________________
तृतीयोऽध्यायः ।
३६३
सिद्ध्येत् । क्षित्यादिदृष्ट सामग्रीसद्भावेपि कचित्स्थावरादीनामनुपलंभाददृष्टकारणत्वं सिद्ध्यत्येव । कथमेवं तदुत्पत्तौ कालादेर्हेतुत्वमिति सर्वगतस्य व्यतिरेकासिद्धेरीश्वरवदिति वदंतं प्रत्याह; —
कालादिपर्ययस्यापि नित्यत्वाद्यप्रसिद्धितः । सर्वथा कार्यनिष्पत्तौ हेतुत्वं न विरुध्यते ॥ ४२ ॥ न हि कालाकाशादिपर्यायाणां नित्यत्वं सर्वगतत्वं वा प्रसिद्धं कालाणूनामेव द्रव्यार्थादेशान्नित्यत्वोपगमात् । निःपर्यायस्य नित्यस्य सर्वगतस्य च कालस्य परोपगतस्याप्रमाणकत्वात्, सर्वगतस्य नित्यस्य चाकाशद्रव्यस्यैव व्यवस्थापनान्निः पर्यायस्य तस्यापि ग्राहकप्रमाणाभावात् । धर्मास्तिकायस्याधर्मास्तिकायस्य च लोकव्यापिनोपि द्रव्यत एव नित्यत्वोपगमात् पर्यायतोऽसर्वगतत्वादनित्यत्वाच्च । ततो युक्तं स्वकार्योत्पत्तौ निमित्तत्वं सर्वथा विरोधाभावात् । यद्येवं महेश्वरगुणस्य सिसृक्षालक्षणस्यानित्यत्वादसर्वगतत्वात् च तन्निमित्तत्वं स्थावरादीनां युक्तं व्यतिरेकप्रसिद्धेरिति पराकूतमनूद्य दूषयति ;
1
"
महेश्वरसिसृक्षाया जगज्जन्मेति केचन । तस्याः शाश्वततापायाद् विभुत्वाददृष्टवत् ॥ ४३ ॥ तदयुक्तं महेशस्य सिसृक्षांतरतो विना । सिसृक्षोत्पादने हेतोस्तथैव व्यभिचारतः ॥ ४४ ॥ सिसृक्षांतरतस्तस्याः प्रसूतावनवस्थितेः । स्थावरादिसमुद्भूतिर्न स्यात्कल्पशतैरपि ॥ ४५ ॥ तद्भोक्तृप्राण्यदृष्टस्य सामर्थ्यात्सा भवस्य चेत् । प्रसूतिः स्थावरादीनां तस्मादन्वयनान्न किं ४६ स्वातंत्र्येण तदुद्भूतौ सर्वदोपरमच्युतेः । सर्वत्र सर्वकार्याणां जन्म केन निवार्यते ॥ ४७ ॥ व्याख्यातात्रेश्वरेणैव नित्या साध्यातिरेकिणी । कचिद्व्यवस्थितान्यत्र न स्यादन्वयभागपि ४८ नन्वेवं कालादिपर्ययस्य स्वकार्योत्पत्तौ निमित्तभावमनुभवतः प्रादुर्भावे यद्यपरः कालादिपर्यायो निमित्तं तद्वदन्यकार्योत्पत्तावपि कालादिपर्यायी निमित्तं मा भूत्, अथ निमित्तं तदुत्पत्तावप्यपरो निमितमित्यनवस्था स्यात् कालादिपर्यायस्य कारणमंतरेणोत्पत्तौ देशकालादिनियमानुपपत्तेः सर्वत्र सर्वदा भावात्सर्वकार्याणामनुपरतेत्यतिप्रसंग: । तस्य नित्यत्वे कालादिद्रव्यवद्यतिरिक्ता सिद्धिरन्वयमात्रसिद्धावपि सर्वदोत्पत्तिस्तेषामनिमित्तत्वप्रसंग ः । सिसृक्षावत्स्थावराद्युत्पत्ताविति केचित् तेपि न तत्त्वज्ञाः । स्याद्वादिनां स्वकार्योत्पत्तिनिमित्तस्य कालादिपर्ययस्य निमित्तत्व सिद्धेस्तदुत्पत्तावपि तत्पूर्वकालादिपर्यायस्य निमित्तत्वमित्यनादित्वान्निमित्तनैमित्तिकभावस्य तत्पर्यायाणां बीजांकुरादिवदनवस्थानवतारात् । कथंचित्खातंत्र्येणोत्पद्यमानस्यापि सर्वत्र सर्वदा च भावानुत्पत्तेः नित्यत्वाभ्युपगमाच्च । ननु महेश्वरसिसृक्षापि तर्हि स्त्रावराद्युत्पत्तौ निमित्तभावमनुभवतीति पूर्वसिसृक्षातः सापि खपूर्वसिसृक्षातः इत्यनादित्वात् कार्यकारणभावस्य कथमनवस्थादोषेणोपद्र्येत कथं वा तथैव हेतवो नैकांतिकाः स्युः ? न स्थावरादिकार्यानुपरमः स्वातंत्र्येणानुत्पादात् । नाव्यतिरेको नित्यत्वानभ्युपगमात् सिसृक्षायाः तन्नित्यत्वे सर्वदा कार्योत्पतिप्रसंगात् । सर्वदा सहकारिणामभावान्न तत्प्रसंग इति चेन्न, तेषामपि महेश्वरसिसृक्षया तज्जन्मत्वे सर्वदा सद्भावापत्तेस्तदनायत्तजन्मकृतैरेव हेतूनां व्यभिचारात् । तत्सहकारिणोपि खोत्पत्तिहेतूनामभावात् सर्वदोत्पद्यत इति चेन्न, तेषामपीश्वरसिसृक्षायास्तज्जन्मत्वेतरयोरुक्तदोषानुषंगात् । तत्सहकारिणां नित्यत्वे स एव सर्वदा कार्योत्पत्तिप्रसंग: । सिसृक्षायाः सहकारिणां च नित्यत्वादनित्यैव सा युक्ता । ब्राह्मण मानेन वर्षशतांते प्राणिनां भोगभूतये भगवतो महेश्वरस्य चतुर्दशभुवनाधिपतेः सिसृक्षोत्पद्यत इति वचनाच्च न नित्यासैौ तथोत्पत्तिविरोधादिति केचित् । तत्रैकेषां दूषणं सिसृक्षाया नित्यत्वाभावेपि दृष्टं क्षित्यादिकारण साकल्येपि स्थावरादीनां कदाचिदनुत्पत्तिप्रसंगः कदाचित्तदभावसंभवात् तदंत्य सहकारिकारणसन्निधानानंतरमेव सिसृक्षोत्पत्तेस्तदभावासंभवे तस्याः सहकारिकारणप्रभवत्वप्रसंगः तद्नंतर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org