________________
४३६.
तत्त्वार्थश्लोकवार्तिके
[सू० ३४
किं तर्हि ? संबंध एवेति कथ्यते । तथा परमाणूनामपि युगपत्परस्परमेकत्वपरिणामहेतुर्बधो नैकदेशेन सर्वात्मना वा सावयवत्वानवस्थाप्रसंगादेकपरमाणुमात्रपिंडप्रसंगाच्च । किं तर्हि ? पिंड एव स्निग्धरूक्षत्वविशेषायत्तत्वात्तस्य तथा दर्शनात् सक्ततोयादिवत् ॥
पूर्वापरविदां बंधस्तथाभावात् परो भवेत् । नानाणुभावतः सांशादणोर्वधोऽपरोस्ति किम् ||४|| निरंशत्वं न चाणूनां मध्यं प्राप्तस्य नावतः । तथा ते संविदोर्मध्यं प्राप्ताया: संविदः स्फुटम् संविदद्वैततत्त्वस्यासिद्धौ बंधो न केवलं । स स्यात् किंतु स्वसंतानाद्यभावात्सर्वशून्यता ॥ ६ ॥ तत्संविन्मात्रसंसिद्धौ संतानस्ते प्रसिद्ध्यति । तद्वद्वंघः स्थितोर्थानां परिणामो विशेषतः ||७||
शून्यवादिनापि संविन्मात्रमुपगंतव्यं तस्य चावश्यं कारणमन्यथा नित्यत्वप्रसंगात् कार्यमभ्युपगंतव्य - मन्यथा तदवस्तुत्वापत्तेरिति तत्संतानसिद्धिः । तत्सिद्धौ च कार्यकारणसंविदोर्मध्यमध्यासीनायाः संविदस्तत्संबंधेपि सांशत्वाभाववत्परमाणूनां मध्यमधिष्ठितोपि परमाणोरनंशत्वसिद्धेस्तत्सर्व समुदाय विशेषोप्यनेकपरिणामो बंधः प्रसिद्ध्यत्येव । स च सर्वपरमाणूनामविशेषेण प्रसक्त इत्यनिर्गुणानां बंधप्रतिषेधार्थमाह ; -
न जघन्यगुणानाम् ॥ ३४ ॥
जघन्यमिव जघन्यं निकृष्टमिति शाखादित्वादेर्देहांगत्वाद्वा जघनशब्दसिद्धिः जघने भवो जघन्योनिकृष्टः जघन्य इव जघन्योत्यताप्रकृष्ट इति । गुणशब्दस्यानेकार्थत्वे विवक्षावशाद्भागग्रहणं द्विगुणावयवा इति यथा द्विभागा इत्यर्थप्रतिपत्तेर्जघन्यो गुणो येषां ते जघन्यगुणाः परमाणवः सूक्ष्मत्वाद्वा तेषां न बंध इत्यभिसंबंधः । तेनैकगुणस्य स्निग्धरूक्षस्य वा परेण स्निग्धेन रूक्षेण चैकगुणेन द्वित्रिसंख्येयासंख्येयानंतगुणेन वा नास्ति बंधस्तथा व्यादिभिर्द्यादिगुणैरेकगुणैश्चेति सूत्रितं भवति । ननु च जघन्यगुणाः परमाणवः केचित्संतीति कुतो निश्चयः स्निग्धरूक्षगुणयोरप कर्षातिशयदर्शनात् परमापकर्षस्य सिद्धैर्जघन्यगुणसिद्धिः । उष्ट्रीक्षीराद्धि महिषीक्षीरस्यापकृष्टः स्नेहगुणः प्रतीयते ततो गोक्षीरस्य ततोप्यजाक्षीरस्य ततोपि तोयस्येति । तथा रूक्षगुणोपि शर्करातः कणिकानामपकृष्टः प्रतीयते ततोपि पांशूनामिति । स्निग्धरूक्षगुणः कचिदत्यंतमपकर्षमेति प्रकृष्यमाणापकर्षत्वादा नभसः परिमाणे परिमाणवादित्यनुमानाज्जघन्यगुणसिद्धि: । एतेनोत्कृष्टगुणसिद्धिर्व्याख्याता, प्रकर्षातिशयदर्शनात्कचित्परमप्रकर्षसिद्धेः । ननु च कदाचिदबंधः परमाणूनां सर्वदा स्कंधात्मतयैव पुद्गलानामवस्थितेः । बुद्ध्या परमाणुकल्पनोपपत्तेरविभागपरिच्छेदवदिति कश्चित्तं प्रत्याह ;
---
न जघन्यगुणानां स्याद्वंध इत्युपदेशतः । पुद्गलानामबंधस्य प्रसिद्धेरपि संग्रहः ॥ १ ॥ स्कंधानामेव केषांचिद्वालुकादीनामबंधोस्तु न परमाणूनामित्ययुक्तं, प्रमाणविरोधात् । "पृथिवी सलिलं छाया चतुरिंद्रियविषयकर्मपरमाणुः षड्विधभेदं भणितं पुद्गलतत्त्वं जिनेंद्रेणे" त्यागमेन पारमार्थिकपरमाणुप्रकाशकेन कल्पितपरमाणुवादस्य विधानात् । परमार्थतो असंबंधपरमाणुवादस्य च परमाणूत्पत्तिसूत्रेण निराकरणात् । भेदादणुः कल्प्यते इति क्रियाध्याहारान्नोत्पत्तिः परमाणूनामिति चेन्न, भेदसंघातेभ्य उत्पद्यंत इत्यत्र स्वयमुत्पद्यंत इति क्रियायाः क्रियांतराध्याहारनिवृत्त्यर्थमुपन्यासात् भेदादणुरिति सूत्रस्य नियमाथत्वात् पूर्वसूत्रेणैव परमाणूत्पत्तेर्विधानात् । किं च, विवादापन्नाः स्कंधभेदाः कचित्प्रकर्षभाजः प्रकृष्यमाणत्वात् परिमाणवदित्यनुमानबाधितत्वान्न परमाणूनामबंधकल्पना श्रेयसी । ननु च परमाणूना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org