________________
तत्त्वार्थश्लोकवार्तिके
[ सू० २४
पदेनानवयवस्य वाक्यस्फोटस्याव्यक्तावपि व्यत्त्यंतराहितव्यंजक पदव्यवच्छेदार्थस्य पदांतरोच्चारणमनर्थकमुच्यते ? यतस्तदेव पदैरभिव्यक्तं ततोऽन्यदेवार्थप्रतिपत्तिनिमित्तं न भवेत् । तथा सत्यावृत्त्या सत्या वाक्याभिव्यक्तिप्रसंगः पदांतरैस्तस्याः पुनः प्रकाशनादिति चेत्, तवाप्यावृत्त्या वाक्यार्थावबोधः स्यात् । प्रथमपदेनाभिहितस्यार्थस्य द्वितीयादिपदार्थाभिधेयैरन्वितस्य द्वितीयादिपदैः पुनः पुनः प्रतिपादनात् । अथ द्वितीयपदेन खार्थस्य प्रधानभावेन पूर्वोत्तरपदवाक्यैरर्थैरन्वितस्याभिधानात् प्रथमपदाभिधेयस्य तथानभिधानात् नावृत्त्या तस्यैव प्रतिपत्तिरिति मतं, तर्हि यावंति पदानि तावंतस्तदर्थाः पदांतराभिधेयान्विताः प्राधान्येन प्रतिपत्तव्या इति तावत्यो वाक्यार्थप्रतिपत्तयः कथं न स्युः ? न ह्येतपदोच्चारणात्तदर्थस्याशेषपूर्वपदाभिधेयैरन्वितस्य प्रतिपत्तिर्वाक्यार्थावबोधो भवति न पुनः प्रथमपदोच्चारणात्तदर्थस्योत्तरपदाभिधेयैरन्वितस्य प्रतिपत्तिर्द्वितीयादिपदोच्चारणाच्च शेषपदाभिधेयैरन्वितस्य तदर्थस्य प्रतिपत्तिरित्यत्र किंचित्कारणमुपलभामहे । एतेनावृत्त्या पदार्थप्रतिपत्तिप्रसंग उक्तः । द्वितीयादिपदेन स्वार्थस्य च पूर्वोत्तरपदार्थानामपि प्रतिपादनादन्यथा तैस्तस्यान्वितत्वायोगात् गम्यमानैस्तैस्तस्यान्वितत्वं न पुनरभिधीयमानैरिति चेत्, स किमिदानीमभिधीयमान एव पदस्यार्थो गम्यमानः ? तथोपगमे कथमन्विताभिधानं ? विवक्षितपदस्य पदांतराभिधेयानां गम्यमानानां विषयत्वात्तैरन्वितस्य स्वार्थस्य प्रतिपादने सामर्थ्याभावात् । यदि पुनः पदानां द्वौ व्यापारौ स्वार्थाभिधाने व्यापारः पदार्थांतरे गमकत्वव्यापारश्च तदा कथं न पदार्थप्रतिपत्तिरावृत्त्या प्रसज्यते ? पदव्यापारात् प्रतीयमानस्य गम्यमानस्यापि पदार्थत्वादभिधीयमानार्थवत् । न च पदव्यापारात् प्रतीयमानोर्थो गम्यमानो युक्तः कश्विदेवाविशेषात् । स्यान्मतं, पदप्रयोगः प्रेक्षावता पदार्थप्रतिपत्त्यर्थो वाक्यार्थप्रतिपत्त्यर्थो वा क्रियेत ? न तावत्पदार्थप्रतिपत्त्यर्थस्तस्य प्रवृत्तिहेतुत्वाभावात् । कः पिकः ? कोकिल इत्यादि केवलपदप्रयोगस्यापि वाक्यार्थप्रतीतिनिमित्तत्वात् कः पिक उच्यते ? कोकिल उच्यते इति प्रतीतेः । यदि तु वाक्यार्थप्रतिपत्त्यर्थः पदप्रयोगस्तदा पदप्रयोगानंतरं पदार्थे प्रतिपत्तिः साक्षाद्भवतीति तत्र पदस्याभिधा व्यापारः पदांतरार्थस्यापि प्रतिपत्तये तस्याप्रयोगात् तत्र गमकत्वव्यापार इति तदप्यसत्, पादप इति पदस्य प्रयोगे शाखादि मदर्थस्यैव प्रतिपत्तिस्तदर्थाच्च प्रतिपन्नात्तिष्ठत्यादिपदवाच्यस्य स्थानाद्यर्थस्य सामर्थ्यतः प्रतीतेस्तत्र पदस्य साक्षाद्यापाराभावाद्गमकत्वायोगात् तदर्थस्यैव तद्गमकत्वात् । परंपरया तस्य तत्र व्यापारे लिंगवचनस्य लिंगप्रतिपत्तौ व्यापारोस्तु । तथा सति शाब्दमेवानुमानज्ञानं भवेत् लिंगवाचकाच्छब्दाल्लिंगस्य प्रतिपत्तेः । सैव शाब्दी न पुनस्तत्प्रतिपत्तिषु लिंगादनुमेयप्रतिपत्तिरतिप्रसंगादिति चेत्, तत एव पादपस्थानाद्यर्थप्रतिपत्तिर्भवंती शाब्दी मा भूत्, तस्याः खार्थप्रतिपत्तावेव पर्यवसितत्वाल्लिंगशब्दवत् । कथमेवं गम्यमानः शब्दस्यार्थः स्यादिति चेत्, न कथमपीति कश्चित् तस्यापि वाक्यार्थावसायो न शाब्दः स्यात् गम्यमानस्याशब्दार्थत्वात् वाच्यस्यैव शब्दार्थत्वज्ञानात् द्योत्यविषयभूतयोरपि वाच्यत्वात् शब्दमूलत्वात् वाक्यार्थावबोधः शाब्द इति चेत्, तत एवागम्यमानोर्थः शब्दस्यास्तु । पादपशब्दोच्चारणानंतरं शाखादिमदर्थप्रतिपत्तिवत्तत्स्थानाद्यर्थस्यापि गतेरिति स एवावृत्त्या पदार्थाप्रतिपत्तिप्रसंगोन्विताभिधानवादिनः पदस्फोटवादिवत् । किं च, विशेष्यपदं विशेष्यविशेषणसामान्येनान्वितं विशेषणविशेषेण वाभिधत्ते तदुभयेन वा ? प्रथमपक्षे विशिष्टवाक्यार्थ प्रतिपत्तिविरोधः । परापरविशेषण विशेष्य पदप्रयोगातदविरोध इति चेत्, तर्ह्यभिहितान्वयप्रसंग ः । द्वितीयपक्षे पुनः निश्चयासंभवः प्रतिनियत विशेषणस्य शब्देनानिर्दिष्टस्य खोक्तविशेषेन्वयसं शीतेर्विशेषणांतराणामपि संभवात् । वक्तुरभिप्रायात् प्रतिनियतविशेषणस्य तत्रान्वयनिर्णय इति चेन्न यं प्रति शब्दोच्चारणं तस्य तदनिर्णयादात्मानमेव प्रति
1
-४२८
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org