________________
४४० तत्त्वार्थश्लोकवार्तिके
[सू० ४२ यते प्रतिक्षणं शक्तिभेदान्नान्यथा । ततोनंतशक्तिः सन्ननंतसमयः व्यवहारतोऽभिधीयते समयस्य व्यवहारकालत्वादावलिकादिवत् । द्रव्यतस्तु लोकाकाशप्रदेशपरिमाणकोऽसंख्येय एव कालो मुनिभिः प्रोक्तो न पुनरेक एवाकाशादिवत् , नाप्यनंतः पुद्गलात्मद्रव्यवत् प्रतिलोकाकाशप्रदेशं वर्तमानानां पदार्थानां वृत्तिहेतुत्वसिद्धेः । लोकाकाशाद्वहिस्तदभावात् । कथमेवमलोकाकाशस्य वर्तनं कालकृतं युक्तं तत्र कालस्यासंभवादिति चेत् , अत्रोच्यते
लोकादहिरभावे स्याल्लोकाकाशस्य वर्तनं । तस्यैकद्रव्यतासिद्धेयुक्तं कालोपपादितं ॥ २ ॥
न ह्यलोकाकाशं द्रव्यांतरमाकाशस्यैकद्रव्यत्वात्तस्य लोकस्यांतर्बहिश्च वर्तमानस्य वर्तनं लोकवर्तिना कालेनोपपादितं युक्तं, न पुनः कालानपेक्षं सकलपदार्थवर्तनस्यापि कालानपेक्षत्वप्रसंगात् । न चैतदभ्युपगंतुं शक्यं, कालास्तित्वसाधितत्वात् ॥ ___ ननु च जीवादीनि षडेव द्रव्याणि गुणपर्यायवत्त्वान्यथानुपपत्तेरित्ययुक्तं गुणानामपि द्रव्यत्वप्रसंगातेषां गुणपर्ययवत्त्वप्रतीतेरित्यारेकायामिदमाह;
द्रव्याश्रया निर्गुणा गुणाः ॥ ४१ ॥ आशयशब्दोधिकरणसाधनः कर्मसाधनो वा द्रव्यशब्द उक्तार्थः । द्रव्यमाश्रयो येषां ते द्रव्याश्रयाः, निष्क्रांता गुणेभ्यो निर्गुणाः । एवंविधा गुणाः प्रतिपत्तव्याः न पुनरन्यथा । तत्र द्रव्याश्रया इति विशेपणवचनाद्गुणानां किमवसीयत इत्युच्यते
द्रव्याश्रया इति ख्यातेः सूत्रेस्मिन्नवसीयते । गुणाश्रया गुणत्वाद्या न गुणाः परमार्थतः ॥१
न हि गुणत्वसर्वज्ञेयत्वधर्मा गुणाश्रया गुणा शक्यव्यवस्थाः, परमार्थतस्तेषां कथंचिद्गुणेभ्योनांतरतया गुणत्वोपचारात् । तत्त्वतस्तेषां गुणत्वे गुणानां द्रव्यत्वप्रसंगाद्गुणगुणिभावव्यवहारावस्थितिविरोधात् । द्रव्येष्वपि गुणास्तदुपचरिता एव भवंतु विशेषाभावादित्ययुक्तं, क्वचिन्मुख्यगुणाभावे तदुपचारायोगात् । ततो द्रव्याश्रया इति वचनादद्रव्याश्रयाणां गुणत्वादीनां गुणत्वं व्यावर्तितमवसीयते । निर्गुणा इति वचनात् । किं क्रियते इत्याहनिर्गुणा इति निर्देशात्कार्यद्रव्यस्य वार्यते । गुणभावः परद्रव्याश्रयिणोपीति निर्णयः ॥ २ ॥
द्रव्याश्रया गुणा इत्युच्यमाने हि परमाणुद्रव्याश्रयाणां ध्यणुकादिकार्यद्रव्याणां गुणत्वं प्रसज्येत तन्निगुणा इति वचनाद्विनिवार्यते तेषां गुणत्वेन द्रव्यत्वसिद्धेः । एतेन घटसंस्थानादीनां गुणत्वं प्रत्युक्तं, तेषां पर्यायत्वात् ॥ कः पुनरसौ पर्याय इत्याह;
तद्भावः परिणामः ॥४२॥ जीवादीनां द्रव्याणां तेन प्रतिनियतेन रूपेण भवनं तद्भावः तेषां द्रव्याणां खभावो वर्तमानकालतयानुभूयमानस्तद्भावः परिणामः प्रतिपत्तव्यः । स च
तद्भावः परिणामोत्र पर्यायः प्रतिवर्णितः । गुणाच सहभुवो भिन्नः क्रमवान् द्रव्यलक्षणम्॥१
पूर्वखभावपरित्यागाजहद्वृत्तोत्पादो द्रव्यस्योत्तराकारः परिणामः स एव पर्यायः क्रमवान् द्रव्यलक्षणं । न वासौ गुण एव प्रतिवर्णितस्तस्य सहभावित्वात्कथंचिद्भिन्नत्वेन व्यवस्थानात् । नन्वेवं नयद्वयविरोधस्तृ. तीयस्य गुणार्थिकनयस्य सिद्धेरित्यारेकायामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org