________________
पञ्चमोऽध्यायः ।
1
वत् । चक्षुर्बुद्धौ रूपं प्रतिभासते न पुनस्तदभिन्नोवयवीति ब्रुवाणः कथं स्वस्थः ? कथं रूपादभिन्नोवयवी रूपमेव न स्यादिति चेत् तस्य ततः कथंचिद्भेदात् । न हि सर्वथा गुणगुणिनोरभेदमात्रमाचक्ष्महे प्रतीतिविरोधात् पर्यायार्थतस्तयोर्भेदस्यापि प्रतीतेः । सर्वथाभेदे तयोर्भेद इव गुणगुणिभावानुपपत्तेः गुणखात्मवत्कुटपटवच्च । तत्र द्रव्यार्थिकप्राधान्याद्रव्यखरूपादभिन्नत्वाद्रूपस्य चाक्षुषत्वे द्रव्यस्य चाक्षुषत्वसिद्धिः स्पृश्यादभिन्नस्य स्पर्शस्याभावात्तत्र तस्य स्पर्शनत्वसिद्धिरिति चेत् पर्यायार्थिकप्राधान्याच्च द्रव्याद्भेदेपि रूपस्येव द्रव्यस्यापि चाक्षुषत्वोपगमान्न तस्याचाक्षुषत्वं नाप्यस्पर्शनत्वं स्पर्शस्येव तद्रव्यस्य स्पर्शनत्वप्रतीतेः । न च दर्शनं स्पर्शनं च द्रव्यमिति द्वींद्रियग्राह्यं द्रव्यमुपगम्यते तस्य प्राणरसनश्रोत्रमनोग्राह्यत्वेनापि प्रसिद्धेः । रूपादिरहितस्य द्रव्यस्यैव द्रव्यरहितानां रूपादीनां प्रत्यक्षाद्यविषयत्वादसर्वपर्यायाणां द्रव्याणां मतिश्रुतयोर्विषयत्वव्यवस्थापनात् । इदमेव हि प्रत्यक्षस्य प्रत्यक्षत्वं यदनात्मन्यविवेकेन बुद्धौ स्वरूपस्य समर्पणं । इमे पुना रूपादयो द्रव्यरहिता एवामूल्यदानक्रयिणः स्वरूपं च नोपदर्शयंति प्रत्यक्षतां च खीकर्तुमिच्छंतीति स्फुटमभिधीयतां । एतेन श्रुतज्ञानेप्यप्रतिभासमानाः श्रुतज्ञानप - रिच्छेद्यत्वं स्वीकर्तुमिच्छंतस्त एवामूल्यदानक्रयिणः प्रतिपादितास्तदा हितद्रव्यवत् । ततः प्रतीतिसिद्धमवयविनः चाक्षुषत्वं स्पर्शनत्वादि समुपलक्षयति बाधकाभावात् ॥
किं पुनर्द्रव्यस्य लक्षणमित्याह ;
सद्द्रव्यलक्षणम् ॥ २९ ॥
अथ विशेषतः सद्द्रव्यस्य लक्षणं सामान्यतो वा ? यदि विशेषतस्तदा पर्यायाणां द्रव्यत्वप्रसंगादतिव्याप्तिर्नाम लक्षणदोषः, अव्याप्तिश्च त्रिकालानुयायिनि द्रव्ये सद्विशेषाभावात् वर्तमानद्रव्य एव तद्भावात् । यदि पुनः सामान्यतस्तद्रव्यस्य लक्षणं शुद्धमेव द्रव्यं स्यादिति सैवाव्याप्तिरशुद्धद्रव्ये तदभावादिति वदतं प्रत्युच्यते ;
सद्रव्यलक्षणं शुद्धमशुद्धं सविशेषणं । प्रोक्तं सामान्यतो यस्मात्ततो द्रव्यं यथोदितं ॥ १ ॥ न हि विशेषतः सद्द्रव्यलक्षणं यतोत्रातिव्याप्यव्याप्ती स्यातां सामान्यतस्तस्य तल्लक्षणत्वात् । न चैवं शुद्धद्रव्यमेव सल्लक्षणं स्यादशुद्धद्रव्यस्यापि लक्षणत्वोपपत्तेः । ततो नाव्याप्तिर्लक्षणस्य । यथैव हि देशकॉलेरविच्छिन्नं सर्वत्र सर्वदा सर्वथा वस्तुनि सत्सदिति प्रत्ययाभिधानव्यवहारनिबंधनं सत्तासामान्यं शुद्धद्रव्यलक्षणमबाधमनुभूयमानमाबालप्रसिद्धं तथा सर्वद्रव्यविशेषेषु द्रव्यं द्रव्यमित्यनुभूतबुद्ध्यभिधाननिबंधनद्रव्योपाधि सदेव द्रव्यत्वमशुद्धद्रव्य सविशेषणस्य सत्त्वस्याशुद्धत्वात् । एवं जीवपुद्गलधर्माधर्माकाशकालद्रव्यं प्रत्येतव्यं । क्रमयौगपद्यवृत्ति स्वपर्यायव्यापि जीवत्वविशेषणस्य सत्त्वस्य जीवद्रव्यत्वात्तादृक् पुद्गलत्वविशिष्टस्य पुद्गलद्रव्यत्वात् क्रमाक्रमभाविधर्मपर्यायव्यापिधर्मत्व विशेषणस्य धर्मद्रव्यत्वात्, तथाविधाधर्मत्वोपहितस्याधर्मद्रव्यत्वात् तादृशाकाशत्वोपाधेराकाशद्रव्यत्वात्, क्रमाक्रमभाविपर्यायव्यापिकालत्वविशिष्टस्य कालद्रव्यत्वात् ॥
I
2
Jain Education International
४३३
नन्वस्तु सद्द्रव्यस्य लक्षणं तत्तु नित्यमेव, तदेवेदमिति प्रत्यभिज्ञानात् । तदनित्यत्वेऽघटनात् सर्वदा बाधकरहितत्वादिति कश्चित्, प्रतिक्षणमुत्पादव्ययात्मकत्वान्नश्वरमेव तद्विच्छेदप्रत्ययस्याभ्रांतस्यान्यथानुपतेरित्यपरः । तं प्रत्याह; -
५५
For Private & Personal Use Only
www.jainelibrary.org