________________
३६२ तत्त्वार्थश्लोकवार्तिके
[सू० ४० पारतंत्र्यनिमित्तत्वान्मोहविशेषान्निगलादिवत् । किं तर्हि ? पुद्गलपरिणामात्मको तौ तत एव तद्वत् पुद्गलपरिणामविशेषात्मकत्वाच्चादृष्टस्यात्मशरीरत्वमुपंगतमिति नौदारिकादिशरीरसंबंधात्पूर्वमदृष्टवत् सर्वथात्मा निर्देहो युक्तः । यस्तु निर्देहो मुक्तात्मा स न कस्यचिच्छरीरस्यारंभको भवति यतस्तद्वदीश्वरोपि जगतोऽहेतुः स्यात् ॥
संप्रति सदेहेश्वरवादिमतमाशंक्य प्रतिविधत्ते;क्षित्यादिमूर्तयः संति महेशस्य तदुद्भवे । स एव हेतुरित्यादि व्यभिचारो न चेद्भवेत् ॥२५॥ तथान्येपि किमात्मानः स्वमूर्युत्पत्तिहेतवः। स्वयं न स्युरितीशस्य क सियेत्सर्वहेतुता ॥२६॥ कुर्वन् क्षित्यादिमूर्तीश्च स्वमूर्ति तत्प्रयोगतः । मूर्त्यतराणि कुर्वीत यदि वानादिभिर्यतः ॥२७॥ गत्वा सुदूरमप्येवं यदि मूर्ती न काश्चन । कुर्यात्ताभिस्तदा हेतोरनैकांतिकता न किं ॥२८॥ अनादिमूर्तिभिस्तस्य संबंध इतिचेन्मतं । किंकृतानादिता तासां सनिवेशविशिष्टता ॥ २९ ॥ न वा ताभिर्महेशेन कृताभिव्यभिचारता । साधनस्य कृताभिवों तेन तामनवस्थिति ॥३०॥ केवलं मुखमस्तीति यत्किंचिदभिधीयते । मिथ्योत्तराणामानंत्यात्प्रेक्षावत्ता नु तत्र का ॥३१ ।। ततः सूक्तमेतत् सदेहेश्वरवादिनां सन्निवेशविशिष्टत्वादिति हेतुरीश्वरदेहेन व्यभिचारीति ॥ बुद्धिमद्धेतुकं यादृग्दृष्टं द्रव्यग्रहादिषु । संनिवेशविशिष्टत्वं तादृग्जगति नेक्ष्यते ॥ ३२॥ इति हेतोरसिद्धत्वं कैश्चिदुक्तं न युज्यते । तथा सर्वेष्टहेतूनामसिद्धत्वप्रसंगतः ॥ ३३ ॥ कृतधीजनकं तद्धि नाक्रियादर्शिनो यथा । कचित्तथा न धृमादिरम्यादिज्ञानकारणं ॥ ३४॥ वह्नयादिबुद्धिकारित्वं स्वयं सिद्धस्य सिद्धता । धूमादेः साधनस्यैतत्सिद्धौ वन्ह्यादिधीरिति३५ यथान्योन्याश्रयस्तद्वत्प्रकृतेपि हि साधने । कृतधीजनकत्वेस्य सिद्धतायां कृतत्वधीः ॥ ३६ ।। ततोनैकांतिको हेतुरेष वाच्यः परीक्षकैः । कार्यत्वार्थक्रियाकृत्वप्रमुखोनेन वर्णितः ॥ ३७॥
यथैव हि सन्निवेशविशिष्टत्वादिति हेतु सिद्धः संबंधो वक्तुमिष्टहेतूनामप्यसिद्धत्वप्रसंगात् । किं तर्हि ? परीक्षकैरनैकांतिको वाच्यस्तथा कार्यत्वादचेतनोपादानत्वादर्थक्रियाकारित्वात् स्थित्वाप्रवृत्तेः इत्येवमादिरपीश्वरदेहेन नैकांतिक एव सर्वथा विशेषाभावात् । अपि च
स्थावरादिभिरप्यस्य व्यभिचारोनुवर्ण्यते । कैश्चित्पक्षीकृतैस्तेषामधीमद्धेतुतास्थितैः ॥ ३८॥
कथं पुनः स्थावरादीनामबुद्धिमत्कारणकत्वस्थितियतस्तैरनैकांतिकत्वं कार्यत्वादिहेतूनामुद्भाव्यत इत्यावेदयति;
दृष्टक्षित्यादिहेतूनामन्वयव्यतिरेकतः । दृश्यते स्थावरादीनां सर्वगत्वेन वेधसः ॥ ३९ ॥ न देशे व्यतिरेकोस्ति क्षितावस्य सदा स्थितेः । सर्वगस्यान्वयस्त्वेको न तजन्यं त्वसाधनः ॥ क्षित्युदकबीजादितया कारणान्वयव्यतिरेकात् स्थावरादीनां भाव्यभावकयोरुपलंभान्न बुद्धिमत्कारणा. न्वयव्यतिरेकानुविधानं । न हि बुद्धिमतो वेधसः क्वचिद्देशे व्यतिरेकोस्ति सर्वगतत्वात् , नापि काले नित्यत्वात् । तथा च नान्वयो निश्चितः संभवति तद्भावाभावदर्शनमात्रान्वयो वा, स न तजन्यत्वं साधयति करभादे वे धूमाविर्भावदर्शनात्तजन्यत्वसिद्धिप्रसंगात् । कथमदृष्टस्य स्थावरादिनिमित्तत्वमित्याह;
नश्वरत्वाददृष्टस्यासर्वगत्वाच्च सिद्ध्यति । व्यतिरेकस्तत्र तस्य स्थावरादिनिमित्तता ॥४१॥ न ह्यदृष्टं धर्माधर्मसंज्ञितं कूटस्थं सर्वगतं वा महेश्वरवदिप्यते यतस्तस्य देशकालव्यतिरेको न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org