________________
•
पञ्चमोऽध्यायः ।
४३५
तद्भावेनाव्ययं नित्यं तथा प्रत्यवमर्शतः । तद्रव्यं वस्तुनो रूपं युक्तमर्थक्रियाक्रियः ॥ १ ॥ सामर्थ्यात्सव्ययं रूपमुत्पादव्ययसंज्ञकं । सूत्रेस्मिन् सूचितं तस्यापाये वस्तुत्वहानितः ॥ २ ॥ न ह्येकांततो नित्यं सन्नाम तस्य क्रमयौगपद्याभ्यामर्थक्रियारोधात् । नाप्यनित्यमेव तत एव । न चार्थक्रियारहितं वस्तु सत् खरशृंगवत्, अर्थक्रियाकारिण एव वस्तुनः सत्त्वोपपत्तेः । ततस्सन्नित्यमनित्यं च युक्तं सूचितमविरुद्धत्वात् ॥
कुतस्तदविरुद्धमित्याह; —
अर्पितानर्पित सिद्धेः ॥ ३२ ॥
तद्भावेनाव्ययं नित्यमतद्भावेन सव्ययमनित्यमिति साध्यं । ततः -- नित्यं रूपं विरुध्येत नेतरेणैकवस्तुनि । अर्पितेत्यादिसूत्रेण प्राहैवं नयभेदवत् ॥ १ ॥ कुतः पुनः सतो नित्यमनित्यं च रूपमर्पितं चेत्याह;
द्रव्यार्थादर्पितं रूपं पर्यायार्थादनर्पितं । नित्यं वाच्यमनित्यं तु विपर्यासात्प्रसिद्ध्यति ॥ २ ॥
द्रव्यार्थादादिष्टं रूपं पर्यायार्थादनादिष्टं यथा नित्यं, तथा पर्यायार्थादादिष्टं द्रव्यार्थादनादिष्टमनित्यमिति सिद्ध्यत्येव । ततस्तदेकत्र सदात्मनि न विरुद्धं । यदेव रूपं नित्यं तदेवानित्यमिति वचने विरोधसिद्धेः विकलादेशायत्तनयनिरूपणायां सर्वथा विरोधस्यानवतारात् ॥ नन्वेवमुभयदोषाद्यनुषंगः स्यादित्यारे कायामिदमाह ; -
प्रमाणार्पणतस्तत्स्याद्वस्तु जात्यंतरं ततः । तत्र नोभयदोषादिप्रसंगोनुभवास्पदे ॥ ३ ॥
न हि सकलादेशे प्रमाणायते प्रतिभासनमुत्पादव्ययधौव्ययुक्तं तदुभयदोषाभ्यां स्पृश्यते, तस्य नित्यानित्यैकांताभ्यां जात्यंतरत्वात् । तत एव नानवस्थावैयधिकरण्यं संकरव्यतिकरौ वा संशयो वा यतो प्रतिपत्तेरभावस्तस्यापाद्यते चित्रसंवेदनवदनुभवास्पदे वस्तुनि तदनवतारात् । तदित्थं परापरद्रव्यस्य सल्लक्षणस्य प्रसिद्धेर्न चाक्षुषमवयविद्रव्यं पुद्गलं स्कंधसंज्ञकं प्रतिक्षेप्तुं शक्यं, सर्वप्रतिक्षेपप्रसंगात् ॥
कुतः पुनः पुद्गलानां नानाद्रव्याणां संबंधो यतः स्कंध एकोवतिष्ठत इत्यारे कायामिदमाह;स्निग्धरूक्षत्वाद्वंघः ॥ ३३ ॥
स्नेहगुणयोगात्स्निग्धाः रूक्षगुणयोगाद्र्क्षास्तद्भावात् पुद्गलानां बंधः स्यात् । न रूक्षो नाम गुणोस्ति, स्नेहाभावे रुक्षव्यवहारसिद्धेरिति चेन्न; रूक्षाभावे स्नेहव्यवहारप्रसंगात् स्नेहस्याप्यभावोपपत्तेः, शीताभावे चोष्णव्यवहारप्रसक्तेरुष्णगुणाभावानुषंगात् । स्पर्शनेंद्रियज्ञाने शीतवदुष्णगुणस्य प्रतिभासनादुष्णो गुणस्पर्शविशेषोनुष्णाशीतपाकजेतरस्पर्शवदिति चेत्, तर्हि स्नेहस्पर्शन करणज्ञाने रूक्षस्य लघुगुरुस्पर्शविशेषवदवभासनात् कथं रूक्षो गुणो न स्यात् ? तस्य बाधकाभावादप्रतिक्षेपार्हत्वाच्चतुर्विंशतिरेव गुणा इति नियमस्याघटनात् । तथा सति;
स्कंधो बंधात्स चास्त्येषां स्त्रिग्धरूक्षत्वयोगतः । पुद्गलानामिति ध्वस्ता सूत्रे स्मिंस्तदभावता १ स्निग्धाः स्निग्धैस्तथा रूक्षा रूक्षैः स्निग्धाश्च पुद्गलाः । बंधं यथासते स्कंधसिद्धेर्बाधक हानित: २ नैकदेशेन कात्र्येन बंधस्याघटनात्ततः । कार्यकारणमाध्यस्थ्यक्षणवत्तद्विभावनात् ॥ ३ ॥ यथैककार्यकारणक्षणाभ्यां तन्मध्यस्यैकदेशेन संबंधे सावयवत्वमनवस्था च तदेकदेशाप्येकदेशांतरेण संबंधात् । कात्र्येन संबंधे पुनरेकक्षणमात्र संतानप्रसंग: कार्यकारणभावाभावश्च सर्वथैकस्मिंस्तद्विरोधात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org