________________
४२० तत्त्वार्थश्लोकवार्तिके
[सू० २४ पृथिव्यप्तेजोवायवो हि पुद्गलद्रव्यस्य पर्यायाः स्पर्शादिमत्त्वात् ये न तत्पर्यायास्ते न स्पर्शादिमंतो दृष्टा यथाकाशादयः स्पर्शादिमंतश्च पृथिव्यादय इति तज्जातिभेदानां निराकरणं सिद्धं । नन्वयं पक्षाव्यापको हेतुः स्पर्शादिजले गंधस्याभावात्तेजसि गंधरसयोः वायौ गंधरसरूपाणामनुपलब्धेरिति ब्रुवाणं प्रत्याह;
नाभावोऽन्यतमस्यापि स्पर्शादीनामदृष्टितः । तस्यानुमानसिद्धत्वात्स्वाभिप्रेतार्थतत्त्ववत् ॥२॥ ।
किमियं प्रत्यक्षनिवृत्तिरनुपलब्धिराहोस्वित्सकलप्रमाणनिवृत्तिः ? प्रथमा च चेत्ततः सलिलादिषु स्पर्शादीनामन्यतमस्याप्यभावः सिद्ध्येत् । खाभिप्रेतत्वेनातींद्रियेण धर्मादिनानेकांतात् । तस्यानुमानसिद्धत्वेप्सु गंधस्य, तेजसि गंधरसयोः, पवने गंधरसरूपाणामनुमानसिद्धत्वमस्तु । तथाहि-आपो गंधवत्यस्तेजो गंधरसवद्वायुः गंधरसरूपवान् स्पर्शवत्त्वात् पृथिवीवत् । कालात्ययापदिष्टो हेतु: प्रत्यक्षागमविरु. द्धपक्षनिर्देशानंतरं प्रयुक्तत्वात् तेजस्यनुष्णत्वे साध्ये द्रव्यत्ववदिति चेत् , न नाम रसादिष्वनुभूतरूपस्पर्शविशेषे साध्ये तैजसत्वहेतोः कालात्ययापदिष्टत्वप्रसंगात् । तत्रागमेन विरोधाभावात्तदभावप्रतिपादनान्न दोष इति चेत् , तत एवान्यत्र दोषो मा भूत् । स्याद्वादागमस्य प्रमाणत्वमसिद्धमिति चेन्न, तस्यैव प्रामाण्यसाधनात् । यौगागमस्यैव सर्वत्र दृष्टेष्टविरुद्धत्वेन प्रामाण्यानुपपत्तेः । युक्त्यनुगृहीतत्वेन चागमस्य प्रामाण्यमनुमन्यमानः कथमितरेतराश्रयदोषं परिहरेत् ? सिद्धे ह्यागमस्य तत्प्रतिपादकस्य प्रामाण्ये तत्र हेतोरतीतकालत्वाभावसिद्धिः तत्सिद्धौ च तदनुमानेनानुगृहीतस्य तदागमस्य प्रामाण्यसिद्धिरिति । स्याद्वादिनां तु सुनिश्चितासंभवबाधकप्रमाणत्वेनागमस्य प्रामाण्यसिद्धौ नायं दोषः । अत एव जलादिषु गंधाधभावसाधने सर्वस्य हेतोरतीतकालत्वं प्रत्येतव्यं, तस्य प्रमाणभूतजैनागमविरुद्धत्वात् । ततो न कालात्ययापदिष्टो हेतुः । नाप्यनैकांतिको विपक्षवृत्त्यभावात् । अन्वयाभावादगमक इति चेन्न, सर्वस्य केवलव्यतिरेकिणोऽप्रयोजकत्वप्रसंगात् साध्याविनाभावनियमनिश्चयात् । कस्यचित्प्रयोजकत्वे प्रकृतहेतोस्तत एव प्रयोजकत्वमस्तु । पुद्गलद्रव्यपर्यायत्वाभावे क्षित्यादीनां स्पर्शतत्त्वाभावनियमनिश्चयात् । एतेन सर्वप्रमाणानिवृत्तिरनुपलब्धिरसिद्धा न तोयादिषु गंधाद्यभावसाधनीत्युक्तं वेदितव्यं, प्रवचनस्यानुमानस्य च तद्भावावेदिनः प्रवृत्तेः ॥
शब्दबंधसौम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवंतश्च ॥ २४ ॥ पुद्गला इत्यनुवर्तते । तत्र शब्दादीनामभिहितनिर्वचनानां परिप्राप्तद्वंद्वानामेवाभिसंबंधः । शब्दो द्वेधा भाषालक्षणो विपरीतश्च । भाषात्मको द्वेधा अक्षरात्मको अनक्षरात्मकश्च । प्रथमः शास्त्राभिव्यंजकः संस्कृतादिभेदादार्यम्लेच्छव्यवहारहेतुः, अनक्षरात्मको द्वींद्रियादीनामतिशयज्ञानखरूपप्रतिपादनहेतुश्च । स एष प्रायोगिक एव । अभाषात्मको द्वेधा प्रयोगविस्रसानिमित्तत्वात् । तत्र प्रयोगनिमित्तश्चतुर्धा, ततादिभेदात् । चर्मतननात्ततः पुष्करादिप्रभवः, तंत्रीकृतो विततो वीणादिसमुद्भवः, कांस्यतालादिजो घनः, वंशादिनिमित्तः शौषिरः, विससानिमित्तः शब्दो मेघादिप्रभवः । बंधो द्विविधो विस्रसाप्रयोगभेदात् । विस्रसा बंधोऽनादिरादिमांश्च, प्रयोगबंधः पुनरादिमानेव पर्यायतः । सौम्यं द्विविधमत्यक्षमापेक्षिकं च । तथा स्थौल्यं संस्थानमित्थलक्षणं चतुरस्रादिकमनित्थंलक्षणं च अनियताकारं । भेदः षोढा उत्करश्चूर्णः खंडस्तूर्णिका प्रतरोनुचटनमिति । तमो दृष्टिप्रतिबंधकारणं केषांचित् । छाया प्रकाशावरणं । आतप उष्णप्रकाशलक्षणः । उद्योतश्चंद्रादिप्रकाशोनुष्णः । त एते शब्दादयः स्वरूपतो भेदतश्च सुप्रसिद्धा एव । कुतः पुनः पुद्गलाः शब्दादिमंतः सिद्धा इत्याह;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org