________________
पञ्चमोऽध्यायः। मुख्योपचारभेदैस्तेऽवयवैः परिवर्जिताः । निरंशा निष्क्रिया यसादवस्थानात्स्वदेशवत् ॥ ४५ अमूर्तास्तद्वदेवेष्टाः स्पर्शादिरहितत्वतः। कालाख्या मुख्यतो येस्तिकायेभ्योन्ये प्रकाशिता:४६ व्यवहारात्मकः कालः परिणामादिलक्षणः । कालवर्तनया लब्धकालाख्यस्तु ततोऽपरः ४७ कुतश्चित् परिच्छिन्नोऽन्यपरिच्छेदनकारणं । प्रस्थादिवत्प्रपत्तव्योन्योन्यापेक्षप्रभेदभृत् ॥४८॥ ततस्त्रैविध्यसिद्धिश्च तस्य भूतादिभेदतः । कथंचिन्नाविरुद्धा स्यात् व्यवहारानुरोधतः॥४९॥ यथा प्रतितरु प्राप्तप्राप्नुवत्प्राप्स्यदुच्यते । तरुपक्तिं क्रमादश्वप्रसृत्यनुसरन् मतं ॥ ५० ॥ तथावस्थितकालाणुश्च जीवाद्यनुसंगमात् । भूतं स्याद्वर्तमानं च भविष्यच्चाप्यपेक्षया ॥ ५१ ॥ भूतादिव्यवहारोतः कालः स्यादुपचारतः। परमार्थात्मनि मुख्यस्तु स स्यात् सांव्यवहारिके ५२ एवं प्रतिक्षणादित्यगतिप्रचयभेदतः । समयावलिकोच्छ्वासप्राणस्तोकलवात्मकः ॥ ५३॥ नालिकादेश्व विख्याते कालोनेकविधः सतां । मुख्यकालाविनाभूतां कालाख्यां प्रतिपद्यते५४ परापरचिरक्षिप्रक्रमाक्रमधियामपि । हेतुः स एव सर्वत्र वस्तुतो गुणतः स्मृतः ॥ ५५ ॥ क्रियैव काल इत्येतदनेनैवापसारितं । वर्तनानुमितः कालः सिद्धो हि परमार्थतः ॥५६॥ धर्मादिवर्गवत्कार्यविशेषव्यवसायतः । बाधकामावतश्चापि सर्वथा तत्र तत्त्वतः ॥ ५७॥
सांप्रतं सर्वेषां धर्मादीनामनुमेयार्थानामानुमानिकी प्रतिपत्तिः सूत्रसामर्थ्यादुपजाता प्रत्यक्षार्थप्रतीतिवन्न बाध्यत इत्युपसंहरन्नाह;
एवं सर्वानुमेयार्था प्रतिपत्तिर्न बाध्यते । सूत्रसामर्थ्यतो जाता प्रत्यक्षार्थप्रतीतिवत् ॥ ५८ ॥
न हि धर्मास्तिकायाद्यनुमेयार्थप्रतिपत्तिरस्मदादिप्रत्यक्षेण बाध्यते तस्य तदविषयत्वात् । न संति धर्मादयोऽनुपलब्धेः खरशृंगवदित्याद्यनुमानेन वाध्यते इति चेन्न, तस्याप्रयोजकत्वात् । परचेतोवृत्त्यादिना व्यभिचारात् । दृश्यानुपलब्धिः पुनरत्रासिद्धैव सर्वथा धर्मादीनामस्मदादिभिः प्रत्यक्षतोनुपलभ्यत्वात् । कालात्ययापदिष्टश्च हेतुः प्रमाणभूतागमाबाधितपक्षनिर्देशानंतरं प्रयुक्तत्वात् । एवमबाधितप्रतीतिगोचरार्थप्रकाशिनः सूत्रकारादयः प्रेक्षावतां स्तोत्राओं इति स्तुवंति;
निरस्तनिःशेषविपक्षसाधनैरजीवभावा निखिलाः प्रसाधिताः। प्रपंचतो पैरिह नीतिशालिभिर्जयंति ते विश्वविपश्चितंमताः ॥ ५९ ॥
इति पंचमस्याध्यायस्य प्रथममाह्निकम् ।
स्पर्शरसगंधवर्णवंतः पुद्गलाः ॥ २३ ॥ स्पर्शग्रहणमादौ विषयबलदर्शनात् । सर्वेषु हि विषयेषु रसादिषु स्पर्शस्य बलं दृश्यते स्पष्टग्राहिबिद्रियेषु स्पर्शस्यादौ ग्रहणव्यक्तेः, सर्वसंसारिजीवग्रहणयोग्यत्वाच्चादौ स्पर्शस्य ग्रहणं । रसग्रहणमादौ प्रसज्यते विषयबलदर्शनात् स्पर्शसुखनिरुत्सुकेष्वपि रसव्यापारदर्शनादिति चेन्न, स्पर्शे सति तद्व्यापारात् । तत एवानंतरं रसवचनं, स्पर्शग्रहणानंतरभावि हि रसग्रहणं । रूपात्प्राग्गंधवचनमचाक्षुषत्वात् अंते वर्णग्रहणं स्थौल्ये सति तदुपलब्धेः । नित्ययोगे मतोर्बिधानात् क्षीरिणो न्यग्रोधा इत्यादिवत् स्पर्शादिसामान्यस्य नित्ययोगात्पुद्गलेषु ॥
अथ स्पर्शादिमंतः स्युः पुद्गला इति सूचनात् । क्षित्यादिजातिभेदानां प्रकल्पननिराकृतिः॥१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org