________________
•
पञ्चमोऽध्यायः ।
४३७
मबंधसाधने तेषां पुनर्बंधाभावः साकल्येनैकदेशेन बंधस्याघटनादिति चेन्न, सूक्ष्मस्कंधानामपि बंधाभावप्रसंगात् । तेषामपि कात्रुर्येन बंधे सूक्ष्मैकस्कंध मात्रपिंडप्रसक्तेः । एकदेशेन संबंधे चैकस्कंधदेशस्य स्कंधांतरदेशेन बंधो नैकदेशेन वा भवेत् ? कात्सूर्येन चेत्तदेकदेशमात्रप्रसक्तिः, एकदेशेन चेदनवस्था स्यात् प्रकारांतरेण तद्वन्द्वे परमाणूनामपि बंधस्तथैव स्यात् स्निग्धरूक्षत्वाद्वेध इति निःप्रतिद्वंद्वस्य बंधस्य साधनात् । ततः सूक्तं न जघन्यगुणानां बंध इति । प्रतिषेधवत्पुद्गलानामबंधसिद्धेरपि संग्रह इति । येषां परमाणूनां बंधस्तेषां बंध एव सर्वदा, येषां त्वबंधस्तेषामबंध एवेत्येकांतोप्यनेनापास्तः । केषांचिदबंधानामपि कदाचिद्वंधदर्शनाद्वंघवतां वा बंधप्रतीतेर्बाधकाभावात् परमाणुष्वपि तन्नियमानुपपत्तेः ॥
गुणसाम्ये सदृशानाम् ॥ ३५ ॥
गुणवैषम्ये बंधप्रतिपत्त्यर्थं सदृशग्रहणं । सदृशानां स्निग्धगुणानां परस्परं रूक्षगुणानां वान्योन्यं भागसाम्ये बंधस्य प्रतिषेधात् । नन्वेवं विसदृशानां गुणसाम्ये बंधप्रतिषेधो न स्यादिति न मंतव्यं, सदृशग्रहणस्य विसदृशव्यवच्छेदार्थत्वाभावात् सदृशानामेवेत्यवधारणानाश्रयणात् । गुणसाम्ये वे सूत्रोपदेशे हि सदृशानां गुणवैषम्येपि बंधप्रतिषेधप्रसक्तौ तद्वत्तत्सिद्धये सदृशग्रहणं कृतं, तेन स्निग्धरूक्षजात्या साम्येपि गुणवैषम्ये बंधसिद्धिः । किमर्थमिदं सूत्रमब्रवीदित्याह ;
अजघन्यगुणानां तत्प्रसक्तावविशेषतः । गुणसाम्ये समानानां न बंध इति चाब्रवीत् ॥ १ ॥ केषां पुनर्बंध: स्यादित्याह ;
धिकादिगुणानां तु ॥ ३६ ॥
व्यधिकश्चतुर्गुणः । कथं ? एकगुणस्य केनचिद्वंधप्रतिषेधाद्विगुणस्य बंधसंभवात्ततोयधिकस्य चतुर्गुणत्वोपपत्तेः । प्रकारवाचिनादिग्रहणेन पंचगुणादिपरिग्रहः, त्रिगुणादीनां बंधे पंचगुणादीनां व्यधिकतोपपत्तेः । एवं च तुल्यजातीयानां विजातीयानां च व्यधिकादिगुणानां बंधः सिद्धो भवति । तु शब्दस्य प्रतिषेधानिवृत्त्यर्थत्वात् । तथाहि
अधिकादिगुणानां तु बंधोस्तीति निवेदयत् । सर्वापवादनिर्मुक्तविषयस्याह संभवम् ॥ १॥
उक्तं च । “णिद्धस्स णिद्वेण दुराहिएण लुक्खस्स लक्खेण दुराहिएण । णिद्धस्स लुक्खेण उ एइ बंध जहणजे विसमे समे वा ॥" विषमोऽतुल्यजातीयः समः सजातीयो न पुनः समानभाग इति व्याख्यानान्न समगुणयोर्बंधप्रसिद्धिः ॥
कुतः पुनर्द्वावेव गुणावधिको सजातीयस्य विजातीयस्य वा परेण बंधहेतुतां प्रतिपद्येते नान्यथेत्याह; - jarat पारिणामिकौ ॥ ३७ ॥
यस्मादिति शेषः । प्रकृतत्वाद्गुणसंप्रत्ययः । क्व, प्रकृतौ गुणौ व्यधिकादिगुणानां त्वित्यत्र समासे गुणीभूतस्यापि गुणशब्दस्यानुवर्तनमिह सामर्थ्यात् तदन्यस्यानुवर्तनासंभवात् । गुणाविति वाभिसंबंधोर्थवशाद्विभक्तिवचनयोः परिणामात् भावांतरापादकौ पारिणामिकौ, रेणोः क्लिन्नगुडवत् । तथाहि
बंधेधिको गुणौ यस्मादन्येषां पारिणामिकौ । दृष्टौ सक्कुजलादीनां नान्यथेत्यत्र युक्तिवाक् १ तथैव हि रूक्षाणां सक्तूनां स्निग्धा जलकणास्ततो द्वाभ्यां गुणाभ्यामधिका: पिंडात्मतया पारिणामिका दृश्यते नान्यथा । तथैव परमाणोर्द्विगुणस्य चतुर्गुणः परमाणुः परिणामकः स्यादन्यथा द्वयोः परमाण्वो -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org