________________
४३२
तत्त्वार्थश्लोकवार्तिके
[ सू० २८
भाग विभाग एवेति चेत्, तर्हि परमाणुसंघातादाकाशदेशादिना संयोगोपि संयोगजोस्तु | अथ परमाणुसंघातादुत्पन्नेनावयविना व्योमादेः संयोगः संयोगजो न पुनः परमाणुभिस्तस्य संयोग इति मतं, तर्हि स्कंधभेदादुत्पन्नस्य परमाणोरेकदेशादिभ्यो विभागो न विभागजः किं तु स्कंधभेद इति सर्व समानं पश्यामः । यदि पुनरवयवानां संयोगादवयविनः प्रादुर्भावस्तद्भावे भावात्तदभावे वाभावाद्विभाव्यते, तदा तत एव परमाणूनां स्कंधभेदात्प्रादुर्भावोस्तु । नित्यत्वात् तेषां न प्रादुर्भाव इति चेन्न, तन्नित्यत्वस्य सर्वथा अनवसायात् । नित्याः परमाणवः सदकारणवत्त्वादाकाशादिवदित्यपि न सम्यक्, तेषा - मकारणवत्त्वासिद्धेः । पुद्गलद्रव्यस्य तदुपादानकारणस्य भावात् । स्कंधभेदस्य च सहकारिणः प्रसिद्धेस्तद्भावे वा भावात् । सूक्ष्मपूर्वकः स्कंधो न स्कंधपूर्वकः सूक्ष्मोस्ति यतः स्कंधादणुरुत्पद्यत इति चेन्न, प्रमाणाभावात् ॥
1
विवादाध्यासितः स्कंधो जायते सूक्ष्मतोन्यतः । स्कंधत्वात्पटवत्प्रोक्तं यैरेवं ते वदंत्विदं ॥४ विवादगोचराः सूक्ष्मा जायंते स्कंधभेदतः । सूक्ष्मत्वाद् दृष्टवस्त्रादिखंडवांत्यभावतः ॥ ५ ॥ कर्पासपिंडेन सूक्ष्मेण व्यभिचारिता । हेतोरिति न वक्तव्यमन्यस्यापि समत्वतः ।। ६ ।। लिथावयव कर्पासपिंड संघाततो यथा । घनावयवकर्पासपिंडः समुपजायते ॥ ७ ॥ तथा स्वष्टपिंडेोऽनिष्ट निबिडपिंडकः । प्रतीतिगोचरोस्तु स यथासूत्रोपपादितः ॥ ८ ॥ विवादापन्नोवयवी खपरिमाणान्महापरिमाण कारणारब्धावयवित्वात् पटवदिति यैरुक्तमनुमानं ते वदंत्विदमपि विवादगोचराः सूक्ष्माः स्थूलभेदपूर्वकाः सूक्ष्मत्वात् पटखंडादिवदिति । धनकर्पासपिंडेन सूक्ष्मेण शिथिलावयवकर्पासपिंडसंघातारब्धेनावयवित्वस्य हेतोर्व्यभिचारान्नैव वदंतीति चेत्, समान मन्यत्र तेनैव खपरिमाणान्महापरिमाणकारणारब्धेनावयवित्वस्य हेतोर्व्यभिचारात् । यथैव हि लिथावयवकर्पासपिंडानां सतां समुपजायमानो घनावयव कर्पासपिंडः सूक्ष्मो न स्थूलभेदपूर्वकस्तथा स एव तेषां स्थविष्टानां संयोगविशेषादुपजायमानो घनावयवः स्वपरिमाणादणुपरिमाण कारणारब्धः प्रतीतिविषयः । ततो नाप्तोपज्ञमिदं नियमकल्पनमिति यथा सूत्रोपपादितं तथैवास्तु । तथाहि - द्वयोः परमाण्वोः संघातादुत्पद्यमानो द्विप्रदेशः स्कंधः कश्चिदाकाशप्रदेशद्वयावगाही परमाणुपरिमाण एव स्यात् । द्व्यणुकाभ्यां च स्वकारणादधिकपरिमाणाभ्यामुत्पद्यमानः कश्चिदाकाशप्रदेशचतुष्टयावगाही महान् । कश्चित्पुनरेकाकाशप्रदेशावगाही । ततोणुरेवावगाहविशेषस्य नियमाभावात् । तथा शताणुकावयविभेदादुत्पद्यमानोवयवी कश्चित्सूक्ष्मः स्तोकाकाशप्रदेशावगाहित्वात् । कश्चित्तत एवाल्पाकाशप्रदेशावगाहभाजोल्पाद्वह्नाकाशप्रदेशावगाहित्वान्महान् । एवमेकैकसमयिकाभ्यां भेदसंघाताभ्यामुत्पद्यमानोपि स्कंधः कश्चित्स्वकारणपरिमाणादधिक परिमाणः कश्चिन्यूनपरिमाण इति सूक्तमुत्पश्यामो दृष्टविरोधाभावात् प्रतीयते हि
तादृशः ॥
भेदसंघाताभ्यां चाक्षुषः ॥ २८ ॥
भेदात्संघाताद्भेदसंघाताभ्यां च चक्षुर्ज्ञानग्राद्यावयवी कश्चित् परिमाणादणुपरिमाण कारणपूर्वकः, कश्चिन्महापरिमाणकारणपूर्वकः, कश्चित्समानकारणारब्धस्तद्वद्दृष्टोपि स्याद्वाधकाभावात् । तदाहुः
चाक्षुषोarat कचिद्भेदात्संघाततो द्वयात् । उत्पद्यते ततो नास्य संघातादेव जन्मनः ॥ १ ॥ पटादिरूपव्यतिरेकेण चक्षुर्बुद्धौ च प्रतिभासमानोवयवी कथं चाक्षुषो नाम ? गंधादेरपि चाक्षुषत्वप्रसंगादिति चेन्न, पटाद्यवयविन एव चक्षुर्बुद्धौ प्रतिभासनात् । तद्व्यतिरेकेण रूपस्य तत्राप्रतीतेर्गधादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org