________________
पञ्चमोऽध्यायः ।
४२१
प्रोक्ता शब्दादिमंतस्तु पुंगलाः स्कंधभेदतः । तथा प्रमाण सद्भावादन्यथातदभावतः ॥ १ ॥ न हि परमाणवः शब्दादिमंतः संति विरोधात् स्कंधस्यैव शब्दादिमत्तया प्रतीतेः । शब्दस्याकाशगुणत्वान्न तद्वान् पुद्गलस्कंध इत्येके, तस्यामूर्तद्रव्यत्वादित्यन्ये । तान् प्रत्याह; —
न शब्दः खगुणो बाह्यकरणज्ञानगोचरः । सिद्धो गंधादिवन्नैव सोमूर्तद्रव्यमप्यतः ॥ २ ॥ न स्फोटात्मापि तस्यैव स्वभावस्याप्रतीतितः । शब्दात्मनस्सदा नानास्वभावस्यावभासनात् ३ अंतःप्रकाशरूपस्तु शब्दे स्फोटोपरे ध्वनेः । यथार्थगतिहेतुः स्यात्तथा गंधादितोपरः ॥ ४ ॥ गंधरूपरसस्पर्शः स्फोटः किं नोपगम्यते । तत्राक्षेपसमाधानसमत्वात्सर्वथार्थतः ॥ ५ ॥ नाकाशगुणः शब्दो बाचेंद्रियविषयत्वाद्धादिवदित्यत्र न हेतुर्व्यभिचारी विपक्षावृत्तित्वात् । पटाकाशसंयोगेन व्यभिचार इतिचेन्न, तस्याकाशगुणत्वैकांताभावात् तदुभयगुणत्वात् । तत्र बाचेंद्रियवि - षयत्वासिद्धेः संयोगिनो गगनस्यातींद्रियत्वात् । पटस्येंद्रियविषयत्वेपि तत्संयोगस्य तद्योगात् । तदुक्तमन्यैः । “द्वयसंबंधसंवित्तिर्नैकरूपप्रवेदनात् । द्वयवरूपग्रहणे सति संबंध वेदनं ॥” इति । एतेनैतदपि प्रत्युक्तं । यदुक्तं यौगैः-न स्पर्शवद्रव्यगुणः शब्दोऽस्मदादिप्रत्यक्षत्वे सत्ययावद्द्रव्यभावित्वादकारणगुणपूर्वकत्वाद्वा सुखादिवदिति, पक्षस्य प्रकृतानुमानबाधितत्वात् । शब्दस्य द्रव्यार्थादेशादयावद्रव्य - भावित्वासिद्धिः खरूपादिवत् । पर्यायार्थादेशादकारणगुणपूर्वत्वस्याप्यसिद्धिः शब्दपरिणतानां पुद्गलानामपरापरसदृशशब्दारंभकत्वात् । अन्यथा वक्तृदेशादन्यत्र शब्दस्याश्रवणप्रसंगात् । ननु च वक्रुव्यापारात्पुद्गलस्कंधः शब्दतया परिणमन्नेकोनेको वा परिणमेत् ? न तावदेकस्तस्य सकृत्सर्वदिक्षु गमनासंभवात् । यदि पुनर्यावद्भिः सर्वदिकैः श्रोतृभिः श्रूयते शब्दस्तावानेव वक्रूव्यापारनिष्पन्नः तच्छ्रोत्राभिमुखं गच्छतीति तैर्मतं, तदा सदृशशब्दकोलाहलश्रवणं श्रोतृजनस्य कुतो न भवेत् ? सर्वेषां शब्दानामेकैकश्रोतृग्राह्यत्वपरिणामाभावादिति चेत्, त कैकः शब्द एकैकश्रोतृग्राह्यत्वपरिणतः सर्वदिक्कं गच्छन्नेकैकेनैव श्रोत्रा श्रूयते इत्यायातं । तच्चायुक्तं, एकदिकेषु सप्रणिधिषु श्रोतृषु स्थितेष्वत्यासन्न श्रोतृश्रोत्रस्य परापरश्रोतृश्रवणविरोधात् । परापर एव शब्दः परापरश्रोतृभिः श्रूयते न पुनः स एवेति चेत्, स तर्हि परा - परशब्दः किं वक्रुव्यापारादेव प्रादुर्भवदाहोखित्पूर्व श्रोतृशब्दात् ! प्रथमपक्षे कथमसौ परापरैः श्रोतृभिः श्रूयमाणः पूर्वपूर्वैः सममाकाशश्रेणिस्थैरपि न श्रूयते इति महदाश्चर्य । न चैवं कारणगुणपूर्वकः शब्दः सिद्ध्येत् । द्वितीयविकल्पे पर्यंतस्थित श्रोतृश्रुतशब्दादपि शब्दांतरोत्पत्तिः कथं न भवेत् ? पुद्गलस्कंधस्य तदुपादानस्य सद्भावात् । वनृव्यापारजनितवायुविशेषस्य तत्सहकारिणस्तत्राभावादिति चेत्, तर्हि वायवीयः शब्दोस्तु किमपरेण पुद्गलविशेषेण तदुपादानेन कल्पितेनादृष्टकल्पनामात्रहेतुना किं कर्तव्यं, तथोपगमे स्वमतविरोधात् । ततः स्याद्वादिनो दुर्निवार इति कश्चित् । सोप्यनालोचितवचनः, शब्दस्य गगनगुणत्वेपि प्रतिपादितदोषस्य समानत्वात् । तथाहि - शंखमुखसंयोगादाकाशे शब्दः प्रादुर्भवन्नेक एव प्रादुर्भवेदनेको वा ? प्रथमपक्षे कुतस्तस्य नानादिकैः श्रोतृभिः श्रवणं ? सकृत्सर्वदिक्कगमनासंभवात् । अथानेकस्तदा शब्दकोलाहलश्रुतिप्रसंगः समानः शब्दस्यानेकस्य सकृदुत्पत्तेः, सर्वदिक्काशेषश्रोतृश्रूयमाणस्य तावद्वा भेदसिद्धेः । यदि पुनरेकैकस्यैव शब्दस्यैकैकश्रोतृग्राह्यस्वभावतयोत्पत्तेर्न समानशब्दकलकलश्रुतिरिति मतं, तदैकदिक्षु समानप्रणिधिषु श्रोतृषु प्रत्यासन्नतम श्रोतृश्रुतस्य शब्दस्यांत्यत्वाच्छब्दांतरा - रंभकत्वविरोधाच्छेषश्रोतॄणां तच्छ्रवणं न स्यात् । तस्यापरशब्दारंभकत्वे चांत्यत्वाव्यवस्थितिः । प्रत्यासन्नतम श्रोतृश्रवणमपि न भवेत् तद्भावे वाद्य एव शब्दः श्रूयते नांत्य इति सिद्धांतव्याघातः । अथ प्रत्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org