________________
पञ्चमोऽध्यायः।
४३१ माणूनामपि प्रमाणसिद्धत्वात् । तथाहि-अष्टाणुकादिस्कंधो भेद्यो मूर्तत्वे सति सावयवत्वात् कलशवत् । योसौ तद्भेदाज्जातोनंशोवयवः स परमाणुरिति प्रमाणसिद्धाः परमाणवः स्कंधवत् ॥
भेदसंघातेभ्य उत्पद्यते ॥ २६ ॥ संहतानां द्वितयनिमित्तवशाद्विदारणं भेदः, विविक्तानामेकीभावः संघातः । द्वित्वाविवचनप्रसंग इति चेन्न, बहुवचनस्यार्थविशेषज्ञापनार्थत्वात्ततो भेदेन संघात इत्यस्याप्यविरोधः । उत्पूर्वः पदिर्जात्यर्थस्तेनोत्पद्यते जायत इत्युक्तं भवति । तदपेक्षो हेतुनिर्देशो भेदसंघातेभ्य इति निमित्तकारणहेतुषु सर्वासां प्रदर्शनाद्भेदसंघातेभ्य उत्पद्यत इति । ननु च नोत्पद्यतेणवोऽकार्यत्वाद्गगनादिवदिति कश्चित् , स्कंधाश्च नोत्पद्यते सत्त्वमेव तेषामाविर्भावादित्यपरः । तं प्रत्यभिधीयते;
उत्पद्यतेणवः स्कंधाः पर्यायत्वाविशेषतः । भेदात्संघाततो भेदसंघाभ्यां वापि केचन ॥१॥ इति सूत्रे बहुत्वस्य निर्देशाद्वाक्यभिद्गतेः । निश्चीयतेन्यथा दृष्टविरोधस्यानुषंगतः ॥२॥ स्कंधस्यारंभका यद्वदणवस्तद्वदेव हि । स्कंधोणूनां भिदारंभनियमस्यानभीक्षणात् ॥३॥
उत्पद्यतेऽणवः पुद्गलपर्यायत्वात् स्कंधवत् । न हि पार्थिवादिपरमाणवोपि पृथिव्यादिद्रव्याण्येव, पृथिव्यादिपरमाणुस्कंधद्रव्यगतिषु पृथिवीत्वादिप्रत्ययहेतोरूर्खतासामान्याख्यस्य पृथिव्यादिद्रव्यस्य व्यवस्थापनात् । ततो न तेषां पर्यायत्वमसिद्धं । परमाणूनां कारणद्रव्यत्वनियमादसिद्धमेवेति चेन्न, तेषां कार्यत्वस्यापि सिद्धेः । यथैव भेदात् संघाताभ्यां च स्कंधानामुत्पत्तेः कार्यत्वं तथाणूनामपि भेदादुत्पत्तेः कार्यत्वसिद्धेरन्यथा दृष्टविरोधस्यानुषंगात् । न हि स्कंधस्यारंभकाः परमाणवो न पुनः परमाणोः स्कंध इति नियमो दृश्यते, तस्यापि भिद्यमानस्य सूक्ष्मद्रव्यजनकत्वदर्शनात् भिद्यमानपर्यंतस्य परमाणुजनकत्वसिद्धेः ॥
भेदादणुः ॥ २७ ॥ सामर्थ्यादवधारणप्रतीतेरेवकारावचनं अब्भक्षवत् । यस्मात्भेदादणुरिति प्रोक्तं नियमस्योपपत्तये । पूर्वसूत्रात्ततोणूनामुत्पादे विदितेपि च ॥१॥
अणवः स्कंधाश्च भेदसंघातेभ्य उत्पद्यते इति वचनात्स्कंधानामिवाणूनामपि तेभ्य उत्पत्तिविधानान्नियमोपपत्त्यर्थमिदं सूत्रं भेदादणुरिति प्रोच्यते । तस्माद्भेदादेवाणुरुत्पद्यते न संघाताद्भेदसंघाताभ्यां वा स्कंधवत् । भेदादणुरेवेत्यवधारणानिष्टेश्च न स्कंधस्य भेदादुत्पत्तिर्निवृत्तिभैंदादेवेत्यवधारणस्येष्टत्वात् ॥
विभागः परमाणूनां स्कंधभेदान्न वाणवः । नित्यत्वादुपजायते मरुत्पथवदित्यसत् ॥ २॥ संयोगः परमाणूनां संघातादुपजायते । न स्कंधस्तद्वदेवेति वक्तुं शक्तेः परैरपि ॥३॥
ननु च संघाततः संयोगविशेष एव ततः कथं परमाणूनां परस्परं संयोगः समुपजायेत तस्यासंयोगजत्वात् । सर्वत्रावयवसंयोगपूर्वस्यावयविसंयोगस्य प्रसिद्धेरिणादौ द्वितंतुकसंयोगवत् परस्परमवयवानां तु संयोगस्यान्यतरकर्मजस्योभयकर्मजस्य वा प्रतीतेस्खलद्रूपत्वात् । ततः संघातादवयविन एव स्कंधापरनाम्न उत्पत्तिर्न संयोगस्येति चेत् , तर्हि विभागो भेद एव प्रतिपाद्यते ततः कथं व्यणुकादेः स्कंधस्य विभागः समुपजायेत तस्याविभागजत्वात्सर्वत्रावयवविभागपूर्वस्यावयविविभागस्य विभागजविभागस्य वा प्रसिद्धेराकाशस्कंधदलविभागवत् । परस्परमवयवानां तु विभागस्यान्यतरकर्मजस्योभयकर्मजस्य वा प्रतीते. रबाध्यत्वात् कथं घणुकादिस्कंधभेदाद्विभागस्यैवोत्पत्तिरभ्युपगम्यते भवद्भिः? तस्यावयवभेदादाकाशाद्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org