________________
तत्त्वार्थश्लोकवार्तिके
[ सू० २५
तदाश्रयद्रव्यसद्भावेपि संयोगस्याभावात्ततो भेदस्यापि प्रतीतिविरोधाभावात् । नन्वसंयुक्तद्रव्यलक्षणाभ्यामुपसर्पणाप्रत्ययवशात्संयुक्तयोस्तयोरुत्पत्तेर्नापरः संयोगोवभासत इति चेन्न, तयोर संयुक्त परिणाम त्यागेन संयुक्त परिणामस्य प्रतीतेः । संयुक्तयोः पुनर्विभागपरिणामवत् । यावेव संयुक्तौ तत्तूभयोपलब्धौ तावेव च संप्रति भक्तौ दृश्येते इति प्रत्यभिज्ञानात् संयोगविभागाश्रयद्रव्ययोरवस्थितत्वसिद्धेः । न च प्रत्यभिज्ञानमप्रमाणं तस्य प्रत्यक्षवत्स्वविषये प्रमाणत्वेन पूर्वं समर्थनात् । नन्वेवं प्रसिद्धोपि संयोगः कथं व्योमात्मादिष्वसंभवी विशेषः पुद्गलेषु सिध्येद्यतो बंध : पुद्गलानामेव पर्यायः स्यादिति चेत्, तदेकत्व - परिणामहेतुत्वात्तस्य विशिष्टत्वसिद्धिः सक्ततोयादिबंधवत् । तर्हि यथा सक्ततोयादीनां संयोगः पिंडैकत्वपरिणामहेतुस्तथा व्योमात्मादीनां तेषामेकद्रव्यत्वप्रसंगात् । संयोगमात्रे तु सत्यपि न तत्प्रसंग: । पुरुषतदासरणवत् । ततोति पुद्गलानां बंधस्तदेकत्वपरिणामान्यथानुपपत्तेः कस्यचिदवयवद्रव्यस्यैकस्मादनेकपुद्गलपरिणामस्यासंभवादसिद्धस्तदेकत्वपरिणाम इति चेन्न तस्य प्राक् साधितत्वात् । जीवकर्मणोबैधः कथमिति चेत्, परस्परं प्रदेशानुप्रवेशान्न त्वेकत्वपरिणामात्तयोरेकद्रव्यानुपपत्तेः 'चेतनाचेतनावेतौ बंघं प्रत्येकतां गतौ' इति वचनात्तयोरेकत्वपरिणामहेतुर्बधोस्तीति चेन्न, उपसरतस्तदेकत्ववचनात् । भिन्नौ लक्षणतोत्यंतमिति द्रव्यभेदाभिधानात् । ततः पुद्गलानामेवैकत्वपरिणाम हेतुबंध इति प्रतिपत्तव्यं बाधकाभावात् । स च स्कंधधर्म एव ॥
४३०
तथैवांतरं सौक्ष्म्यं परमाणुष्वसंभवि । स्थौल्यादिवत्प्रपत्तव्यमन्यथानुपपत्तितः ॥ ७ ॥
परमसौक्ष्म्यस्याणुधर्मत्वमणूनां तत एव व्यवस्थानात् सामर्थ्यादपरसौक्ष्म्यं बिल्वाद्यपेक्षया बदरादिषु स्कंधपरिणामः बाचेंद्रियग्राह्यत्वात् । स्थौल्यसंस्थानभेदतमश्छायातपोद्योतवत् शब्दबंधवच व्यणुकादिष्वबाचेंद्रियग्राह्यमपि सौक्ष्म्यं स्कंधपर्याय एवापेक्षिकसूक्ष्मात्मत्वाद्वदरादिसैौक्ष्म्यवत् । एतेन कार्मणशरीरादौ सौक्ष्म्यस्य स्कंधपर्यायत्वं साधितं । तथास्मदादिबायेंद्रियग्राह्याः स्थौल्यादयः सूक्ष्मपर्याय स्थौल्यत्वादस्मदादिबायेंद्रियग्राह्यस्थौल्यादिवत् ॥
अणवः स्कंधाश्च ॥ २५ ॥
प्रदेशमात्रभाविस्पर्शादिपर्यायप्रसवसामर्थ्येनाण्यं ते शब्दयन्ते इत्यणवः सौक्ष्म्यादात्मादय आत्ममध्या आत्मांताश्च । तथा चोक्तं । "आत्मादिमात्ममध्यं च तथात्मांतमतींद्रियं । अविभागं विजानीयात् परमाणुमनंशकं” इति । स्थौल्यात् ग्रहणनिक्षेपणादिव्यापारास्कंदनात् स्कंधा, उभयत्र जात्यपेक्षा बहुवचनं । अणुजात्याधाराणां स्कंधजात्याधाराणां तावंतरतज्जातिभेदानामनंतत्वात् । अणुस्कंधा इत्यस्तु लघुत्वादिति चेन्नोभयत्रसंबंधार्थत्वाद्भेदकरणस्य । स्पर्शरसगंधवर्णवतोणवः, शब्दबंध सौक्ष्म्य स्थौल्य संस्थानभेदतमश्छायातपोद्योतवंतश्च स्कंधा इति । वृत्तौ पुनः समुदायस्यार्थवत्त्वादवयवार्थाभावात् भेदेनाभिसंबंध: कर्तुमशक्यः ॥ किं पुनरनेन सूत्रेण कृतमित्याह;
अणवः पुद्गलाः केचित्स्कंधाचेति निवेदनात् । अण्वेकांतः प्रतिक्षिप्तः स्कंधैकांतश्च तत्त्वतः १ नव एवेत्येकांतः श्रेयान् स्कंधानामक्षबुद्धौ प्रतिभासनात् । तत्र तत्प्रतिभासस्य भ्रांतत्वे बहिरंतश्च परमाणूनामप्रतिभासनान्न प्रत्यक्षमभ्रांतं स्यात् । स्वसंवेदनेपि संवित्परमाणोरप्रतिभासनात् । तथोपगमे सर्वशून्यतापत्तिरनुमानस्यापि परमाणुग्राहिणोसद्भावात् भ्रांतात्प्रत्यक्षतः कस्यचिन्न लिंगस्याव्यवस्थितेः कुतः परमाण्वेकांतवादः पारमार्थिकः स्यात् ? स्कंधैकांतस्तत्त्वतोस्त्वित्यपि न सम्यक्, पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org