________________
पञ्चमोऽध्यायः।
४२९ वक्तुः शब्दोच्चारणार्थक्यात् । तृतीयपक्षे तु उभयदोषानुषंगः । एतेन क्रियासामान्येन क्रियाविशेषण तदुभयेन चान्वितस्य साधनसामान्यस्याभिधानं निरस्तं, क्रियायाश्च साधनसामान्येन साधनविशेषेण तदुभयेन वान्वितयोः प्रतिपादनमाख्यातं, ततो न प्रतिपाद्यबुद्धावन्वितानां पदार्थानामभिधानं प्रतीतिविरोधात् । प्रतिपादकबुद्धौ तु तेषामन्वितत्वप्रतिपत्तावपि नान्विताभिधानसिद्धिस्तत्र तेषां परेणाभिहितानामन्वयात् । अत एवाभिहितान्वयः श्रेयानित्यन्ये, तेषामप्यभिहिताः पदार्थाः शब्दांतरेणान्वीयंते बुद्ध्या वा ? न तावदाद्यः पक्षः, शब्दांतरस्याशेषपदार्थविषयस्य कस्यचिदनिष्टेः । द्वितीयपक्षे तु बुद्धिरेव वाक्यं स्यान्न पुनः पदान्येव, ततो वाक्यार्थाप्रतिपत्तेः पदार्थेभ्योपेक्षाबुद्धिसंनिधात् परस्परमन्वि. तेभ्यो वाक्यार्थप्रतिपत्तिः । परंपरया पदेभ्य एव भावान्न ततो व्यतिरिक्तं वाक्यमस्तीति चेत् , तर्हि प्रकृतिप्रत्ययेभ्यः प्रकृतिप्रत्ययार्थाः प्रतीयंते तेभ्योपेक्षाबुद्धिसंनिधानादन्योन्यमन्वितेभ्यः पदार्थप्रतिपत्ति. रिति प्रकृत्यादिव्यतिरिक्तं पदमपि मा भूत् , प्रकृत्यादीनामन्वितानामभिधानमभिहितानामन्वये पदार्थप्रतिपत्तिसिद्धेः । स्यान्मतं, पदमेव लोके वेदे वार्थप्रतिपत्तये प्रयोगार्ह न तु केवला प्रकृतिः प्रत्ययो वा पदादयो वांत्यतदुत्पादनार्थ यथाकथंचित्तदभिधानात्तत्त्वतस्तदभावः । तदुक्तं । अथ गौरित्यत्र कः शब्द ? गकारौकारविसर्जनीया इति भगवान् पवर्ष इति । यथैव हि वर्णोनंशः प्रकल्पितमात्राभेदस्तथा गौरिति पदमप्यनंशमपोद्धृत्य गकारादिभेदं स्वार्थप्रतिपत्तिमवसीयते इति । तदप्यनालोचितवचनं, वाक्यस्यैवं तात्त्विकत्वसिद्धेस्तयुत्पादनार्थ ततोपोद्धृत्य पदानामुपदेशाद्वाक्यस्यैव लोके शास्त्रे वार्थप्रतिपत्तये प्रयोगार्हत्वात् । तदुक्तं । “द्विधा कैश्चित्पदं भिन्नं चतुर्धा पंचधापि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिति ॥” ततः प्रकृत्यादिभ्योवयवेभ्यः कथंचिद्भिन्नमभिन्नं च पदं प्रातीतिकमभ्युपगंतव्यं न पुनः सर्वथानंशवर्णवत्तद्राहकाभावात् । तद्वत्पदेभ्यः कथंचिद्भिन्नं च वाक्यं प्रतीतिपदमास्कंददुपगम्यतां न च द्रव्यरूपं भावरूपं वा । एकानेकखभावं चिंतितप्रायमिति स्थितमेतच्छब्दवतः पुद्गला इति । शब्दस्य वर्णपदवाक्यरूपस्यान्यस्य च पुद्गलस्कंधपर्यायत्वसिद्धेराकाशगुणत्वेनामूर्तद्रव्यत्वेन स्फोटात्मतया वा विचार्यमाणस्यायोगात् ॥ कः पुनर्बधः? पुद्गलपर्याय एव प्रसिद्धो येन बंधवंतः पुद्गला एव स्युरित्यारेकायामिदमाह;
बंधो विशिष्टसंयोगो व्योमात्मादिष्वसंभवी । पुद्गलस्कंधपर्यायः सक्तुतोयादिबंधवत ॥ ६॥
द्रव्ययोरप्राप्तिपूर्विका प्राप्तिः संयोगः स चाबाधितसंयुक्तप्रत्ययात्प्रसिद्धः, संयोगमंतरेण तस्यानुपपत्तेः । प्रत्यक्षतः कचित्संयुक्तप्रत्ययोऽसिद्धस्तस्य तत्पृष्टभाविविकल्परूपत्वादिति चेत् न, अगृहीतसंकेतस्यापि प्रत्तिपत्तुः शब्दयोजनामंतरेण खार्थव्यवसायात्मनि प्रत्यक्षे संयुक्तप्रत्ययप्रसिद्धेनिर्विकल्पकप्रत्यक्षस्य सर्वथा निराकृतत्वात् । तथा दृष्टे कचित्संयोगे संयुक्तविकल्पो युक्तो नीलप्रत्ययवत् तस्यासत्यत्वप्रसंगात् । न चासावसत्यो बाधकाभावात् । ननु च संयुक्तप्रत्ययः सत्यस्तद्विषयस्य वृत्तविकल्पानवस्थादिदोषदूषितत्वादवयविप्रत्ययवदित्येतदस्ति तद्बाधकं । तथाहि-संयोगः खाश्रये वर्तमानो यद्येकदेशेन वर्तते तदा सावयवः स्यात् , खावयवेषु च खतो भिन्नेषु तस्यैकदेशांतरेण वृत्तौ परापरदेशकल्पनेऽनवस्था । सर्वात्मना प्रत्येकं तत्र तस्य वृत्तौ संयोगानेकत्वप्रसंगस्तथा सत्येकैकस्मिन् संयोगे संयोगप्रत्ययप्रसंगः । सकृदने कसंयुक्तप्रत्ययप्रसंगश्च । नैकदेशेन वर्तते नापि सर्वात्मना । किं तर्हि ? वर्तत एवेति चायुक्तं, प्रकारांतरेण कचित्कस्यचिद्वर्तमानस्यादृष्टेः खाश्रयाभिन्नरूपस्तत्संयोगिना चैव प्रत्यासनतयोत्पत्तौ न ततोर्थातरं किंचिदित्येकांतवादिनामुपालंभो न पुनः स्याद्वादिनां, तेषां खाश्रयात्कथंचिदिन्नस्य संयोगस्याभिमतत्वात् संयोगव्यतिरेकेणानुपलब्धेः संयोगस्य तद्भिन्नत्वसिद्धेः, प्राक् पश्चाच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org