालः । ननु च कालस्य परिणामो यद्यस्ति तदासौ बाह्यान्यनिमित्तापेक्षं सन्निमित्तं परिणाममात्मसात्कुर्वदपरनिमित्तापेक्षमित्यनवस्था स्यात् । कालपरिणामस्य बाह्यनिमित्तानपेक्षत्वे पुद्गला. दिपरिणामस्यापि बाह्यनिमित्तापेक्षा मा भूत् । अथ कालस्य परिणामो नास्ति पूर्व परिणामिसत्त्वादिति । साधनमप्रयोजकं स्यात्तेन व्यभिचारात् । ततो न कालस्य परिणामोऽनुमापक इति कश्चित् । सोपि न विपश्चित् ; कालस्य सकलपरिणामनिमित्तत्वेन वपरिणामनिमित्तत्वसिद्धेः । सकलावगाहहेतुत्वेनाका. शस्य खावगाहहेतुवत् सर्वविदः सकलार्थसाक्षात्कारित्वेन खात्मसाक्षात्कारित्ववद्वान्यथा तदनुपपत्तेः । न चैवं पुद्गलादयः सकलपरिणामहेतवः, खपरिणामहेतुत्वेपि सकलपरिणामहेतुत्वाभावात् प्रतिनियतखपरिणामहेतुत्वात् । ये त्याहुः, नान्योन्यं परिणामयति भावान् नासौ स्वयं च परिणमते विविधपरिणामभाजां निमित्तमात्रं भवति काल इति । तेपि न कालस्यापरिणामित्वं प्रतिपन्नाः, सर्वस्य वस्तुनः परिणामित्वात् । न च स्वयं परिणमते इत्यनेन पुद्गलादिवत् महत्त्वादिपरिणामप्रतिषेधात् । न चासौ भावानन्योन्यं परिणमयतीत्यनेनापि तेषां स्वयं परिणममानानां कालस्य प्रधानकर्तृत्वप्रतिषेधात् । तस्यापि परिणामहेतुत्वं निमित्तमात्रं भवति काल इति वचनात् । ततः सर्वो वस्तुपरिणामो निमित्तद्रव्यहेतुक एवान्यथा तदनुपपत्तेरिति प्रतिपत्तव्यं । का पुनः क्रिया ? ॥
परिस्पंदात्मको द्रव्यपर्यायः संप्रतीयते । क्रिया देशांतरप्राप्तिहेतुर्गत्यादिभेदभृत् ॥ ३९ ॥ प्रयोगविस्रसोत्पादाद्वेधा संक्षेपतस्तु सा । प्रयोगजा पुनर्नानोत्क्षेपणादिप्रभेदतः ॥ ४० ॥ विस्रसोत्पत्तिका तेजोवातांभःप्रभृतिष्वियं । सर्वाप्यदृष्टवैचित्र्यात् प्राणिनां फलभागिनां ॥४१ क्रिया क्षणक्षयैकांते पदार्थानां न युज्यते । भूतिरूपापि वस्तुत्वहानेरेकांतनित्यवत् ॥ ४२ ॥ क्रमाक्रमप्रसिद्धेस्तु परिणामिनि वस्तुनि । प्रतीतिपदमापन्ना प्रमाणेन न वाध्यते ॥४३॥ .
कथं पुनरेवं विधा क्रिया कालस्योपकारोस्तु यतस्तं गमयेत् कालमंतरेणानुपपद्यमानत्वात् परिणामवत् । तथाहि-सकृत्सर्वद्रव्यक्रिया बहिरंगसाधारणकारणा, कारणापेक्षकार्यत्वात् परिणामवत् सकृत्सवपदार्थगतिस्थित्यवगाहवद्वा यत्तद्वहिरंगसाधारणकारणं स कालोन्यासंभवात् । के पुनः परत्वापरत्वे ? विप्रकृष्टेतरदेशापेक्षाभ्यां प्रशस्तेतरापेक्षाभ्यां च परत्वापरत्वाभ्यामनेकांतप्रकरणात् अपरदिक्संबंधिनि निवेद्ये वृद्धलुब्धके परत्वप्रत्ययकारणं परत्वं, परदिक्संबंधिनि च प्रशस्ते कुमारतपखिन्यपरत्वप्रत्ययहेतुरपरत्वं न तद्धि गुणकृतं न वाहेतुकमिति तद्धेतुना विशिष्टेन भवितव्यं । स नः काल इति । काले तर्हि दिग्भेदगुणदोषानपेक्षे परत्वापरत्वे परः कालोऽपरः काल इति प्रत्ययविशेषनिमित्ते किं कृते स्यातामिति चेत् , अध्यारोपकृते गौणे इति केचित् । स्वहेतुके मुख्ये एवास्त्वन्यप्रत्ययसमधिगमत्वादित्यन्ये । न चैवं सर्वद्रव्येषु खहेतुके परत्वापरत्वे प्रसज्येते, निंबादौ खहेतुकस्य तिक्तत्वादेर्दर्शनादोदनादावपि तस्य स्खहेतुकत्वप्रसंगात् निंबादिसंस्कारानपेक्षत्वापत्तेः । व्यवहारकालस्य परिणामक्रियापरत्वापरत्वैरनुमेयत्वाच्च न मुख्यकालापेक्षया चोद्यमनवा । द्विविधो ह्यत्र कालो मुख्यो व्यवहाररूपश्च । तत्र मुख्यो वर्तनानुमेयः, परस्तु परिणामाद्यनुमेयः प्रतिपादितः सूत्रेऽन्यथा परिणामादिग्रहणानर्थक्यप्रसंगात् वर्तनाग्रहणेनैव पर्याप्तत्वात् । कः पुनरसौ मुख्यः कालो नाम ? ॥
लोकाकाशप्रभेदेषु कृत्स्नेष्वेकैकवृत्तितः । प्रतिप्रदेशमन्योन्यमबद्धाः परमाणवः ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org