________________
तत्त्वार्थ श्लोकवार्तिके
[सू० ३८
रन्योन्यमविविक्तरूपद्व्यणुकस्कंध परिणामायोगात् संयोगमात्रप्रसक्तेः परस्परविवेकप्रसक्तेस्तदनन्वयवत्त्वं । न च विभागसंयोगाभ्यामन्यपरिणामः प्राप्तिरूपो न संभवतीति युक्तं वक्तुं तृतीयस्यावस्थाविशेषस्य स्कंधैकत्वप्रत्ययहेतोः सद्भावात् । शुक्लपीतद्रव्ययोः परिणामे युक्तपीतवर्णपरिणामवत् क्लिन्नगुडानुप्रवेशे रेण्वादीनां मधुरसपरिणामवद्वा । नन्वत्रापि द्वावेव गुणावधिको पारिणामिकाविति कुतः प्रतिपत्तिः ? सुनिश्चितासंभवद्बाधकप्रमाणादागमाद्विशेषतस्तत्प्रतिपत्तिः । एवं युक्तमार्षे वर्गणायां बंधविधाने नोआगमद्रव्यबंधविकल्पो सादिवैख सिकबंध निर्देशे प्रोक्तः । विषमस्निग्धतायां विषमरूक्षतायां च बंधः समस्त्रिग्धतायां समरूक्षतायां वा भेद इति । तदनुसारेण सूत्रकारैर्बंधव्यपस्थापनात् परमागमसिद्धो बंधविशेषहेतुर्ह्यधिकादिगुणत्वं । द्वयोरेव वाधिकयोर्गुणयोः पारिणामिकत्वं । सामान्येन तु पुद्गलानां बंधहेतुः कश्चिदस्ति कात्स्यैकदेशतो बंधासंभवेपि बंधविनिश्चयात्तत्र बाधकाभावादिति पुद्गलस्कंधद्रव्यसिद्धिः, तस्यैव रूपादिभिः खभावैः परिणतस्य चक्षुरादिकरणग्राह्यतामापन्नस्य रत्यादिव्यवहारगोचरतया व्यवस्थितेः । न हि तथा परिणतं तद्भवत्यतिप्रसंगात् नापि तदेव परिणाममात्रप्रसंगात् । न च परिणामिनोसत्त्वे परिणामः संभवति खरविषाणस्य तैक्ष्ण्यादिवत् । नापि परिणामाभावे परिणामि भवति खरविषाणवदिति परिणामपरिणामिनोरन्योन्याविनाभावित्वादन्यतरापायेप्युभयासत्त्वप्रसक्तिः । ततो नित्यतापरिणामि द्रव्यमुपगंतव्यं तत्परिणामवत् ॥
४३८
गुणपर्ययवद्रव्यम् ॥ ३८ ॥
गुणाः वक्ष्यमाणलक्षणाः पर्यायाश्च तत्सामान्यापेक्षया नित्ययोगे मतुः । द्रवति द्रोण्यत्यदुद्रुवत्तां - स्तान् पर्यायानिति द्रव्यमित्यपि न विरुध्यते । विशेषापेक्षया पर्यायाणां नित्ययोगाभावात्कादाचित्कत्वसिद्धेः ॥ किमर्थमिदं पुनर्द्रव्यलक्षणं ब्रवीतीत्यारेकायामाह ;
गुणपर्ययवद्रव्यमित्याह व्यवहारतः । सत्पर्यायस्य धर्मादेर्द्रव्यत्वप्रतिपत्तये ॥ १ ॥
सतो हि महाद्रव्यस्य पर्यायो धर्मास्तिकायादिर्व्यवहारनयार्पणायां द्रव्यत्वमपि स्वीकरोत्येव, तस्य चाधारसाधारणलक्षणं गुणपर्यायवत्त्वमिति प्रतिपत्तव्यं, न पुनः क्रियावत्त्वं तस्याव्यापकत्वान्निष्क्रियेष्वाकाशादिष्वभावात् । समवायिकारणत्वमपि न द्रव्यलक्षणं युक्तं, गुणकर्मणोरपि द्रव्यत्वप्रसंगात्तयोर्गुणत्वकर्मत्वसमवायिकारणत्वसिद्धेः । तयोस्तत्समवायित्वमेव तत्कारणत्वं गुणत्वकर्मत्वसामान्ययोरकार्यत्वादिति चेन्न, सदृशपरिणामलक्षणस्य सामान्यस्य कथंचित्कार्यत्वसाधनात् । कथंचित्तदनित्यत्वमपि नानिष्टं, प्रत्यभिज्ञानस्य सर्वथा नित्येष्वसंभवादित्युक्तप्रायं । गुणवत्त्वे सति क्रियावत्त्वं समवायिकारणत्वं च द्रव्यलक्षणमित्यप्ययुक्तं, गुणवद्रव्यमित्युक्ते लक्षणस्याव्याप्त्यतिव्याप्त्योरभावात् तद्वचनानर्थक्यात् । नन्वेवमत्रापि पर्यायवद्द्रव्यमित्युक्ते गुणवदित्यनर्थकं सर्वद्रव्येषु पर्यायबंधस्य भावात् । गुणवदिति चोक्ते पर्यायवदिति व्यर्थं तत एवेति तदुभयं लक्षणं द्रव्यस्य किमर्थमुक्तमित्यत्रोच्यते
गुणवद्रव्यमित्युक्तं सहानेकांतसिद्धये । तथा पर्यायवद्द्रव्यं क्रमाकांतवित्तये ॥ २ ॥
नास्त्येकत्र वस्तुनीहानेको धर्मः सर्वभावानां परस्पर परिहारस्थितिलक्षणत्वादेकेन धर्मेण सर्वात्मना व्याप्तेः धर्मिणि धर्मांतरस्य तद्व्याप्तिविरोधादन्यथा सर्वधर्मसंकरप्रसंगादिति । सहानेकांत निराकरणवादिनः प्रति गुणवद्द्रव्यमित्युक्तं । सकृदनेकधर्माधिकरणस्य वस्तुनः प्रतीयमानत्वात् कुटे रूपादिवत् खपरपक्षसाधकत्वेतरधर्माधिकरणैकहेतुवत् । पितापुत्रादिव्यपदेशविषयाने कधर्माधिकरणपुरुषवद्वा । ग्राह्यग्राहकसंवेदनाकारं संवेदनमेकमुपयन् सकृदनेकधर्माधिकरणमेकं बहिरंतर्वा प्रतिक्षिपतीति कथं परीक्षको नाम ?
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org