________________
३६८
तत्त्वार्थश्लोकवार्तिके
[सू० ४०
L
तेषामपि राजाचार्यादिर्वा प्रयोक्तक एवेति चेत्, तस्यापि राज्ञोन्यो महाराजः प्रधानः प्रयोक्ता तस्याप्यपरः ततो महानिति क्व नाम प्रधानप्रयोक्तृत्वं व्यवतिष्ठेत । महेश्वर एवेति चेन्न, तस्यापि प्रधानापराधिष्ठापक परिकल्पनायामनवस्थानस्य दुर्निवारत्वात् । सुदूरमपि गत्वा व्यवस्थितिनिमित्ताभावाच्च । स्यान्मतं, नेश्वरस्यान्योऽधिष्ठाता प्रभुः सर्वज्ञत्वादनादिशुद्धिवैभवभाक्त्वाच्च । यस्य त्वन्योधिष्ठाता प्रभुः स न सर्वज्ञोऽनादिशुद्धिवैभवभाग्वा यथाधिष्टकर्मकरादिः न च तथेश्वरस्तस्मान्न तस्यान्योधिष्ठाता प्रभुरिति । नात्र धर्मिणोसिद्धिरखिलजगत्कारणादीनां प्रयोक्तुस्तस्यानुमानसिद्धत्वात् नापि हेतुरसिद्धस्तस्य सर्वज्ञत्व - मंतरेण समस्तकारकाप्रयोक्तृत्वस्यानुमानसिद्धस्यानुपपत्तेरनादिशुद्धिवैभवाभावे वा शरीरस्य सर्वज्ञत्वायोगात् । न च शरीरोसौ तच्छरीरप्रतिपादकप्रमाणाभावात् इति । तदप्यसत्, सर्वज्ञत्वस्य हेतो रुद्रैर्व्यभिचारात् । तेषां हि सर्वज्ञत्वमिष्यते योगिनान्येन वाधिष्ठितत्वं महेश्वरस्यानादेरधिष्ठापकस्य तेषामादिमतं खयमभ्युपगमात्, तदनभ्युपगमे अपसिद्धांत प्रसंगात् । तथानादिशुद्धिवैभवमप्याकाशेनानैकांतिकं, तस्य जगदुत्पत्तौ वाधिकरणस्य माहेश्वराधिष्ठितत्वोपगमात् । किं च, यदि प्राधान्येन समस्तकारकप्रयोक्तृत्वादीश्वरस्य सर्वज्ञत्वं साध्यते सर्वज्ञत्वाच्च प्रयोक्रंतरं निरपेक्षं समस्तकारकप्रयोक्तृत्वं प्रधानभावेन तदा परस्पराश्रयो दोषः कुतो निवार्येत ? साधनांतरात्तस्य सर्वज्ञत्वसिद्धिरिति चेन्न, तस्यानुमानेन बाधितविषयत्वेनागमकत्वात् । तथाहि -नेश्वरोऽशेषार्थवेदी दृष्टेष्टविरुद्धाभिधायित्वात् बुद्धादिवदित्यनुमानेन तत्सर्वज्ञत्वावबोधकमखिलमनुमानमभिधीयमानमेकांत वादिभिरभिहन्यते, स्याद्वादिन एव सर्वज्ञत्वो - पपत्तेः युक्तिशास्त्राविरोधिवाक्त्वादित्यन्यत्र निवेदितं । ततो नाशेषकार्याणामुत्पत्तौ कारकाणामेकः प्रयोक्ता प्राधान्येनापि सिद्ध्यतीति परेषां नेष्टसिद्धिः । स्यान्मतं; नैकः प्रयोक्ता साध्यते तेषां नाप्यनेकः प्रयोक्तृसामान्यस्य साधयितुमिष्टत्वादिति । तदप्यसंगतमेव, तथा सिद्धसाधनाभिधानात् । न हि प्रयोतृमात्रे समस्तकारकाणां विप्रतिपद्यामहे यस्य यदुपभोग्यं तत्कारणं तत्प्रयोक्तृत्वनियमनिश्चयात् ॥
इति क्रियानुमानानां माला नैवामला भुवं । कर्तर्येकत्र संसाध्येनुमित्या पक्षबाधनात् ॥ ६४
यथैव सन्निवेशविशिष्टत्वादिसाधनं निरवद्यं व्यापकानुपलंभेन पक्षस्य बाधनात् तथा करणत्वाद्यनुमानमपि जगतामेककर्तृत्वे साध्ये विशेषाभावात् । तच्च समर्थितमेवेति नानुमानमाला निरवद्या विधातुं शक्या तस्याः प्रतिपादितानेकदोषाश्रयत्वात् । तत एवागमादपि नेश्वरसिद्धिरित्याह; - विश्वतश्चक्षुरित्यादेरागमादपि नेश्वरः । सिद्ध्येत्तस्यानुमानेनानुग्रहाभावतस्ततः ॥ ६५ ॥
न हि नैयायिकानां युक्त्यननुग्रहीतः कश्चिदागमः प्रमाणमतिप्रसंगात् । न च युक्तिस्तत्र काचिद्यवतिष्ठत इति नेश्वरसिद्धिः प्रमाणाभावात् प्रधानाद्वैतादिवत् ॥ ततः किं सिद्धमित्याह; -
osts
इत्येतद्वचनं सत्यतां गतं । बाधकस्य प्रमाणस्य सर्वथा विनिवारणात् ॥ ६६ ॥ लोकः खल्वकृत्रिमोऽनादिनिधनः परिणामतः सादिपर्यवसानश्चेति प्रवचनं यथात्रेदानीं कृतपुरुषापेक्षा बाधविवर्जितं तथा देशांतरकालांतरवर्ति पुरुषापेक्षयापि विशेषाभावात् ततः सत्यतां प्राप्तमिति सिद्धं सुनिर्णीतासंभवद्बाधकप्रमाणत्वादात्मादिप्रतिपादकप्रवचनवत् ॥
अथानुमानादप्यकृत्रिमं जगत्सिद्धमित्याह ;
विशिष्टसन्निवेशं च धीमता न कृतं जगत् । दृष्टकृत्रिमकूटादिविलक्षणतयेक्षणात् ॥ ६७ ॥ समुद्राकरसंभूतमणिमुक्ताफलादिवत् । इति हेतुवचः शक्तेरपि लोकोऽकृतः स्थितः ॥ ६८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org