________________
.
पञ्चमोऽध्यायः ।
त्यत्वात् क्रमभावित्वात् क्रमशस्तदभिव्यक्तिसिद्धेः । तेषामनभिव्यक्तानामर्थप्रतिपत्तिहेतुत्वे तदभिव्यंजकव्यापारवैयर्थ्यादतिप्रसंगाच्च । तत एवाभिव्यक्तानभिव्यक्तशब्दसमूहादर्थप्रतिपत्तिरिति प्रतिव्यूढं । पूर्वपूर्ववर्णज्ञानाहितसंस्कारापेक्षादत्यवर्णश्रवणाद्वाक्यार्थप्रतिपत्तिरिति चेन्न तत्संस्काराणामनित्यत्वेंत्यवर्णश्रवण
Jain Education International
४२५
काले सत्त्वविरोधादसत्तोपेक्षानुपपत्तेः । कल्पनारोपित संस्कारापेक्षायां कल्पनारोपितादेव वाक्यार्थप्रतिपतिप्रसंगात् तत्संस्काराणां कालांतरस्थायित्वेंत्यवर्णश्रवणाहितसंस्कारस्य पूर्ववर्णश्रवणा हितसंस्कारैः सहाप्रतिपत्तिहेतुत्वमिति तत्संस्कारसमूहोऽर्थप्रतिपत्तिहेतुर्न शब्द इत्यायातं । न चैतद्युक्तं, वर्णश्रवणाहितसंस्कारेभ्यो वर्णस्मरणमात्रस्यैवोपपत्तेः पदश्रवणाहितसंस्कारेभ्यः पदस्मरणमात्रवत् । अथ संकेतबलो - पजातपदाभिधेयज्ञानाहित संस्कारेभ्योर्थप्रतिपत्तिरिष्यते तथा हि पदार्थप्रतिपत्तिरेव स्यान्न वाक्यार्थप्रतिपत्तिः । न च पदार्थसमुदायप्रतिपत्तिरेव वाक्यार्थप्रतिपत्तिरिति युक्तं, वर्णार्थसमुदायप्रतिपत्तेरेव पदार्थप्रतिपत्तिरूपत्वप्रसंगात् । न च वर्णानामर्थवत्त्वाभावे पदस्यार्थवत्त्वं घटते, तस्य प्रकृतिप्रत्ययादिसमुदायात्मकत्वात् प्रकृत्यादीनां च अर्थवत्त्वोपगमात् । यदि पुनः प्रकृत्यादयः स्वार्थापेक्षयार्थवंतोपि पदार्थापेक्षया निरर्थका एवेति मतं तदा पदान्यपि स्वाभिधेयापेक्षयार्थवत्यपि वाक्यार्थापेक्षया निरर्थकानि किं न भवेयुः ? तदुक्तं - " ब्राह्मण्यार्थे यदा नास्ति कश्चिद्ब्राह्मण्यकंवले । देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥” इति । तथा च न पदार्थसमुदाय एव वाक्यस्यार्थस्तस्य ततोन्यत्वादेकत्वे प्रतीयमानत्वादभ्यं जनक्रियादेर्देवदत्तादिवाक्यार्थत्वात् । न च तस्य वर्णेभ्य इव पदेभ्योपि विप्रतिपत्तिः संभवतीति तत्प्रतिपत्तिहेतुर्वर्णपदव्यतिरिक्तः कश्चिद्वस्त्वात्माभ्युपगंतव्यः । स च स्फोट एव, स्फुटत्यर्थोऽस्मादिति स्फोट इति तस्यैकरूपता पुनरेकाकारप्रतिभासादवसीयते नानाकारेभ्यो हेतुभ्यस्तदयोगादहेतुकत्वप्रसंगादिति । सोप्ययं स्फोटवादी प्रष्टव्यः, किमयं स्फोटः शब्दात्मकोऽशब्दात्मको वा ? इति । न ताव - दाद्यः पक्षः श्रेयान् ; तस्य स्फोटस्य शब्दात्मनः सदैकस्वभावस्याप्रतीतेः वर्णपदात्मनो नानास्वभावस्या - वभासनात्, वर्णपदेभ्यो भिन्नस्यैकस्वभावस्यैव शब्दस्य श्रोत्रबुद्धौ प्रतिभासनादसिद्धा स्वभावानुपलब्धिः । स्वभावविरुद्धोपलब्धिर्वा न स्फोटाभावसाधनीति चेत् न, तस्य वर्णपदश्रवणकाले पश्चाद्वा प्रतिभासाभावात् । स हि यदि तावदाख्यातशब्दः प्रतिभासन एव वाक्यात्मा तदा नैकखभावोऽनेकवर्णात्मकत्वात् । भिन्न एवाख्यातशब्दोऽभ्याजेत्यादिवर्णेभ्य इत्ययुक्तं, तथा प्रतीत्यभावात् । वर्णव्यंग्योंत्यवर्णश्रवणानंतरमेकः प्रतीयत एवेति चेन्न, वर्णानां प्रत्येकं समुदितानां वा स्फोटाभिव्यक्तौ हेतुत्वाघटनादर्थप्रतिपत्ताविव सर्वथा विशेषाभावात् । यदि पुनः कथंचिद्वर्णाः स्फोटाभिव्यक्तिहेतवः स्युस्तदा तथैवार्थप्रतिपत्तिहेतवः संतु किमनया परंपरया ? वर्णेभ्यः स्फोट स्याभिव्यक्तिस्ततोभिव्यक्तादर्थप्रतिपत्तिरिति कथंचिदव्यतिरिक्तः स्फोटो वर्णेभ्य इति तस्य श्रोत्रबुद्धौ प्रतिभासनोपगमे कथमेकानेकखभावोसौ न स्यात् ? सुखदुःखादिपर्यायात्मकात्मवत् । नवपुराणादिविशेषात्मकत्वसंबंधात् । भाषावर्गणापुद्गलद्रव्यं हि खसहकारिविशेषवशादकाररूपतामासाद्य भकारादिरूपता मासादयत् क्रमशः प्रतिनियतवक्तृविशेषादिरभ्याजेत्यादिराख्यातशब्दः प्रतिभासते न चासौ वाक्यं देवदत्तादिपदनिरपेक्षस्तदुच्चारवैयर्थ्यापत्तेः । सत्तापक्षस्य
वाक्यत्वे देवदत्त गामभ्याज शुक्लां दंडेनेत्यादि कथंचित्पदात्मकं वाक्यमेकानेकस्वभावमाख्यातशब्दवदभिधातव्यं, तन्निराकृतौ क्षणक्षयैकतावलंबनप्रसंगात् । क्रमभुवां केषांचिद्वर्णानां वास्तवैकपदत्वाभावे क्षणिकवर्णभागानामपि पारमार्थिकैकवर्णत्वासिद्धेस्तथोपगमे वांतर्बहिश्चात्मनो घटादेश्व क्रमभाव्य नेकपर्यायात्मकस्याभावानुषंगात् । ततस्तद्भावमभ्युपगच्छता क्षणिकानेक क्रमवृत्तिवर्णभागात्मकमेकं वर्णमभ्युपेयं, तद्वदनेकक्रमवत्सवर्णात्मकमेकं पदं तादृशानेकपदात्मकं च वाक्यमेषितव्यं । ततो नाख्यातशब्दो
५४
For Private & Personal Use Only
-
www.jainelibrary.org