________________
तृतीयोऽध्यायः ।
३६१
फलज्ञानस्यानित्यस्य तत्र प्रसिद्धेरफलस्य प्रमाणस्यासंभवात् । तस्य फलत्वे नित्यत्वविरोधात् । फलं हि प्रमाणं कार्य तत्कथं नित्यं युक्तं ? प्रमाणफलात्मकमीश्वरज्ञानमेकमित्यपि व्याहतं, खात्मनि क्रियाविरोधात् तस्य खजननासंभवात् । यदि पुनरीशस्य प्रमाणभूतं ज्ञानं नित्यं फलभूतं त्वनित्यमिति मतं, तदा ज्ञानद्वयपरिकल्पनायां प्रयोजनं वाच्यं । तस्याशरीरस्यासतः सदा सर्वज्ञत्वसिद्धिः प्रयोजनमिति चेन्न, अज्ञा• नरूपाया एव सन्निकर्षादिसामग्र्याः प्रमाणत्वाभ्युपगमेपि सदा सर्वार्थज्ञानस्यानित्यस्य तत्फलस्य कल्पनात् सदा सर्वज्ञत्वसिद्धेर्व्यवस्थापनात् । नन्वशरीरस्येंद्रियसंनिक भाववदंतःकरणसंनिकर्षस्याप्यभावात् सन्निकर्षादिसामग्रीविरहे ततो अनादिसर्वार्थविषयं नित्यज्ञानमेव तस्य प्रमाणमिति चेन्न, आत्मार्थसन्निकर्षस्य प्रमाणत्वोपगमात् । महेश्वरस्य हि सकृत्सर्वार्थसंनिकर्षमात्रात्सर्वार्थज्ञानोत्पत्तिरिष्यते कैश्चित् ततो न नित्यज्ञानत्वं सिद्धं, येन न जगन्निमित्तमीश्वरो निर्देहत्वात् मुक्तात्मवदित्यनुमानं प्रतिहन्येत ॥
कालादेरशरीरस्य कार्योत्पत्तिनिमित्तता । सिद्धति व्यभिचारित्वं निर्देहत्वस्य चेन्मतं ॥१३॥ न तस्य पुरुषत्वेन विशिष्टस्य प्रयोगतः । कालादेरशरीरत्वेश्वरत्वाव्यभिचारतः ॥१४॥
देहान्निष्क्रांतो निर्देहः पुरुषविशेषो महेश्वरस्तत्त्वनिर्देहपुरुषत्वं ततः पुरुषत्वे सति निर्देहत्वादिति पुरुषत्वेन विशिष्टस्य निर्देहत्वस्य प्रयोगान्न कालादिना सर्वकार्योत्पत्तिनिमित्तेनाशरीरेण व्यभिचारित्वं यतोऽप्रतिहतमिदमनुमानं न स्यादशरीरेश्वरजगन्निमित्तत्वाभावसाधनं । किं चजगतां नेश्वरो हेतुरज्ञत्वादन्यजंतुवत् । न ज्ञोसावशरीरत्वान्मुक्तवत्सोन्यथा स वित् ॥ १५॥
एतेनानित्यज्ञानत्वेपीश्वरस्य ज्ञात्वा जगन्निमित्तत्वसिद्धेन मुक्तात्मवत्तदनिमित्तत्वमित्येतन्निरस्तमशरीरस्य, तन्मते सर्वथाप्यज्ञत्वात् । तस्य ज्ञत्वे मुक्तात्मनोपि ज्ञत्वप्रसंगाद्विशेषाभावात् ॥
सदेहबुद्धिमद्धेतुर्दृष्टांतोपि घटः कथं । निर्देहबुद्धिमद्धेतौ साध्ये जगति युज्यते ॥ १६ ॥ धीमद्धेतुत्वसामान्यं साध्यंचेन्निर्विशेषकं । नानाधीमनिमित्तत्वसिद्धः स्यात् सिद्धसाधनं ॥१७॥ नानात्वपरिणामाख्यभावकर्मनिमित्तकं । सिद्धं हीदं जगत्तस्य तद्भोग्यत्वप्रसिद्धितः ॥१८॥
न हि धीमद्धेतुत्वमानं जगतां पर्यायार्थादेशादभ्युपगच्छतः स्याद्वादिनोऽपसिद्धांतः, सिद्धांतेपि नानाप्राणिपरिणामाख्यभावकर्मनिमित्तजगद्व्यवस्थितेः अन्यथा जगतस्तदुपभोग्यविरोधात् ॥
सशरीरकुलालादिः कुर्वन् दृष्टो घटादिकं । स्वयमात्मा पुनर्देहमशरीरोपि विश्रुतः ॥ १९ ॥ सदेहेतरसामान्यस्वभावो जगदीश्वरः । करोतीति नु साध्येत यदा दोषस्तदा क सः॥ २० ॥ इत्येके तदसंबंधं स्वशरीराणि कुर्वता । शरीरांतरसंबंधात्मनां स्थानान्यथा क्रिया ॥ २१ ॥ परापरशरीराणां कल्पनान्नानवस्थितिः । ते समानादिसंबंधात्कार्यकारणभावतः ॥२२॥ पूर्वमतनुत्वे नरस्यमुक्तस्येव न युज्येत भूयोन्यतनुसंगतिः॥ सा यद्यदृष्टसद्भावान्मता तस्य तु सिद्ध्यतु । पूर्व कर्मशरीरेण संबंधः परविग्रहात् ॥ २३ ॥ शरीरमात्मनोऽदृष्टं पुद्गलात्मकमीरितं । सर्वथात्मगुणत्वेस्य पारतंत्र्यानिमित्तता ॥ २४ ॥
न हि सर्वथात्मगुणत्वे धर्माधर्मसंज्ञकस्यादृष्टस्यात्मपारतंत्र्यनिमित्तत्वं युक्तं । बुद्धिवत् इच्छाद्वेषयोरात्मगुणत्वेप्यात्मपारतंत्र्यनिमित्तत्वसिद्धेर्युक्तमेवेति चेन्न, तयोः सर्वथात्मगुणत्वाभावात् कर्मोदयनिमित्तत्वेन भावकर्मत्ववचनात् । तयोरेवात्मपारतंत्र्यस्वभावत्वाच्च न पारतंत्र्यनिमित्तत्वं । मोहविशेषपारतंत्र्य एव हि पुरुषस्येच्छाद्वेषौ तदपरतंत्रस्य क्वचिदभिलाषद्वेषासंभवात् । ततो न धर्माधर्मों पुरुषगुणौ पुरुष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org