________________
४३४
तत्त्वार्थश्लोकवार्तिके
[सू० ३१ उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ३०॥ खजात्यपरित्यागेन भावांतरावाप्तिरुत्पादः, तथा पूर्वभावविगमो व्ययः, ध्रुवेः स्थैर्यकर्मणो ध्रुवतीति ध्रुवस्तस्य भावः कर्म वा धौव्यं तैर्युक्तं सदिति बोद्धव्यम् ॥ तत्रोत्पादव्ययध्रौव्ययुक्तं सदिति सूचनात् । गुणसत्त्वं भवेनैव द्रव्यलक्षणमंजसा ॥१॥
न हि गुणभूतं सत्त्वमुत्पादव्ययध्रौव्ययुक्तमुपपद्यते तस्य कल्पितत्वात् , नांजसा द्रव्यस्य लक्षणं वस्तुभूतस्यैव सत्त्वस्योत्पादादियुक्तत्वोपपत्तेः भेदज्ञानादुत्पादव्ययध्रौव्यसिद्धिवदभेदज्ञानाद्रौव्यसिद्धेरप्रतिबंधत्वात् । ननु च ध्रौव्ययुक्तं सद्रव्यस्य लक्षणं उत्पादव्यययुक्तं सत् पर्यायस्य लक्षणमिति व्यक्तं वक्तव्यमविरोधात् । नैवं वक्तव्यं, सतः एकत्वादेका सत्तेति वचनात्तदेवैकं द्रव्यमनंतपर्यायमित्युच्यते न पुनर्द्विविधा द्रव्यसत्ता पर्यायसत्ता चेति । ततोन्यस्य महासामान्यस्यैकस्य तद्व्यापिनो द्रव्यस्य प्रसंगात् । तदपि यद्यसद्रूपं तदा न द्रव्यं खरविषाणवत् । सद्रूपं चेत् , सैवैका सत्तेति सिद्धं सल्लक्षणं द्रव्यमेव पर्यायस्य पर्यायांतररूपेण सद्रूपत्वप्रतीतेः । तत एव सल्लक्षणमेव द्रव्यं शुद्धमित्यवधार्यते, तस्यासद्रूपत्वाभावात् प्रागभावादेरपि भावांतरस्वभावस्यैव सदसत्त्वसिद्धेः । सत्प्रत्ययाविशेषाद्विशेषलिंगाभावादेका सत्तेति परैरप्यभिधानात् केवलध्रौव्ययुक्तमेव सदित्येकांतव्यवच्छेदनार्थमुत्पादव्यययुक्तमित्युच्यते, तस्यानंतपर्यायात्मकत्वात् पर्यायाणां चोत्पादव्ययध्रौव्ययुक्तत्वात् । न नित्यं सदेकमस्त्यनुस्यूताकारं तस्यासपव्यावृत्त्या कल्पितत्वात् खलक्षणस्यैवोत्पादव्ययवतः सत्त्वादित्येकांतव्यवच्छित्तये ध्रौव्ययुक्तमित्यभिभाषणात् । स्यान्मतं; यद्युत्पादादीनि परैरुत्पादादिभिर्विना संति तदा द्रव्यमपि तैर्विनैव सदस्त्विति व्यर्थ तद्युक्तवचनं, अथ परैरुत्पादादिभिर्योगात् तदानवस्था स्यात् प्रत्येकमुत्पादादीनामपरोत्पादादित्रययोगात्तदुत्पादादीनामपि प्रत्येकमपरोत्पादादित्रययोगतः सत्त्वसिद्धेः । सुदूरमपि गत्वोत्पादादीनां खतः सत्त्वे सतोपि स्वत एव सत्त्वं भवेदुत्पादादीनां सतोन तरत्वे लक्ष्यलक्षणभावविरोधस्तद्विशेषाभावादिति । तदेतत्प्रज्ञाकरेणोक्तं तस्याप्रज्ञाविजूंभितमित्ययं दर्शयति;
यथोत्पादादयः संतः परोत्पादादिभिर्विना । तथा वस्तु न चेत्केनानवस्थादि निवार्यते ॥२॥ इत्यसत्सर्वथा तेषां वस्तुनो सदसिद्धितः । लक्ष्यलक्षणभावः स्यात्सर्वथैक्यानभीष्टितः ॥३॥
उत्पादव्ययध्रौव्यैक्ययुक्तं सत्समाहितं । तादात्म्येन स्थापितं सदिति युजेः समाध्यर्थस्य व्याख्यानान्न तेषां सतोर्थीतरत्वमुच्यते येन तत्पक्षभावी दोषोनवस्था तद्योगवैयर्थ्यलक्षणः स्यात् । न चार्थीतरत्वमेव यतो लक्ष्यलक्षणभावविरोधः कथंचिद्भेदोपगमायुजेर्योगार्थस्यापि व्याख्यानात् ॥
किं पुनः सतो रूपं नित्यं ? यौव्ययुक्तं स्यात् , किं वानित्यं ? यदुत्पादव्यययुक्तं भवेदित्युपदर्शयन्नाह;
तद्भावाव्ययं नित्यं ॥ ३१ ॥ सामर्थ्याल्लभ्यते द्वितीयं सूत्रं 'अतद्भावेन सव्ययमनित्यं' इति तस्य भावस्तद्भावस्तत्त्वमेकत्वं तदेवमिति प्रत्यभिज्ञानसमधिगम्यं तदित्युपगमात् । तेन कदाचिद्ययासत्त्वादव्ययं नित्यं सामर्थ्यादनुत्पादमिति गम्यते व्ययनिवृत्तावुत्पादनि त्तिसिद्धेरुत्तराकारोत्पादस्य पूर्वाकारव्ययेन व्याप्तत्वात् तन्निवृत्तौ निवृत्तिसिद्धेः । अतद्भावोन्यत्वं पूर्वलादन्यदिदमित्यन्वयप्रत्ययादवसेयं । तत्त्वध्रौव्यमनित्यमुत्पादव्यययोगात् तदुक्तं नित्यं तदेवेदमिति प्रतीतेन नित्यमन्यप्रतिपत्तिसिद्धेरिति तदेव युक्तमेतत्सूत्रद्वितयमित्युपदर्शयति;- .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org