________________
.
पञ्चमोऽध्यायः ।
इति स्फोट इत्यभिप्रायात् ; तदाप्येतस्यैकानेकात्मकत्वे स्याद्वादसिद्धिरात्मन एव वाक्यार्थग्राहकत्वपरितस्य भाववाक्यस्य संप्रत्ययात्, तस्य स्फोट इति नामकरणे विरोधाभावात् । तस्य निरंशत्वे तु प्रतीतिविरोधः, सर्वदा तस्यैकानेकस्वभावस्य त्रिधांशकस्य प्रतिभासनात् । न चायमभिनिवेशः शब्दस्फोट इति श्रेयान् गंधादिस्फोटस्य तथाभ्युपगमार्हत्वात् । यथैव शब्दः वक्तसंकेतस्य क्वचिदर्थप्रतिपत्तिहेतुस्तथा गंधादिरपि, विशेषाभावात् । एवंविधमेव गंध समाघ्रायेत्थमेवंविधोर्थः प्रतिपत्तव्यः स्पर्श स्पृश्य रसं वाखाद्य रूपं वालोक्येत्थंभूतमीदृशो भावः प्रत्येतव्य इति समयग्राहिणां पुनः क्वचित्तादृशगंधाद्युपलंभात्तथाविधार्थनिर्णयप्रसिद्धेर्गेधादिज्ञाना हितसंस्कारस्यात्मनस्तद्वाक्यार्थप्रतिपत्तिहेतोर्गंधादिपदस्फोट तोपपत्तेः । पूर्वपूर्वगंधादिविशेषज्ञानाहितसंस्कारस्यात्मनोंत्यगंधादिविशेषोपलंभानंतरं गंधादिविशेषसमुदाय - गम्यार्थप्रतिपत्तिहेतोर्गंधादिवाक्यस्फोटत्वघटनात् । तथा लोकव्यवहारस्यापि कर्तुं सुशकत्वात् कायज्ञप्तिवत् । हस्तपादकरणमात्रिकांगहारादिस्फोटवद्वा हस्तादिपदादिस्फोट एवं घटते न पुनः खावयवक्रियाविशेषाभिव्यंग्यो हंसपक्ष्मादिर्हस्तस्फोटः स्वाभिधेयार्थप्रतिपत्तेर्हेतुरिति खल्पमतिसंदर्शनमात्रं । एतेन वित्कुटितादिः पादस्फोटो हस्तपादसमायोगलक्षणः करणस्फोटः करणद्वयरूपमात्रिका सहस्रलक्षणोंगहारादिस्फोटश्च न घटत इति वदन्ननवधेयवचनः प्रतिपादितो बोद्धव्यः, तस्यापि खखावयवाभिव्यंग्यस्य स्वाभिधेयार्थप्रतिपत्तिहेतोरशक्यनिराकरणात् । न चैवं स्याद्वाद सिद्धांतविरोधः श्रोत्रमतिपूर्वस्येव प्राणादिमतिपूर्वस्यापि श्रुतज्ञानस्येष्टत्वात् तत्परिणतात्मनस्तद्धेतोः स्फोट इति संज्ञाकरणात् गंधादिभिः कस्यचिदसंबंधाभावात् तत्र तदुपलंभनिमित्तकप्रत्ययानुपपत्तेर्न तथा परिणतो बुद्ध्यात्मा स्फोट: संभवतीति चेत्, तत एव शब्दस्फोटोपि मास्म भूत् शब्दस्यार्थेन सह योग्यतालक्षणसंबंधसद्भावात् तत्संभवे तत एवेतरसंभवः । गंधादीनामर्थेन सह योग्यताख्य संबंधाभावे संकेतसहस्रेपि ततस्तत्प्रतीत्ययोगाच्छब्दतः शब्दार्थवत्प्रतिपत्तुरगृहीतसंकेतस्य शब्दस्य श्रवणात् किमयमाहेति विशिष्टार्थे संदेहेन प्रश्नदर्शनादर्थ - सामान्यप्रतिपत्तिसिद्धेः । शब्दसामान्यस्यार्थसामान्येन योग्यता संबंध सिद्धिरिति चेत्, तत एव रूपादिसामान्यस्य खदर्थ्यार्थसामान्येन योग्यतासिद्धिरस्तु स्वयमप्रतिपन्नसंकेतस्यांगुल्यादिरूपदर्शने केनचित्कृते किमयमाहेति विशिष्टार्थे संशयेन प्रश्नोपलंभादर्थसामान्यप्रतिपत्तिसिद्धेरविशेषात् । तदेवं शब्दस्येवार्थे गंधादीनां प्रतिपत्तिं कुर्वतामाक्षेपसमाधानानां समानत्वादतः प्रकाशरूपे बुद्ध्यात्मनि स्फोटे शब्दादन्यस्मिन्नुपगम्यमाने गंधादिभ्यः परं स्फोटोर्थप्रतिपत्तिहेतुर्घाणादींद्रिय मतिपूर्वश्रुतज्ञानरूपोभ्युपगंतव्योऽन्यथा शब्दस्फोट|व्यवस्थितिप्रसंगात् । स च नैकस्वभावो नानास्वभावतया सदावभासनात् । एतेनानुसंहति - र्वाक्यमित्यपि चिंतितं, पदानामनुसंहतेर्बुद्धिरूपतया प्रतीतेरनुसंधेयमाणानामेकपदाकारायाः सर्वथैकखभावत्वाप्रतीतेः । अत्रापरे प्राहु:-न पदेभ्योऽर्थांतर मेकखभावमेकानेकखभावं वा वाक्यमाख्यातशब्दरूपं पदांतरापेक्षं, नापि पदसंघातवर्तिजातिरूपं वा न चैकानवयवशब्दरूपं क्रमरूपं वा, नापि बुद्धिरूपमसंहृतिरूपं वा न चाद्यपदरूपमंत्यपदरूपं वा, पदमात्रं वा पदांतरापेक्षं यथा व्यावर्ण्यतेऽन्यैः । "आख्यातशब्दसंघातो जातिः संघातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहति । पदमाद्यपदं चांत्यं पदसापेक्षमित्यपि । वाक्यं प्रतिमितिर्भिन्ना बहुधा न्यायवेदिना" मिति । किं तर्हि ? पदान्येव पदार्थप्रतिपादनपूर्वकं वाक्यार्थावबोधं विदधानानि वाक्यव्यपदेशं प्रतिपद्यते तथा प्रतीतेरिति तेषामपि यदि पदांतरार्थैरन्वितानामेवार्थानां पदैरभिधानात् पदार्थप्रतिपत्तिर्वाक्यार्थावबोधः स्यात्तदा देवदत्तपदाद्देवदत्ता - र्थस्य गामभ्याजेत्यादिपदवाक्यैरर्थैरन्वितस्याभिधानात् तदुच्चारणवैयर्थ्यमेव वाक्यार्थावबोधसिद्धेः । स्वयमविवक्षितपदार्थान्यवच्छेदार्थत्वान्न गामित्यादिपदोच्चारणवैयर्थ्यमिति चेत्, किमेवं 'स्फोटवादिनः प्रथम
Jain Education International
For Private & Personal Use Only
४२७
www.jainelibrary.org