________________
तत्त्वार्थश्लोकवार्तिके
[ सू० २४
वाक्यात्मैकस्वभाव एव कथंचिदनेकस्वभावस्य तस्य प्रतीतेः । एतेन पदमाद्यमंत्यं चान्यद्वा पदांतरापेक्षं वाक्यमेकस्वभावमिति निरस्तं, तस्याप्याख्यातशब्दवत्कथंचिदनेकस्वभावस्य प्रतिभासनात् । एकोनवयवः शब्दो वाक्यमित्ययुक्तं, तस्य सावयवस्य प्रतिभासनात् । तस्य चावयवेभ्यो नर्थांतरत्वेऽनेकत्वमेव स्यात्, तदर्थीतरत्वे संबंधासिद्धिः उपकारकल्पनायां वाक्यस्यावयव कार्यत्वप्रसंगस्तैरुपकार्यत्वादवयवानां वा वाक्यकार्यता तेनोपक्रियमाणत्वात् उपकारस्य ततोर्थीतरत्वे संबंधासिद्धिरनुपकारात् तदुपकारांतरकल्पनायामनवस्थाप्रसंग इति वाक्यतदवयवाभेदभेदैकांतवादिनामुपालंभः । स्याद्वादिनां यथाप्रतीति कथंचित्तदभेदोपगमात् एकानेकाकारप्रतीतेरेका नेकात्मकस्य जात्यंतरस्य व्यवस्थितेः । न हि वाक्यश्रवणानंतरमनेकाकारप्रतीतिवत्सर्वदा सर्वत्र सद्भावप्रसंगात् । नापि वर्णपदमात्र हेतुका तदाकारत्वप्रसंगा - पदप्रतीतिवत् । ततो वाक्याकारपरिणतशब्दद्रव्यहेतुका वाक्यप्रतीतिवच्च तथा परिणतशब्दद्रव्यमेकानेकाकारं परमार्थतः सिद्धं बाधकाभावात् । कथं नानाभाषावर्गणापुद्गलपरिणामवर्णानामेकद्रव्यत्वमिति चेत्, तत्रोपचारान्नानाद्रव्यादिसंतानवत् । किं पुनस्तदनेकत्वोपचारनिमित्तमिति चेत्, तथा सदृशपरिणाम एव तद्वत् वर्णक्रमो वाक्यमित्यपरः । सोपि वर्णेभ्यो भिन्नमेकखभावं क्रमं यदि ब्रूयात्तदा प्रतीतिविरोधः तस्य श्रोत्रबुद्धावप्रतिभासनात् । तत्संबंधानुपपत्तेश्चानवयववाक्यवत् । वर्णेभ्योनतरत्ववत् क्रमस्य वर्णा एव न कश्चित्क्रमः स्यात् । सत्यमेतदेवं, यावंतो यादृशा ये च पदार्थप्रतिपाद वर्णा विज्ञातसामर्थ्यास्ते तथैव बोधका इति वचनात् ततोन्यस्य वाक्यस्य निराकरणादितीतरः । सोपि यदि वर्णानां क्रमं प्रत्याचक्षीत तदाग्निष्टोमेन यजेत स्वर्गकाम इत्याकारादयो ये यावंतश्च वर्णाः खेष्टवा - क्यार्थप्रतिपादने विज्ञातसामर्थ्यास्ते तावंत एव वेत्युद्गमेनापि समुच्चार्यमाणास्तथा स्युर्विशेषाभावात् । अथ येन क्रमेण विशिष्टास्ते तथा दृष्टास्तादृशा एव तदर्थस्यावबोधका इति मतं, तहींष्टः क्रमो वर्णानामन्यथा तेन विशेषणाघटनात् वर्णाभिव्यक्तेः क्रमो वर्णानां तेषामक्रमत्वात् । उपचारात्तु तस्य तत्र भावात्तद्विशेषणत्वमुपपद्यत एवेति चेन्न, एकांतनित्यत्वे वर्णानामभिव्यक्तेः सर्वथानुपपत्तेः उत्पत्तिसमर्थनात्तत्र मुख्यक्रमस्य प्रसिद्धेः । कः पुनरयं क्रमो नाम वर्णानामिति चेत्, कालकृता व्यवस्थेति ब्रूमः । कथमसौ वर्णानामिति चेत्, वर्णोपादानादुदात्ताद्यवस्थावत् । तपाधिकः क्रमो वर्णानामिति चेन्न, उदात्ताद्यवस्थानामप्यौपाधिकत्वप्रसंगात् । औपाधिक्युदात्ताद्यवस्था एव वाचो वर्णत्वात् ककारादिवदिति चेन्न, तेषां स्वयमनंशत्वासिद्धेः । स्वभावतस्तथात्वोपपत्तेरन्यथा ध्वनीनामपि स्वाभाविकोदात्तत्वाद्ययोगात् । ततः स्वकारणविशेषवशात् क्रमविशेषविशिष्टानामकारादिवर्णानामुत्पत्तेः कथंचिदनर्थांतरक्रमः । स च सादृश्यसामान्यादुपचारादेकः, प्रतिनियतविशेषाकारतया त्वनेक इति स्याद्वादिनामेकानेकात्मकः क्रमोपि वाक्यं न विरुध्यते । वर्णसंघातो वाक्यार्थप्रतिपत्तिहेतुर्वाक्यमित्यन्ये; तेषामपि न वर्णेभ्यो भिन्नः संघातोनंशः प्रतीतिमार्गावतारी, संघातत्व विरोधादवर्णोतरवत् । नापि ततोऽनर्थौतरमेव संघातः प्रतिवर्णसंघातप्रसंगात् । न चैको वर्णः संघातो भवेत् । कथंचिदन्योन्यखवर्णेभ्यः संघात इति चेत्, कथमेकानेकखभावो न स्यात् ? कथंचिदनेकवर्णादभिन्नत्वादने कस्तत्वात्मवत् । संघातत्व परिणाम देशाततो भिन्नत्वादेकः स्यादिति प्रतीतिसिद्धेः । एतेन संघातवर्तिनी जातिर्वाक्यमिति चिंतितं, तस्याः संघातेभ्यो भिन्नायाः सर्वथानुत्पत्तेः । कथंचिदभिन्नायास्तु संघातवदेकानेकस्वभावत्वसिद्धेर्नानंशः शब्दात्मा कश्चिदेको वाक्यस्फोटोस्ति श्रोत्रबुद्धौ जात्यंतरस्यार्थप्रतिपत्तिहेतोः प्रतिभासनात् एकानेकात्मन एव सर्वात्मना वाक्यस्य सिद्धेः । यदि पुनरंतः प्रकाशरूपः शब्दस्फोट : पूर्ववर्णज्ञानाहितसंस्कारस्यात्मनोंत्यवर्णश्रवणानंतरं वाक्यार्थनिश्चय हेतुर्बुद्ध्यात्मा ध्वनिभ्योऽन्योभ्युपगम्यते, स्फुटत्यर्थोस्मिन् प्रकाशत
४२६
Jain Education International
For Private & Personal Use Only
L
www.jainelibrary.org