________________
३६७
तृतीयोऽध्यायः। संप्रति साधनांतरमनूद्य दूषयन्नाह;विवादाध्यासितात्मानि करणादीनि केनचित । काधिष्ठितवृत्तीनि करणादित्वतो यथा ५८ वास्यादीनि च तत्कर्तृसामान्ये सिद्धसाधनं । साध्ये कर्तृविशेषे तु साध्यशून्यं निदर्शनम् ५९ विवादापन्नखभावानि करणाधिकरणादीनि केनचित् काधिष्ठितानि वर्तते करणाधिकरणत्वाद्वास्यादिवत् । योसौ कर्ता स महेश्वर इति कश्चित् , तस्य कर्तृसामान्ये साध्ये सिद्धसाधनं । कर्तृविशेषे तु नित्यसर्वगतामूर्तसर्वज्ञादिगुणोपेते साध्ये साध्यविकलमुदाहरणं, वास्यादेरसर्वगतादिरूपतक्षादिकधिष्ठितस्य प्रवृत्तिदर्शनात् ॥
तत्सामान्यविशेषस्य साध्यत्वाचेददूषणं । सोपि सिद्धाखिलव्यक्तिव्यापी कश्चित्प्रसिद्ध्यति ६० देशकालविशेषावच्छिन्नाग्निव्यक्तिनिष्ठितं । साध्यते ह्यग्निसामान्यं धूमानासिद्धभेदगं ॥६१॥
न कारणादिधर्मिणः करणादित्वेन हेतुना कर्तृसामान्याधिष्ठितवृत्तित्वं साध्यते, नापि कर्तृविशेषाधिष्ठितवृत्तित्वं येनोक्तदूषणं स्यात् । किं तर्हि ? कर्तृसामान्यविशेषाधिष्ठितत्वं साध्यते, रूपोपलब्ध्यादिक्रियाणां क्रियात्वेन करणसामान्यविशेषाधिष्ठितत्ववत् । न हि तासां करणसामान्याधिष्ठितत्वं साध्यं, सिद्धसाधनापत्तेः । नाप्यमूर्तत्वादिधर्माधारकरणविशेषाधिष्ठितत्वं, विच्छिदिक्रियायुदाहरणस्य साध्यविकलत्वप्रसंगात् । तस्य मूर्तत्वादिधर्माधारदात्रादिकरणाधिष्ठितस्य दर्शनात् । यथा वा लौकिकपरीक्षकप्रसिद्धे धूमादम्यनुमाने सामान्यविशेषः साध्यते तथात्रापीत्यदूषणमेव, अन्यथा सर्वानुमानोच्छेदप्रसंगादिति मन्यमानस्यापि सोपि कर्तृसामान्यविशेषः प्रसिद्धाखिलकर्तृव्यक्तिव्यापी कश्चित् सिद्ध्यति न पुनरिष्टविशेषव्यापी । न ह्यप्रसिद्धानिसामान्यं केनचित्साध्यते देशकालविशेषावच्छिन्नाग्निव्यक्तिनिष्ठितस्यैव तस्य साधयितुं शक्यत्वादन्यथा नित्यसर्वगतामूर्तामिसाधनस्यापि प्रसंगात् । तथा रूपोपलब्ध्यादीनामपि क्रियात्वेन प्रसिद्धकरणव्यक्तिव्यापिकरणसामान्यविशेषपूर्वकत्वमेव साध्यते नाप्रसिद्धकरणव्यक्तिव्यापि । व्यक्तिर्हि क्वचिन्मूर्तिमती दृष्टा यथा दात्रादिछिदिक्रियायां क्वचिदमूर्ता यथा विशेषणज्ञानादिविशेष्यज्ञानादौ । तत्र रूपोपलब्ध्यादौ करणसामान्यं कुतश्चित्सिद्ध्यति तदुपादानसामर्थ्य सिद्ध्येत् तद्र्व्यकरणं मूर्तिमत्पुद्गलपरिणामात्मकत्वाद्धावकरणं पुनरमूर्तमपि तस्यात्मपरिणामत्वादिति तस्य क्रियाविशेषात् प्रसिद्धस्य संज्ञाविशेषमानं क्रियते चक्षुः स्पर्शनं रसनमित्यादि । ततो भवतीष्टसिद्धिस्तावन्मात्रस्येष्टत्वात् । ननु च यथात्मनि रूपोपलब्ध्यादिक्रियामुपलभ्य तस्यैव तत्र व्याप्रियमाणस्य स्वतंत्रस्य कर्तुः करणं चक्षुरादि सिध्यति, तथा जगति करणादिसाधनमुपलभ्य तस्यैव करणादीनां कर्बधिष्ठितत्वं सिध्यतीति सकलजगत्कारणाद्यधिष्ठायीश्वर इति संज्ञायमानः कथमिष्टो न सियेत् तावन्मात्रस्य मयापीष्टत्वादिति पराकूतमनूद्य निराकरोति;सिद्धे कर्तरि निःशेषकारकाणां प्रयोक्तरि । हेतुः सामर्थ्यतः सिद्धः स चेदिष्टो महेश्वरः ॥६२॥ नैवं प्रयोक्तुरेकस्य कारकाणामसिद्धितः । नाना प्रयोक्तृकत्वस्य कचिदृष्टेरसंशयं ॥ ६३ ॥
न हि कारणावित्वस्य हेतोरेककर्तृत्वे सामर्थ्य येन ततो निःशेषकारकाणामेक एव प्रयोक्ता खेष्टोमहेश्वरः सिद्ध्येत् क्वचित्प्रासादादौ करणादीनां नाना प्रयोक्तकत्वस्याप्यसंदेहमुपलब्धेः । ननु प्राधान्येन चात्रापि तेषामेक एव प्रयोक्ता सूत्रकारो महत्तरो राजा वा गुणभावेन तु नाना प्रयोक्तृकत्वं जगत्करणादीनामपि न निवार्यत एव, ततः प्रधानभूतो अमीषामेक एव प्रयोक्तेश्वर इति चेत् न; प्रधानभूतानामपि समानकुले वित्तपौरुषत्यागाभिमानानां कचिन्नगरादौ करणादिषु नाना प्रयोक्तृणामुपलंभात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org