________________
३६४ तत्त्वार्थश्लोकवार्तिके
[ सू० ४० भावनियमस्यानुपपत्तेः तेषां सहकारिणां सिसृक्षामुत्पादयतां सिसृक्षांतरादुत्पत्तौ स्थावरादिवत् कदाचिदनुत्पत्तिप्रसंगस्तस्य कदाचिदसंनिधानात्तदंत्यकारणसंनिधानानंतरमेव सिसृक्षांतरस्योत्पत्तिनियमात् । तदप्रसंगे तत्कारणप्रभवत्वप्रसंगस्तद्रनंतरभावनियमस्यान्यथानुपपत्तेः इत्यादि पुनरावर्तत इति चक्रकमेतत् । सिसृक्षांतरेणाप्रेरितानामेव सहकारिणामुत्पत्तेरेव हेतूनामनेकांतिकत्वं सहकारिणां सिसृक्षया सह नियमेनोत्पत्तेः । स्थावरादीनां सकलकारणानां कदाचिदनुपपत्तेः । प्रसंगाभावे सिसृक्षाया सहकारिणां च . क्षित्यादीनामेकं कारणमनुपपद्येत अन्यथा सहभावनियमायोगात् । तचैकं कारणं यदि सिसृक्षांतरेणाप्रेरितं तजनकं तेनैव हेतुव्यभिचारस्तेन प्रेरितस्य तज्जनकत्वे कदाचित्तजननप्रसंगः । पूर्ववत्तस्यापि प्रेर्येण सह नियमेनोत्पत्तौ तयोरप्येकं कारणं स्यात् । तच्चैकं कारणं यदि सिसृक्षांतरेणाप्रेरितं तजनक तेनैव हेतुव्यभिचार इत्यादि पुनरावर्तत इति चक्रकमपरं । क्षित्यादिभिः प्रागनंतरं नियमोत्पत्तौ सिसृक्षायाः सहकारिहेतुभिरेकसामग्र्यधीनता स्यादन्यथा प्रागनंतरं नियमोत्पत्त्ययोगात् । सा चैका सामग्री यदि सिसृक्षांतरेणाप्रेरिता तज्जनिका तदा तयैव हेतुव्यभिचारः । यदि पुनः प्रेरिता सा तज्जनिका तदा प्रेर्यात्प्रागनंतरं नियमेनोत्पत्त्या तस्या भवितव्यमन्यथोक्तदोषानुषंगात् । तथा च सिसृक्षांतरं प्रेर्यासामग्र्यविशेषात्प्रागनंतरं नियमेनोत्पद्यमानं तद्धेतुभिरेकसामग्र्यधीनं स्यात् । सा चैका सामग्री यदि सिसृक्षांतरेणाप्रेरिता तजनिका तदा तयैव हेतुव्यभिचार इत्यादि पुनरावर्तत इत्यन्यच्चक्रकं । तदेतद्दूषणं परिहर्तुकामेन क्षित्यादिभ्योनंतरं प्राक् सद्वा तैः सिसृक्षोत्पत्तिनियमतो नाभ्युपगंतव्या । तथा च तद्व्यतिरेकानुविधानमुपलभ्येत न चोपलभ्यते, क्षित्युदकबीजादिकारणसामग्रीसन्निधाने प्रतिबंधे वा सति स्थावरादिकार्यस्यावश्यं भावदर्शनादिति । तदेतदयुक्तं, स्थावरादीनामदृष्टादिहेतुत्वेप्येतद्दोषप्रसंगात् खसिद्धांतविरोधात् । यदि पुनरदृष्टक्षित्यादिकारणसाकल्येपि स्थावरादीनां परिणामवैचित्र्याददृष्टादिसिद्धिः चक्षुरादिकारणसाकल्येपि रूपादिज्ञानपरिणामवैचित्र्यादिनियतशक्तिवदिति मतं, तदेश्वरसिसृक्षासिद्धिरपि तत एवास्तु तस्यास्तत्सिद्ध्या विरोधाभावादित्यपरे । तेत्र प्रष्टव्याः । स्थावराद्युत्पत्तौ निमित्तभावमनुभवंती महेश्वरस्य सिसृक्षा यदि पूर्वसिसृक्षातो भवति सापि तत्पूर्वसिसृक्षातस्तदा सोत्तरां सिसृक्षां प्रादुर्भावयति वा नवा ? न तावदुत्तरः पक्षस्तदनंतरस्थावरादिभ्य उत्तरोत्तरस्थावराद्यनुत्पत्तिप्रसंगात् । तत एव तदुत्पत्तौ व्यर्थानादिसिसृक्षापरंपरापरिकल्पना, कथंचिदेकयैवाशेषपरापरस्थावरादिकार्याणामुत्पादयितुं शक्यत्वात् पूर्वसिसृक्षया अप्युत्तरोत्तरसिसृक्षां प्रत्यव्यापारात् । यदि पुनराद्यः पक्षीक्रियते तदा चोत्तरसिसृक्षायामेव प्रकृतसिसृक्षाया व्यापारात् ततः स्थावरादिकार्योत्पत्तिर्न भवेत् । एतेन पूर्वपूर्वसिसृक्षाया अप्युत्तरोत्तरसिसृक्षायामेव व्यावृत्तेः पूर्वमपि स्थावराद्युत्पत्त्यभावः प्रतिपादितः । यदि पुनरियं सिसृक्षांतरोत्पत्तौ स्थावरादिकार्योत्पत्तौ च व्याप्रियेत पूर्वा पूर्वा च सिसृक्षा परां परां च सिसृक्षां तत्सहभाविस्थावरादींश्च प्रति व्याप्रियमाणाभ्युपेयेत, तदैकैव सिसृक्षा सकलोत्पत्तिमतामुत्पत्तौ व्यापारवती प्रतिपत्तव्या । तथा च सकृत्सर्वकार्योत्पत्तेः कुतः पुनः कार्यक्रमभावप्रतीतिः ? स्यान्मतं, क्रमशः स्थावरादिकार्याणां देशादिनियतखभावानामुभयवादिप्रसिद्धत्वात् तन्निमित्तभावमात्मसात्कुर्वाणा महेश्वरसिसृक्षाः क्रमभाविन्य एवानुमीयंते कार्यविशेषानुमेयत्वात् कारणविशेषव्यवस्थितेरिति । तर्हि सिसृक्षांतरोत्पत्तावन्याः सिसृक्षाः स्थावरादिकार्योत्पत्तौ वापरास्तावंत्यो अभ्युपगंतव्याः कार्यविशेषात्कारण विशेषव्यवस्थितेरन्यथानुपपत्तेः । नानाशक्तिरेकैव सिसृक्षायां तन्निमित्तमितिचेत् , तर्हि सकलक्रमभावीतरकार्यकारणपटुरनेकशक्तिरेकैव महेश्वरसिसृक्षास्तु । सा च यदि सिसृक्षांतरनिरपेक्षोत्पद्यते तदा स्थावरादिकार्याण्यपि तन्निरपेक्षाणि भवंतु किमीश्वरसिमक्षया ? सिसृक्षांतरात्तदुत्पत्तौ तत एव सकलक्रमभावीतरस्थावरादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org