________________
तृतीयोऽध्यायः ।
३६५
कार्याणि प्रादुर्भवंतु । नाना शक्तियोगात्तदभ्युपगमे च स एव पर्यनुयोग इत्यनवस्था दुर्निवारा । यदि पुनर्नित्यनेकशक्तिरेकैव महेश्वरसिसृक्षा तदा अस्याः स एव व्यतिरेकाभावो महेश्वरन्यायवत् । तदव्यापित्वे एतच्छ्रन्येपि देशे स्थावरादीनामुत्पत्तेः कुतोन्वयस्यापि प्रसिद्धिः ? यदि पुनरनित्यापि ससृक्षा ब्राह्मण मानेन वर्षशतांते जगद्भोक्तृप्राण्यदृष्टसामर्थ्यादेकैवोत्पद्यते न सिसृक्षांतरादिति मतं, तदा तत • एव जगदुत्पत्तिरस्तु किमीश्वरसिसृक्षया ! ततो न स्थावराद्युत्पत्तौ महेश्वरो निमित्तं तदन्वयव्यतिरेकानुविधानबिकल्पत्वात् । यद्यन्निमित्तं तन्न तदन्वयव्यतिरेकानुविधान विकलं दृष्टं यथा कुविंदादिनिमित्तं वस्त्रादि । महेश्वरसिसृक्षान्वयव्यतिरेकानुविधान विकलं च स्थावरादि तस्मान्न तन्निमित्तमिति व्यापकस्य तदन्वयव्यतिरेकानुविधानस्यानुपलंभाद्याप्यतन्निमित्तत्वस्य स्थावरादिषु प्रतिषिद्धे सिद्धे सति सन्निवेशविशिष्टत्वादेर्हेतोरनैकांतिकत्वं स्थावरादिभिः केचिन्मन्यते ॥
एवमीशस्य हेतुत्वाभावसिद्धिं प्रचक्षते । व्यापकानुपलंभेन स्थावरादिसमुद्भवे ॥ ४९ ॥ एवं जगतां बुद्धिमत्कारणत्वे साध्ये कार्यत्वादिहेतोः स्थावरादिभिर्व्यभिचारमुद्भाव्य पुनः स्थावरादीनामीशनिमित्तत्वाभावसिद्धिं व्यापकानुपलंभेन केचित्प्रचक्षते ॥
पक्षस्यैवानुमानेन बाधोद्भाव्येति चापरे । पक्षीकृतैरयुक्तत्वाद्व्यभिचारस्य साधने ॥ ५० ॥
अनेनैवानुमानेन व्यापकानुपलंभेन पक्षबाधोद्भावनीया कालात्ययापदिष्टत्वं च हेतोस्तथोद्भावितं स्यान्न पुनः पक्षीकृतैः स्थावरादिभिः साधनस्य व्यभिचारस्तत्रोद्भावनीयस्तस्यायुक्तत्वात् । एवं हि न कश्चिद्धेतुरव्यभिचारी स्यात् कृतकत्वादेरपि शब्दानित्यत्वादौ पक्षीकृतैः शब्दैरेव कश्चिव्यभिचारस्योद्भावयितुं शक्यत्वात् । न कश्चिज्जगद्वुद्धिमन्निमित्तं साधयितुं स्थावरादीन् पक्षीकुरुते । तैः साधनस्य व्यभिचारोद्भावने वा कृते सति पश्चान्न पक्षीकुर्वीत येन व्यभिचाराविषयस्य पक्षीकरणाद्धेतोरव्यभिचारे न कश्चिद्धेतुर्व्यभिचारी स्यात् । पक्कान्येतान्याम्रफलान्ये कशाखाप्रभवत्वादुपयुक्तफलवदित्यादिषु तदेकशाखाप्रभवानामपक्कानामाम्रफलानां व्यभिचारविषयाणां पक्षीकरणादित्युपलंभः स्यात् । यथा चात्र न पक्षीकृतैः कश्चिव्यभिचारमुद्भावयति किंतु प्रत्यक्षबाधा पक्षस्य हेतोश्च कालात्ययापदिष्टत्वं तथा प्रकृतानुमानेपि । यथा च पक्षस्य प्रत्यक्षबाधोद्भावयितुं युक्ता तथानुमानबाधापि । यथा च प्रत्यक्षबाधितपक्षनिर्देशानंतरं प्रयुज्यमानो हेतुः कालात्ययापदिष्टस्तथानुमानबाधितपक्षनिर्देशानंतरमपि सर्वथा विशेषाभावात् पक्षबाधोद्भावने च हेतुभिः परिधानमपि न भवेदिति सोद्भावनीया, तदुपेक्षायां प्रयोजनाभावादिति चापरे प्रचक्षते । अन्ये त्वाहु:
सर्वथा यदि कार्यत्वं हेतुः स्याद्वादिनां तया । न सिद्धो द्रव्यरूपेण सर्वस्याकार्यता स्थितेः ५१ कथंचित्तु विरुद्धः स्याद्धीमत्त्वे तु जगत्स्वयं । कथंचित्साधयन्निष्टविपरीतं विशेषतः ।। ५२ ।। नाक्रोशंतः पलायंते विरुद्धा हेतवः स्वतः । सर्वगे बुद्धिमद्धेतौ साध्येन्यैर्जगतामिह ॥ ५३ ॥ यदि सर्वथा कार्यत्वमचेतनोपादानत्वं सन्निवेशविशिष्टत्वं स्थित्वा प्रवृत्त्यादि वा हेतुस्तदा न सिद्धस्तन्वादेरपि कद्रर्व्याथादेशादार्यत्वात् । कार्यत्वं तावदसिद्धं तथा तस्य नित्यत्वव्यवस्थितेः सर्वथा कस्यचिदनित्यत्वेर्थक्रियाविरोधात् । तत एव सर्वस्यानुपादानत्वादचेतनोपादानत्वं न सिद्धं ज्ञानादेः पक्षीकृतस्यापि चेतनोपादानत्वात् तदभ्युपगमो नापि भागासिद्धं वनस्पतिचैतन्ये खापवत् सन्निवेशविशिष्टत्वमपि न द्रव्यस्य पर्यायविषयत्वात्तस्येत्यसिद्धं ज्ञानादौ स्वयमभ्युपगमाच्च भागासिद्धं तद्वदेव स्थित्वा प्रवृत्तिरपि न द्रव्यार्थादेशात् कस्यचित्तथा सर्वस्य नित्यप्रवृत्तत्वादिती तर सिद्धिः । अर्थक्रियाकारित्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org