________________
३६६ तत्त्वार्थश्लोकवार्तिके
[सू० ४० पुनद्रव्यादर्थातरभूतस्य पर्यायस्यैकांतेन तदुरुपपादमित्यसिद्धमेव । यदि पुनः कथंचित्कार्यत्वमन्यद्वा हेतुस्तदा विरुद्धः स्यात् खयमिष्टविपरीतस्य कथंचिद्धीमद्धेतुकत्वस्य साधनात् । सर्वथा बुद्धिमत्कारणत्वे हि साध्ये जगतः कथंचिद्धीमद्धेतुकत्वसाधनो हेतुर्विशेषविरुद्धः सर्वोपीति । नाक्रोशंतः प्रपलायंते विशेषविरुद्धा हेतवः । कार्यत्वादिना मौलेन हेतुना खेष्टस्य साध्यस्याप्रसाधनात्तेषां निरवकाशत्वाभावात् तैरस्य व्याघातसिद्धेः । न चैवं धूमादेरम्याद्यनुमानं प्रत्याख्येयं कथंचिदग्निमत्त्वादेरेव क्वचिल्लौ- । किकैः साध्यत्वात् कथंचिद्भूमकत्वादेरेव हेतुत्वेनोपगमाच्चासिद्धत्वविरुद्धत्वयोरयोगात् । तर्हि जगतां कथंचिहुद्धिमत्कारणत्वस्य साध्यत्वात् कथंचित्कार्यत्वादेश्च हेतुत्वोपगमात्परस्यापि न दोषः इति चेन्न, स्याद्वादिनां सिद्धसाधनस्य तथा व्यवस्थापनात् ॥
द्रव्यं गुणः क्रियानंतविशेषोशाश्वतो ननु । विवादाध्यासितो धीमान् हेतुः साध्यस्थितो यदा ५४ कार्यत्वं न तथा खेष्टविपरीतं प्रसाधयेत् । नाप्यसिद्धं भवेत्तत्र सर्वथापि विवक्षितं ॥ ५५ ॥ इत्येके तदसंप्राप्तं भेदैकांताप्रसिद्धितः । कार्यकारणयोरैक्यप्रतिपत्तेः कथंचन ॥ ५६ ॥
यदप्याहुः परे पृथिव्यादिकार्यद्रव्यमशाश्वतं धर्मि तस्य विवादाध्यासितत्वान्न पुनराकाशं अभिलापातमेवं शाश्वतं द्रव्यं, नाप्यात्मा सुखाद्यनुमेयो नित्यो, न कालः परत्वापरत्वाद्यनुमेयो दिग्वा, नापि मनः सकृद्विज्ञानान्यथानुपपत्त्यानुमेयं, नापि पृथिव्यादिपरमाणवोकार्यद्रव्यानुमेयास्तेषामविवादापन्नत्वात् । तत एव न सामान्यमनुवृत्तिप्रत्ययानुमेयं, नापि समवाय इहेदमिति प्रत्ययानुमेयो, नांत्यविशेषा नित्यद्रव्यवृत्तयोऽत्यंतव्यावृत्तिबुद्धिहेतवः तथा गुणोप्यशाश्वत एव रूपादिधर्मी न पुनः शाश्वतोंत्यविशेषैकार्थसमवेतः । परिमाणैकत्वैकपृथक्त्वगुरुत्वस्नेहसलिलादिपरमाणुरूपरसस्पर्शादिलक्षणो नापि द्रव्यत्वममूर्तद्रव्यसंयोगो वा तदाधारेतरेतराभावो वा तस्यानुत्पत्तिरूपस्याविवादाध्यासितत्वात् । तथा क्रियाधर्मिणी विनश्वरी परिस्पंदलक्षणोत्क्षेपणादिर्न पुनर्धात्वर्थलक्षणा भावनादिः काचिन्नित्या तस्या अपि विवादापन्नत्वाभावात् । तस्य च बुद्धिमान् हेतुरस्तीति । यदा साध्यस्थितो भवेत् तदा नु कार्यत्वं खेष्टविपरीतत्वं साधयेत् खेष्टस्यैव सर्वथा बुद्धिमत्कारणकत्वस्य साधनात् । सर्वथा विवक्षितस्यापि तस्य सिद्धत्वं च नोपपत्तिमदिति तदेतत्सर्वमसंबद्धं, कार्यकारणयोभेदेकांताप्रसिद्धेः कथंचिदैक्यप्रतिपत्तेः । सर्वस्य तद्धे. दैकांतसाधनस्यानेकान्तग्राहिणा प्रमाणेन बाधितविषयत्वात् कालात्ययापदिष्टत्वव्यवस्थितेः । ननु च कार्यकारणयोरेकस्य कथंचिन्निश्चयात् कार्यद्रव्यस्य कारणद्रव्याद्भेदैकांतो मा भूत् गुणस्य चानित्यस्य कर्मणोपि च तत्कार्यत्वाविशेषात् सदृशपरिणामलक्षणस्य सामान्यस्य विसदृशपरिणामलक्षणस्य विशेषस्य वांत्यापरविकल्पस्य समवायस्य वा विष्वग्भावलक्षणस्य द्रव्यकार्यत्वात् कथंचित्ततोनन्यत्वमस्तु नित्यात्तु गुणाद्गुणी भिन्न एव तयोः कार्यकारणभावाभावादिति मन्यमानं प्रत्याह;
नैकांतभेदभृत्सिद्धो नित्यादपि गुणाद्गुणी । द्रव्यस्यानादिपर्यंतपरिणामात् तथा स्थितेः ५७
न केवलमनित्याद्गुणात्कर्मादेश्च गुणी जीवादिद्रव्यपदार्थः सर्वथा भिन्नो न सिद्धः । किं तर्हि ? नित्यादपि गुणादर्शनादिसामान्यान्न सर्वथा भिन्नस्तस्य तथानादिपर्यतपरिणामात्तथा व्यवस्थितत्वाज्जीवत्वादिवत् । कथंचित्तादात्म्याभावे तस्य तद्गुणत्वविरोधाद्रव्यांतरगुणवत् । तत्र समवायात्तस्य तद्गुणत्वमिति चेन्न, समवायस्य समवायितादात्म्यस्य प्रसाधितत्वात् । ततः सर्वस्य विवादाध्यासितस्य तत्कारणभुवनादेः सर्वथा बुद्धिमत्कारणत्वे साध्ये कथंचित्कार्यत्वं साधनं खेष्टविपरीतं कथंचिद्बुद्धिमन्निमित्तत्वं प्रसाधयेदेवेति विरुद्धं भवेत् । सर्वथात्र कार्यत्वमसिद्धमिति दुष्परिहरमेवैतद्रूषणद्वयं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org