________________
४२४
तत्त्वार्थश्लोकवार्तिके
[सू० २४
यस्य च गुणत्वात् । तथा चाहुरकलंक देवाः, 'शब्दः पुद्गलपर्यायः स्कंधः छायातपादिवदिति । स्यान्मतं, न शब्दः न पुद्गलस्कंधपर्यायोऽस्मदाद्यनुपलभ्यमानस्पर्शरूपरसगंधा श्रयत्वात्सुखादिवदिति । तदसत्, द्व्यणुकादिरूपादिना हेतोर्व्यभिचारात् । शब्दाश्रयत्वेस्मदाद्यनुपलभ्यमानानामप्यनुद्भूततया स्पर्शादीनां सद्भावसाधनात् । गंधाश्रयत्वे स्पर्शरूपरसवत् । गंधो हि कस्तूरिकादेर्गंधद्रव्याद्दूरे गंधं समुपलभ्यमाने घ्राणेंद्रिये संप्राप्तः खाश्रयद्रव्यरहितः न संभवति, गुणत्वाभावप्रसंगात् । नापि तदाश्रयद्रव्यमस्मदादिभिरुपलभ्यमानस्पर्शरूपरसं । न च तत्रानुभूतवृत्तयः स्पर्शरूपरसा न संति पार्थिवेष्यविरोधात् । यथा वायोरनुपलभ्यमानरूपरसगंधस्य तेजसश्चानुपलभ्यमानरसगंधस्य सलिलस्य चानुपलभ्यमानगंधस्य पर्या........... गगं स्पर्शरूपरसगंधाः प्रसिद्धास्तथानुपलभ्यमानस्पर्शरूपरसगंधस्यापि भाषावर्गणापुद्गलस्य पर्यायः शब्दो निस्संदेहं प्रसिद्ध्यत्येव । कथमन्यथैवमाचक्षाणः प्रतिक्षिप्यते परैः । न वायुगुणोनुष्णाशीतस्पर्शोपाकजः उपलभ्यत्वे सत्यस्मदाद्यनुपलभ्यमानरूपरसगंधाश्रयत्वात्सुखादिवत् । तथा न भासुररूपोपण स्पर्शस्तेजोद्रव्यगुण उपलभ्यत्वे सत्यस्मदाद्यनुपलभ्यमानगंधाश्रयत्वात् तद्वत् । तथा न शीतस्पर्शनीलरूपमधुररसाः सलिलगुणाः उपलभ्यत्वे सत्यस्मदाद्यनुपलभ्यमानगंधाश्रयत्वात्तद्वदेवेति । यदि पुनः स्पर्शादयो द्रव्याश्रया एव गुणत्वात्सुखादिवत् यत्तद्रव्यं तदाश्रयः स वायुरनलः सलिलं क्षितिरित्यनुमानसिद्धत्वात्स्पर्शविशेषादीनां वाय्वादिगुणत्वस्य सामान्यार्पणया किं न भाषावर्गणपुद्गलद्रव्येण सहभावीष्टो येन तद्गुणो न स्यात् । विशेषार्पणात् यथा रूपादयः पर्यायास्तथा शब्दोपि पुद्गपर्याय इति कथमसौ द्रव्यं स्यात् ? षड्द्रव्यप्रतिज्ञानविरोधाच्च । शब्दद्रव्यस्य पृथिव्यादिवत्पुद्गलद्रव्येंतर्भावान्न तद्विरोध इति चेत्, गंधद्रव्यादीनामपि तद्वत्तत्रांतर्भावात्तद्विरोधासिद्धेर्गुणत्वं किमभिधीयते ज्ञानादीनां च द्रव्यत्वमस्तु जीवद्रव्येंतर्भावत्वाप्रसक्तेः द्रव्यसंख्यानियमाविघातात् । तथा च न कश्चिद्गुण इति द्रव्यस्याप्यभावः तस्य गुणवत्त्वलक्षणत्वात् । ततो द्रव्यगुणपर्यायव्यवस्थामिच्छता ज्ञानादिरूपादीनामिव शब्दस्य सहभाविनो गुणत्वं क्रमभुवस्तु पर्यायत्वमभ्युपगंतव्यं । क्रियावत्त्वं च शब्दस्यासिद्धं गंधादिवत् तदाश्रयस्य पुद्गलद्रव्यस्य क्रियावत्त्वोपचारात् । स्यान्मतं, न शब्दपर्यायः श्रोत्रग्राह्यो द्रव्यं साध्यते किं तु तदाश्रयः पुद्गलविशेष इति, तर्हि क्रियावद्रव्यपर्यायः शब्दः परमार्थतः साध्यः । स्यादाकूतं ते; न द्रव्यं शब्दः साध्यते, नापि सर्वथा पर्यायं । किं तर्हि ? द्रव्यपर्यायात्मा, ततो न कश्चिद्दोषः क्रियावत्त्वस्य हेतोरपिं परमार्थतस्तत्र सिद्धेः अनुवातप्रतिवाततिर्यग्वातेषु शब्दस्य प्रतिपत्त्यप्रतिपत्तीषत्प्रतिपत्तिदर्शनात् क्रियाक्रियावत्त्वसाधनादिति । किमेवं गंधादिर्द्रव्यपर्यायात्मा न साध्यते ? ' द्रव्यपर्यायात्मार्थ' इत्यकलंकदेवैरभिधानात् स्पर्शादीनां चेंद्रियार्थत्वकथनात्, स्पर्शरसरूपगंधशब्दास्तदर्था इति सूत्रसद्भाव पर्यायार्थप्राधान्यात् पर्याय एव गंधादयः शब्दस्तथा किमपर्यायः शब्दो ! द्रव्यार्थादेशात् द्रव्यमिति चेत्, तर्हि तथा विशेषणं कर्तव्यं । स्याद्द्रव्यं शब्द इति तदप्रयुक्तमपि वा तत्रैषितव्यं । ततो नैकांतेन द्रव्यं शब्दः स्याद्वादिनां सिद्धो यतस्तस्य द्रव्यत्वप्रतिषेधेपसिद्धांतः तस्यामूर्तद्रव्यत्वप्रतिषेधाद्वा न दोषः कश्चिदवतरति । कश्चिदाह-स्फोटोऽर्थप्रतिपत्तिहेतुर्न ध्वनयस्तेषां प्रत्येकं समुदितानां वार्थप्रतिपत्तिनिमित्ततानुपपत्तेः । देवदत्तादिवाक्ये दकारोच्चारणादेव तदर्थप्रतिपत्तौ शेषशब्दोच्चारणवैयर्थ्यान्न प्रत्येकं तन्निमित्तत्वं युक्तं, दकारस्य वाक्यांतरेपि दर्शनात् । संशयनिरासार्थं शब्दांतरोच्चारणमुचितमेवेति चेन्न, आवृत्त्या वाक्यार्थप्रतिपत्तिप्रसंगात् । वर्णातरेपि तस्यैवार्थस्य प्रतिपादनात् । न च समुदितानामेव वाक्यार्थप्रतिपत्तिहेतुत्वं प्रतिक्षणं विनाशित्वे समुदायासंभवात् । कल्पितस्य तत्समुदायस्य तद्धेतुत्वेतिप्रसंगात् । नित्यत्वाद्वर्णानां समुदायः संभवतीति चेत् न, अभिव्यक्तानां तेषां क्रमवृत्तित्वात्तदभिव्यंजकवायूनामनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org