________________
पञ्चमोऽध्यायः।
४३९ वेद्याद्याकारविवेकं परोक्षं संविदाकारं च प्रत्यक्षमिच्छन्नपि न सहानेकांतं निराकर्तुमर्हति संविदद्वैते प्रत्यक्षपरोक्षाकारयोरपारमार्थिकत्वे परमार्थेतराकारमेकं संवेदनं बलादापतेत् परमार्थाकारस्यैव सत्त्वात् संविदा नापारमार्थिकाकारः, सन्निति ब्रुवाणस्सकृत्सदसत्त्वस्वभावाक्रांतमेकं संवेदनं स्वीकरोत्येव । न सन्नाप्यसत्संवेदनमित्यपि व्याहतं, पुरुषाद्वैतादिवत्ततः सकृदनेकस्वभावमेकं वस्तु तत्त्वतः सर्वस्य खेष्टतत्त्वव्यवस्थानुपपत्तेः । खपररूपोपादानापोहनव्यवस्थापाद्यत्वाद्वस्तुत्वस्येति प्रपंचितप्रायं । तथा क्रमानेकांतनिराकरणवादिनं प्रति पर्यायवद्रव्यं प्रतीयमानत्वात् सर्वस्य परिणामित्वसिद्धेः प्रतिपादितत्वात् । एवं क्रमाक्रमानेकांतनिराकरणप्रवणमानसं प्रति गुणपर्यायवद्र्व्यमित्युक्तं सर्वथा निरुपाधिभावस्याप्रमाणत्वात् । अथवेयं त्रिसूत्री समवतिष्ठते, गुणवद्रव्यं पर्ययवद्रव्यं गुणपर्ययवद्रव्यं द्रव्यत्वान्यथानुपपत्तेरित्यनुमानत्रयं चेदं संक्षेपतो लक्ष्यते । ननु चैवं निष्क्रियं न सर्वद्रव्यसमवायिकारणं चेति पराकूतनिराकृतये क्रियावद्रव्यं समवायिकारणमिति च द्रव्यलक्षणमभिधीयते, पृथिव्यप्तेजोवायुननसां क्रियावत्त्वसिद्धेः सर्वद्रव्याणां समवायिकारणत्वस्य च गुणवत्त्ववत्प्रतीतेरित्येतदपि च परेषां वचोऽसमीचीनं, द्रव्यवद्विशेषवत्सामान्यवच्च द्रव्यमिति द्रव्यलक्षणवचनप्रसंगात् । न कार्यद्रव्यवत्कारणद्रव्यं नापि विशेषवत्सामान्यवद्वेति परद्रव्यविप्रतिपत्तिनिराकरणार्थत्वात् । स्याद्वादिनां पुनः कार्यद्रव्यविशेषसदृशपरिणामलक्षणसामान्यानामपि क्रियावत्समवायवच्च पर्यायत्वान्न तथा वचनं कर्तव्यमिति सर्वमनवद्यं ।। तदेवं जीवपुद्गलधर्माधर्माकाशभेदात्पंचविधमेव द्रव्यमिति वदंतं प्रत्याह;
कालश्च ॥ ३९॥ गुणपर्ययवद्रव्यमित्यभिसंबंधनीयम् ॥ कालश्च द्रव्यमित्याह प्रोक्तलक्षणयोगतः । तस्याद्रव्यत्वविज्ञाननिवृत्त्यर्थ समासतः॥१॥
के पुनः कालस्य गुणाः के च पर्यायाः प्रसिद्धा यतो गुणपर्यायवद्र्व्यमिति प्रोक्तलक्षणयोगः सियेत्तस्याद्रव्यत्वविज्ञाननिवृत्तेश्चेत्यत्रोच्यतेनिःशेषद्रव्यसंयोगविभागादिगुणाश्रयः । कालः सामान्यतः सिद्धः सूक्ष्मत्वाद्याश्रयोमिधा २ क्रमवृत्तिपदार्थानां वृत्तिकारणतादयः । पर्यायाः संति कालस्य गुणपर्यायवानतः ॥३॥
सर्वद्रव्यैः संयोगस्तावत्कालस्यास्ति सादिरनादिश्च विभागश्चासर्वगतक्रियावद्रव्यैः संख्यापरिमाणादयश्च गुणा इति सामान्यतोऽशेषद्रव्यसंयोगस्य विभागादिगुणानां चाश्रयः कालः सिद्धः । विशेषेण तु सूक्ष्मामूर्तत्वागुरुलघुत्वैकप्रदेशत्वादयस्तस्य गुणा इति सूक्ष्मत्वादिविशेषगुणाश्रयश्च । क्रमवृत्तीनां पदार्थानां पुद्गलादिपर्यायाणां वृत्तिहेतुत्वपरिणामक्रियाकारणत्वपरत्वापरत्वप्रत्ययहेतुत्वाख्याः पर्यायाश्च कालस्य संति यैस्तत्तानुमानमिति । गुणपर्यायवान् कालः । कथं द्रव्यलक्षणभाक् ? ततः कालो द्रव्यं गुणपर्ययवत्त्वाज्जीवादिद्रव्यवदिति तस्याद्रव्यत्वविज्ञाननिवृत्तिः ॥
सोऽनंतसमयः॥४०॥ परमसूक्ष्मः कालविशेषः समयः अनंताः समया यस्य सोनंतसमयः कालोवबोद्धव्यः । पर्यायतो द्रव्यतो वा व्यवहारतः परमार्थतो वेति शंकायामिदमुच्यते
सोनंतसमयः प्रोक्तो भावतो व्यवहारतः । द्रव्यतो जगदाकाशप्रदेशपरिमाणकः ॥१॥ भावः पर्यायस्तेनानंतसमयः कालोनंतपर्यायवर्तनाहेतुत्वात् । एकैको हि कालाणुरनंतपर्यायान् वर्त
सानसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org