SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ • पञ्चमोऽध्यायः । ४२३ न्नार्थस्मरणस्य च विशदस्याभ्युपगमात् । गगनादिष्वतींद्रियेषु मानसप्रत्यक्षानवगमात् । न चैवं मतिज्ञानस्य सर्वद्रव्यविषयत्ववचनं विरुध्यते, गगनादीनामतींद्रियद्रव्याणां खार्थानुमानमतिविषयत्वाभ्युपगमात् । अस्मदादिप्रत्यक्षया सत्तयानेकांत इत्यपि न स्याद्वादिना क्षम्यते, सत्तायाः सर्वथा परममहत्त्वाभावात् । परममहतो द्रव्यस्य नभसः सत्ता हि परममहती नासर्वगतद्रव्यादिसत्ता । न च नभसः सत्तास्मदादिप्रत्यक्षा ततो न तया व्यभिचारः । न च सकलद्रव्यपर्यायव्यापिन्येकैव सत्ता प्रसिद्धा, तस्यास्तथोपचारतः प्रतिपादनात् । परमार्थतस्तदेकत्वे विश्वरूपत्वविरोधात् । सत्प्रत्ययाविशेषादे कैव सत्तेति चेन्न, सर्वथा सत्प्रत्ययाविशेषस्यासिद्धत्वात् संयुक्तप्रत्ययाविशेषवत् । अत्रान्ये प्राहुः - : --न द्रव्यं शब्दः किं तर्हि ? गुणः प्रतिषिद्धमानद्रव्यकर्मत्वे सति सत्त्वाद्रूपवत् । शब्दो न द्रव्यमनित्यत्वे सत्यस्मदाद्यचाक्षुषप्रत्यक्षत्वात् । शब्दो न कर्माचाक्षुषप्रत्यक्षत्वाद्रसवदिति । तदयुक्तं ; ( मीमांसकान् प्रति ) तेषां वायुनास्मदाद्यचाक्षुषप्रत्यक्षत्वस्य व्यभिचाराद्वायोरस्मदादिप्रत्यक्षत्वात् । अनित्यत्वविशेषणस्य चापसिद्धत्वात् द्रव्यत्वप्रतिषेधानुपपत्तेः । कर्मत्वप्रतिषेघनस्य चाक्षुषप्रत्यक्षत्वस्य वायुकर्मणानैकांतिकत्वात् । द्रव्यं शब्दः क्रियावत्त्वाद्वाणादिवदित्यपरे । ते यदि स्याद्वादमनासृत्याचक्षते तदापसिद्धांतः शब्दस्य पर्यायतया प्रवचने निरूपणादन्यथा पुद्गलानां शब्दवत्त्वविरोधात् । द्रव्यार्थादेशाद्रव्यं शब्दः पुद्गलद्रव्याभेदादिति चेत्, किमेवं गंधादिरपि द्रव्यं न स्यात् ? गंधादयो गुणा एव द्रव्याश्रितत्वात् निर्गुणत्वाच्च 'द्रव्याश्रया निर्गुणा गुणा' इति वचनान्निष्क्रियत्वाच्चेति चेत्, शब्दस्तत एव गुणोस्तु । सहभावित्वाभावान्न गुण इति चेत्, कथं रूपादिविशेषास्तत एव गुणा भवेयुः । सामान्यार्पणात्तेषां सहभावित्वात् पुद्गलद्रव्येण तद्गुणास्ते इति चेत्, शब्द समवायिकारणमस्तु भवत एव पृथिवीद्रव्याभावे सत्यप्याकाशे गंधस्यानुत्पत्तेः पृथिवी द्रव्यमेव तत्समवायिकारणमाकाशं तु निमित्तमिति चेत्, तर्हि वायुद्रव्यस्याभावे शब्दस्यानुत्पत्तेः तदेव तस्य समवायिकारणमस्तु गगनं तु निमित्तमात्रं तस्य सर्वोत्पत्तिमतामुत्पत्तौ निमित्तकारणत्वोपगमात् । पवनद्रव्याभावेपि भेरी दंडसंयोगाच्छब्दस्योत्पत्तेर्न पवनद्रव्यं तत्समवायि पृथिव्यप्तेजोद्रव्यवदिति चेत्, तर्हि शब्दपरिणामयोग्यं पुद्गलद्रव्यं शब्दस्योपादानकारणमस्तु वाय्वादेरनियततया तत्सहकारित्वसिद्धेः । कुतस्तत्सिद्धिरिति चेत् पृथिव्यादेः कुतः ? प्रतिविशिष्टस्पर्शरूपरसगंधानामुपलंभात्पृथिव्याः सिद्धिः, स्पर्शरूपरस विशेषाणामुपलब्धेरपां, स्पर्शरूपविशेषयोरुपलब्धेस्तेजसः, स्पर्शविशेषस्योपलंभाद्वायोः । स्वाश्रयद्रव्याभावे तदनुपपत्तेरिति चेत्, तर्हि शब्दस्य पृथिव्यादिष्वसंभविनः स्फुटमुपलंभात्तदाश्रयद्रव्यस्य भाषावर्गणापुद्गलस्य प्रसिद्धिरन्यथा तदनुपपत्तेः । न च परमाणुरूपः पुद्गलः शब्दस्याश्रयोस्मदादिवाचेंद्रियग्राह्यत्वात् छायातपादिवत् । स्कंधरूपस्तु स्यादिति सूक्ष्मशब्दगुणात्मकेभ्यः सूक्ष्मभाषावर्गणापुद्गलेभ्योस्मदा दिवालेंद्रियग्राह्यपुद्गलस्कंधात्मा शब्दः प्रादुर्भवन् कारणगुणपूर्वक एव पटरूपादिवत् । ततोऽकारण पूर्वकत्वादित्यसिद्धो हेतुरयावद्द्रव्यभावित्वादिवत् । कश्चिदाह-अकारणगुणपूर्वकः शब्दोऽस्पर्शद्रव्यगुणत्वात् सुखादिवदिति; तस्यापि परस्पराश्रयः । सिद्धे ह्यकारणगुणपूर्वकत्वे शब्दस्यास्पर्शवद्रव्यगुणत्वं सिद्ध्येत् तत्सिद्धौ वाकारणगुणपूर्वकत्वमिति । तथा नाकारणगुणपूर्वकः शब्दोस्मदादिबाझेंद्रिय ज्ञानपरिच्छेद्यत्वे सति गुणत्वात् घटरूपादिवदित्यनुमानविरुद्धश्च पक्षः स्यात् । न ह्यत्र हेतोः परमाणुरूपादिना व्यभिचारः सुखादिना वा, बायेंद्रियज्ञानपरिच्छेद्यत्वे सतीति विशेषणात् । तथापि योगिबालेंद्रियप्रत्यक्षेण परमाणुरूपादिनानेकांत इति न शंकनीयमस्मदादिग्रहणात् । पृथिवीत्वादिसामान्येनानित्यद्रव्यविशेषेण समवायेन कर्मणा वा व्यभिचार इत्यपि न मंतव्यं, गुणत्वादिति वचनात् । न चैवं स्याद्वादिनामपसिद्धांतः शब्दस्य पर्यायत्ववचनात् पर्या " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001683
Book TitleTattvarthashloakvarttikam
Original Sutra AuthorVidyanandi
AuthorManoharlal
PublisherRamchandra Natharangji Mumbai
Publication Year1918
Total Pages522
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy