________________
४२२ तत्त्वार्थश्लोकवार्तिके
[सू० २४ सन्नतमश्रोतारं प्रत्यसौ शब्दोंत्यस्तेन श्रूयमाणत्वान्न प्रत्यासन्नतरं तेन तस्याश्रवणात् तेन च श्रूयमाणस्तमेव प्रत्यंतो न तु प्रत्यासन्नं प्रति । तत एव सोपि तमेव प्रत्यत्यो न दूरश्रोतारं प्रतीति मतिः; सापि न श्रेयसी, शब्दस्यैकस्यांत्यत्वानंत्यत्वविरोधात्तस्य निरंशत्वोपगमात् । अथ तस्यापि धर्मभेदोपगमाददोषः स तर्हि धर्मशब्दस्य जातिरेव भवितुमर्हति न गुणादिः शब्दस्य स्वयं गुणत्वात् तदाश्रयत्वासंभवात् । न च तदंत्यत्वं तदनंत्यत्वं वा जातिरेकव्यक्तिनिष्ठत्वात् जातेस्त्वनेकव्यक्तिवृत्तित्वात् । अथैकश्रोतृश्रवणयोग्यो- । नेकः शब्दोंत्योऽनंतश्चापरश्रोतृश्रवणयोग्योस्तीति मतं, तोद्योपि शब्दोत्यः स्यात् कस्यचिच्छ्रवणयोग्यत्वात् कर्णशः कुट्यंतःप्रविष्टमाकाशशब्दवत् कर्णघोषवद्वा । तथा चाद्यः शब्दो न श्रूयते इति सिद्धांतविरोधः । अथ न श्रवणयोग्यत्वादंत्यत्वं किं तर्हि ? आद्यापेक्षया शब्दांतरानारंभकत्वापेक्षया चेत्यभिमतिस्तदाद्यस्यांत्यत्वं तदंत्यस्यानंत्यत्वं कथमुपपद्यते ? येनैकस्यांत्यत्वमनंत्यत्वं च स्यात् । ततः सूक्तं प्रत्यासन्नतमश्रोतृश्रुतशब्दाच्छब्दांतरस्याप्रादुर्भावादेकदिक्कसप्रणिधिश्रोतृपंक्त्या शब्दश्रवणभावप्रसंग इति । स्यान्मतं, शंखमुखसंयोगादाकाशे बहवः शब्दाः समानाः प्रत्याकाशप्रदेशकदंबके शंखादुपजायते ते च पवनप्रेरिततरंगात्मवच्छब्दांतरानारभंते; ततो भिन्नदिक्कसप्रणिधिश्रोतृपंक्तेरिवैकदिक्कसप्रणिधिश्रोतृपंक्तेरपि प्रतिनियतसंततिपतितस्यैव शब्दस्य श्रवणमेकस्यैव च श्रोतुर्न पुनरन्यस्य यतो निगदितदोषः स्यादिति । तदप्यनालोचिताभिधानं शब्दसंततेः सर्वतोपर्यंततापत्तेः । समवायिकारणस्य गगनस्यासमवायिकारणस्य च शब्दस्य शब्दांतरोत्पत्तिहेतोः सद्भावात् शंखमुखसंयोगजपवनाकाशसंयोगस्य शब्दकारणस्याभावान्नांत्याभिमतः शब्दः शब्दांतरमारभते यतः शब्दसंततिपर्यंतता स्यादिति चेत् , तर्हि वायवीयः शब्दोस्तु किमाकाशेन समवायिना कल्पितेनेति मतांतरं स्यात् । शब्दाच्छब्दोत्पत्तिर्न स्यात्तस्यापि पवनसंयोगजत्वात् । सत्येवाकाशे शब्दस्योत्पत्तिस्तत्समवायिकारणं न तत्प्रतिषेधहेतवो गमकाः स्युर्बाधितविषयस्वादिति मतं, तदा शब्दः स्पर्शवद्र्व्यपर्यायो बायेंद्रियप्रत्यक्षत्वात्स्पर्शादिवदित्यनुमानात्तस्य पुद्गलपर्यायत्वे सिद्धे तत्प्रतिषेधहेतवोनुमानवाधितविषयत्वादेव गमकाः कथमुपपद्येरन् ? । एतेन यदुक्तं सौगतैःएकद्रव्याश्रितः शब्दः सामान्यविशेषवत्त्वे सति बाखैकेंद्रियप्रत्यक्षत्वाद्रूपवदिति । तदपि प्रत्याख्यातं, पुद्गलस्कंधस्यैकद्रव्यस्य शब्दाश्रयत्वोपपत्तेः सिद्धसाधनत्वात् । गगनाश्रयत्वे साध्ये साध्यविकलो दृष्टांत, स्याद्धेतुश्च विरुद्धः । तथाहि-स्पर्शवदेकद्रव्याश्रितः शब्दः सामान्यविशेषवत्त्वे सति बाखैकेंद्रियप्रत्यक्षत्वात् रूपादिवत् । न च हेतोरात्मना व्यभिचारस्तस्यांतःकरणप्रत्यक्षत्वात् । नापि घटादिना तस्य बायेंद्रियप्रत्यक्षत्वात् चंगुलसंयोगस्यानेकद्रव्याश्रितस्य स्पर्शनेन च साक्षात्करणात् । ततः सूक्तं-न शब्दः खगुणो बायेंद्रियप्रत्यक्षत्वात् गंधादिवदिति तस्य पुद्गलपर्यायत्वव्यवस्थितेः । तथा नामूर्तिद्रव्यं शब्दः बाडेंद्रियप्रत्यक्षात् घटादिवत् । न नभसा व्यभिचारः साधनस्य, नभसो बाडेंद्रियाप्रत्यक्षत्वात् । ननु च शुषिरस्य चक्षुषा स्पर्शनेन च साक्षात्करणाद्यच्छुषिरं तदाकाशमिति वचनाद्वायेंद्रियप्रत्यक्षमेवाकाशं तस्येदंतया प्ररूपणादिति चेत् ; नैतत्सत्यं, शुषिरस्य घनद्रव्याभावरूपत्वादुपचारतस्तत्राकाशव्यपदेशाद् घनद्रव्याभावस्य च द्रव्यांतरसद्भावरूपत्वात् । तत्र चक्षुषः स्पर्शनस्य च व्यापारात् । परमार्थतस्तत्प्रत्यक्षत्वाभावान्नभसः । तथाहि-नभो न बाडेंद्रियप्रत्यक्षममूर्तद्रव्यत्वादात्मादिवत् यत्तु बायंद्रियप्रत्यक्षं तन्नामूर्तद्रव्यं यथा घटादिद्रव्यं इति न नभसा व्यभिचारी हेतुः । स्यादाकूतं ते, अमूर्तद्रव्यं शब्दः परममहत्त्वाश्रयत्वादाकाशवदित्यनुमानबाधितः पक्ष इति । तदसम्यक्; परममहत्त्वाश्रयत्वस्यासिद्धत्वात् । तथाहि-न परममहान् शब्दः अस्मदादिशब्दत्वात् पटादिवत् । नापि मानसप्रत्यक्षेण नभसा, तस्यास्मदादिमनःप्रत्यक्षत्वासिद्धेः । संव्यवहारतोनिंद्रियप्रत्यक्षस्य स्वसंवेदनस्य सुखादिप्रतिभासिनश्चक्षुरादिपरिच्छि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org